SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ मूल-१४० २१३ एव प्रवर्तयन्ति, नासद्व्यवहारे, स तु विपर्ययमपि करोती, ततः कथमसौ सर्वज्ञो वीतरागोवा?, अथोच्येत-सद्व्यवहारविषयमेव भगवानुपदेशाां ददाति तेन सर्वज्ञो वीतरागश्च,यस्त्वधर्मकारी जनसमूहस्तं फलमसदनुभावयति येन न तस्माद्धर्माद् व्यावर्त्तते, तद् उचितफलदायित्वाद्विवेकवानेव भगवानीति न कश्चिदोषः, तदप्यसमीक्षिताभिधानं, यतः पापेऽपि प्रथमं स एव प्रवर्त्तयति नान्यो, न च स्वयं प्रवर्तते, तस्याज्ञत्वेन पापे धर्मे वा स्वयंप्रवृत्तरेयोगात्, ततः पूर्वं पापे प्रवर्त्य तत्फलमनुभाव्य पश्चाद्धम्र्मे प्रवर्तयतीति केयमीशश्वरस्य प्रेक्षापूर्वकारिता?, अथ पापेऽपि प्रथमं प्रवर्तयति तत्कर्माधिष्ठित एव, तथाहि तदेव तेन जन्तुना कृतं कर्म यद्वशात्पाए एव प्रवर्त्तते, ईश्वरोऽपि च भगवान् सर्वज्ञस्तथारूपं तत्कर्म साक्षात् ज्ञात्वा तं पाप एव प्रवर्त्तयति, तत्र उचितफलदायित्वान्नाप्रेक्षापूर्वकारीति, ननु तदपि कर्म तेनैव कारितं, ततस्तदपि कस्मात्प्रथमं कारयतीति स एवाप्रेक्षापूर्वकारिताप्रसङ्गः, अथाधर्ममसौ न कारयति, किन्तु स्वत एवासौ अधर्ममाचरति, अधर्मकारिणं तु तं तत्फलमसदनुभावयति, तदन्येश्वरवत्, तथाहि-तदन्ये ईश्वरा राजादयो नाधर्मे जनं प्रवर्त्तयन्ति अधर्मफलं तु प्रेष्यादिकमनुभावयन्ति तद्वद्भगवानीश्ववरोऽपि, तदप्ययुक्तं, अन्ये हि ईश्वरा न पापप्रतिषेधं कारयितुमीशाः, न हि नाम राजानोऽपि उग्रशासनाः पाप मनोवाक्यनिमित्ते (प्रवृत्तं) सर्वथा प्रतिषेधयितुं प्रभविष्णवः, स तु भगवान् धर्माधर्मविधिप्रतिषेधविधापनसमर्थ इष्यते ततः कथं पापे प्रवृत्तं न प्रतिषेधयति?, अप्रतिषेधतश्च परमार्थतः स एव कारयति, तत्फलशश्च(स्य) पश्चादनुभावनादिति तदवस्थ एव दोषः, अथ पापे प्रवर्त्तमानं प्रतिषेधयितुमशक्त इष्यते तर्हि नैवोच्चकैरिदमभिधातव्यं-सर्वमीश्वरेण कृतमिति, अपिच-यद्यसौ स्वयमधर्मं करोति तथा धर्ममपि करिष्यति फलं च स्वयमेव भोक्ष्यते ततः किमीश्वरकल्पनया विधेयमिति?, "स्वश्क्त्याऽन्येश्वराः पापप्रतिपेधं न कुर्वते। स त्वत्यन्तमशक्तेभ्यो, व्यावृत्तमतिरिष्यते॥१॥ अथाप्यशक्त एवासौ, तथा सति परिस्फुटम्। नेश्वरेण कृतं सर्वमिति वक्तव्यमुच्चकैः॥२॥ पापवस्त्वर्जकारित्वाद्धर्मादिरपि किं ततः" ।। इति, अथ ब्रवीथाः-स्वयमसौ धमाधम्मौ करोति, तत्फलं त्वीश्वर एव भोजयति, तस्य धर्माधर्मफलभोगे स्वयमशक्तत्वादिति, तदप्यसत्, यतो यो नाम स्वयं धर्माधर्मों विधातुमलं स कथं तत्फलं स्वयमेव न भोक्तुमीश:?, न हि पक्तुमोदनं समर्थो न भोक्तुमिति लोके प्रतीतं, अथवा भवत्वेतदपि तथाऽप्यसौ धर्मफलमुन्यत्तदेवाङ्गनासंस्पर्शादिरूपमनुभावयतु, तस्येष्टत्वात्, अधर्मफलं तु नरक प्रपातादिरूपुकस्मादनुभावयति?, न हि मध्यस्थभावमवलम्बमाना: परमकरुणापरितचेतसः, प्रेक्षावन्तो निरर्थके परपीडाहेतौ कर्मणि प्रवर्तन्ते, क्रीडार्था भगवतस्तथा प्रवृत्तिरिति चेत्, यद्येवं तर्हि कथमसौ प्रेक्षावान्?, तस्य हि प्रवर्त्तने क्रीडामात्रमेव फलं, ते पुनः प्राणिनः स्थाने २ प्राणैर्वियुज्यन्ते, उक्तं च "क्रीडार्था तस्य वृत्तिश्चेत्, प्रेक्षापूर्वक्रिया कुत: ?। एकस्य क्षणिका तृप्तिरन्यः प्राणैर्विमुच्यते॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy