________________
-
-
२५४
अनुयोगद्वार-चूलिकासूत्रं वश्यकस्यानुयोग' इति ।। पुनरप्याह विनेयः
मू. (६) जइ आवस्सगस्स अनुओगो किं अंग अंगाई सुअखंधो अज्झयणं अज्झयणाई उद्देसो उद्देसो?, आवस्स(स्सयं) यस्स नंनो अंगं नो अंगाइं संअखंधो नो सुअखंधा नो अज्झयणं अज्झयणाइं नो उद्देसो नो उद्देसा॥
वृ. यद्यावश्यकस्य प्रस्तुतोऽनुयोगः, तर्हि किं न'मिति वाकक्यालङ्कारे, किमिति परप्रश्ने, किमेकं द्वादशाङ्गान्तर्गतमङ्गभिदम् उत बहून्यङ्गानि, अथैकः, श्रुतस्कन्धो बहवो वा श्रुतस्कन्धाः, अध्ययनं वैकं बहूनि वाऽध्ययनानि, उद्देशको वा एको बहवो वा उद्देशका इत्यष्टौ प्रश्नाः, तत्र श्रुतस्कन्धः अध्ययनानि चेदमिति प्रतिपत्तव्यं, षडध्ययनात्मकश्रुतस्कन्धरूपत्वादस्य, शेषास्तु षट् प्रश्ना अनादेयाः, अनङ्गादिरूपत्वादिति, एतदेवाह
'आवस्सयस्स न'मित्यादि, अत्राह-नन्वावश्यकं किमङ्गमङ्गानीत्येतत् प्रश्नद्वयमत्रानवकाशमेव, नन्द्यध्ययन एवास्यानङ्गप्रविष्टत्वेन निर्णीतत्वात्, तथात्राप्यङ्गबाटोत्कालिकक्रमेणानन्तरमेवोक्तत्वादिति, अत्रोच्यते यत्तावदुक्तं - 'नन्द्यध्ययन एवेत्यादि' तदयुक्तं यतो नावश्यं नन्द्यध्ययनं व्याख्याय तत इदं व्याख्येयमिति निमयोऽस्ति, कदाचिदनुयोगद्वारव्याख्यानस्यैव प्रथमं प्रवृत्तेः, अनियमज्ञापकश्चायमेव सूत्रोपन्यासः, अन्यथा ह्यङ्गबाह्यत्वेऽस्य तत्रैव निश्चिते किमिहाङ्गानङ्गप्रविष्टचिन्तासूत्रोपन्यासेनेति, मङ्गलार्थमवश्यं नन्दिरादौ व्याख्येया इति चेन्न, ज्ञानपञ्चकाभिधानमात्रस्यैव मङ्गलत्वात्तस्य चेहापि कृतत्वादिति, यच्चोक्तम् 'अत्रोप्यङ्गबाह्योत्कालिकक्रमेणे'त्यादि तत्रापि समुदितानामुद्देशसमुद्देशानुज्ञानयोगानां प्रश्नप्रकरणे तदुक्तम्, अत्र तु केवलोऽनुयोग एवाधिकृतः, तत्प्रस्तावेत्विदमेवोक्तमए-इदं पुनः प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग' इत्यतो भित्रप्रस्तावत्वात् पृच्छा क्रियते 'आवस्सयस्स नं कि'मित्यादि, विस्मरणशीलाल्पबुद्धिमाषतुषादिकल्पसाध्वनुग्रहार्थं वेत्यदोषः॥६॥
तदेवं यस्माद् 'इदं पुनः प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग' इत्यनेनावश्यकमिति शास्त्रनाम निर्णीतं, यस्माच्चाष्टस्वन्तरोक्तप्रश्नेष्वावश्यकं श्रुतस्कन्धत्वेनाध्ययनकलापात्मकत्वेन च निर्णीतं तस्मात्किमित्याह
मू.(७) तम्हा आवस्सयं निक्खिविस्सामि सुअंनिक्खिविस्सामि खंधं निक्खिविस्सामि अज्झयणं निक्खिविस्सामि।
वृ.यस्मात्प्रस्तुतानुयोगविषयं शास्त्रमुक्तक्रमेणावश्यकादिरूपतया निर्णीतं तस्मादावश्यकं निक्षेप्स्यामि श्रुतं निक्षेप्स्यामि स्कन्धं निक्षेप्स्यामि अध्ययनं निक्षेप्स्या, इदमुक्तं भवति-आवश्यकादिरूपतया प्रकृतशास्त्रस्य निश्चितत्वादावश्यकादिशब्दानामर्थो निरूपणीयः, सचनिक्षेपपूर्वक एव स्पष्टतया निरूपितो भवति, अतोऽमीषां निक्षेपः क्रियते, तत्र निक्षेपणं निक्षेपोयथासंभवमावश्यकादेर्नामादिभेदनिरूपणम्॥ मू.(८) . जत्थ य जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं।
जत्थाविअन जाणेज्जा चउक्कगं निक्खिवेतत्थ॥ वृ. तत्र जघन्यतोऽप्यसौ चतुर्विधो दर्शनीय इति नियमार्थमाह-'यत्र च' जीवादिवस्तुनि यं जानीयात् 'निक्षेपं' न्यासं, यतदोनित्याभिसंबन्धात्तत्र वस्तुनितं निक्षेपं' निक्षिपेत् 'निरवशेषं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org