SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २५६ अनुयोगद्वार-चूलिकासूत्रं नाम क्रियते तदपि नामेत्यायार्थः ।। अथ नामावश्यकस्वरूपनिरूपणार्थं सूत्रकार एवाह मू. (१०) से किं तं नामावस्सयं?, २१ जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा आवस्सएत्ति नातं कज्जइ से तं नामावस्सयं। वृ. अथ किं तत्रामावश्यकम् इति प्रश्ने सत्याह-'नामावस्सयं जस्स न'मित्यादि, अत्र द्विकलक्षणेनाङ्केन सूचितं द्वितीयमपि नामावस्सयंतिपदं दृष्टव्यम्, एवमन्यत्रापि यथासम्भवमभ्यूह्यं, नमिति वाक्यालङ्कारे, यस्य वसस्ततुनो जीवस्य वा अजीवस्य वा जीवानामजीवानां वा तदुभयस्य वा तदुभयावां वा आवश्यकमिति यन्नाम क्रियते तन्नामावश्यकमित्यादिपदेन सम्बन्धः, नाम च तदावश्यक चेति व्युत्पत्तेः, अथवा यस्य जीवादिवस्तुनः आवश्यकमिति नाम क्रियते तदेव जीवादिवस्तु नामावश्यकं नाम्ना-नाममात्रेणावश्यकं नामावश्यकमिति व्युत्पत्तेः, वाशब्दाः पक्षान्तरसूचका इति समुदायार्थः, ___ तत्र जीवस्य कथमावश्यकमिति नाम सम्भवतीति, उच्यते, यथा लोके जीवस्य स्वपुत्रादेः कश्चित्सीहको देवदत्त इत्यादि नाम करोति तथा कश्चित् स्वाभिप्रायवशादावश्यकमित्यपि नाम करोति, अजीवस्य कथमिति चेद्, उच्यते, इहावश्यकावासकशब्दयोरेकार्थता प्रागुक्ता, ततश्चोर्ध्वशुष्कोऽचित्तो बहुकोटराकीर्णो वृक्षोऽन्यो वा तथाविधः कश्चित्पदार्थविशेषः सादेरावासोऽयमितिलौकिकैर्व्यपदिश्यत एव, सच वृक्षादिर्यद्यप्यनन्तैः परमाणुलक्षणैरजीवद्रव्यनिष्पन्नस्तथाऽप्येकस्कन्धपरिणतिमाश्रित्य एकाजीवत्वेन विवक्षित इति स्वार्थिकप्रत्ययोपादानादेकाजीवस्यावासकनाम सिद्धं, जीवानामपि बहूनामावासकनाम दृश्यते यथाइष्टकापाकाद्यग्निर्मूषिकावास इत्युच्यते, तत्र ह्यग्नौ किल मूषिकाः संमूर्च्छन्ति अतस्तेषामसंख्येयानाग्निजीवानां पूर्ववदावासकं नाम सिद्धम्, अजीवानां तु यथा नीडं पक्षिणामावास इत्यच्येते, तद्धि बहुभिस्तृणाद्यजीवैर्निष्पद्यते इति बहूनामजीवानामावसाकनाम भवति, इदानीमुभयस्यावासकसंज्ञा भाव्यते-तत्र गहदीर्घिकाऽशोकवनिकाद्युपशोभितः प्रासादादिप्रदेशो राजादेरावास उच्यते, सौधर्मादिविमानं वा देवानामावासोऽभिधीयते, अत्र च जलवृक्षादयः, सचेतनरत्नादयश्च जीवा इष्टकाकाष्ठादयोऽचेतनरत्नादयश्चाजीवास्तनिष्पन्नमभयं, तस्य कप्रत्ययोपादने आवासकसंज्ञा सिद्धा, उभयानां त्वावासकसंज्ञा यथा संपूर्णनगरादिकं राजादीनामावास उच्यते, संपूर्णः सौधर्मादिकल्पो वा इन्दादीनामावासोऽभिधीयते, अत्र च पूर्वोक्तप्रासादविमानयोर्लघुत्वादेकमेव जीवाजीवोभयं विवक्षितमत्र तु नगरादीनां सौधर्मादिकल्पानां च महत्त्वाबहूनि जीवाजीवोभयानि विवक्षितानीति विवक्षया भेदो दृष्टव्यः, एवमन्यत्रापि जीवादीनामावाकसंज्ञा यथासंभवं भावनीया, दिगमात्रपदर्शनार्थत्वादस्य । निगमयन्नाह-'सेत्त'मित्यादि, ‘से त'मित्यादि वा कचित् पाठः, तदेतत्रामावश्कमित्यर्थः । इदानीं स्थापनावश्यकनिरूपणार्थमाह मू.(११) से किं तं ठवणावस्सयं?, २ जण्णं कट्ठकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लेप्पकम्मे वा गंथिरो वा वेढिमे वा पूरिमे वा संघाइमे वाअक्खे वा वराडए वा, एगो वा अनेगो वा सब्भावठवणा वा असब्भावठवणा वा आवस्सएत्ति ठवणा ठविज्जइ से तं ठवणावस्सयं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy