________________
मूलं-१०२
१५७ पुष्टं राज्ञा-भगवन् ! यूयं जानीत?, सूरय उक्तवन्तो-बाढं, ततः सूत्रमुष्णोदके क्षिप्तम्, उष्णोदकसम्पर्काच्च विलीनं मदनमिति लब्धः सूत्रस्यान्तः, यष्टिरपिपानीये क्षिप्ता, ततो गुरुभागो मूलमिति ज्ञातं, समुद्गकेऽप्युष्णोदके क्षिप्ते जतु सर्वं गलितमिति द्वारं प्रगटं बभूव, ततो राजा सूरिन् प्रत्यवादीत्-भगवन्! यूयमपि दुविज्ञेयं किमपि कौतुकं कुरुत येन तत्र प्रेषयामि, तत: सूरिभिस्तुम्बकमकेस्मिन् प्रदेशे खण्डमेकमपहाय रत्नानां भृतं, ततस्तथा तत्खण्डं सीवितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्ट्रजकीयाः पुरुषा:-एतद्भक्त्वा इतो रत्नानि गृहीतव्यानि, न शक्तं तैरेवं कर्तुं । पादलिप्तसूरीणां वैनयिकी बुद्धिः ९।। _ 'अगए 'त्ति क्वच्चिपुरे कोऽपि राजा, स च परचक्रेण सर्वतो रोद्धमारब्धः, ततस्तेन राज्ञा सर्वाण्यपि पानीयानि विनाशयितव्यानीति विषकरः सर्वत्र पातितः, ततः कोऽपि कियद्विषमानयति, तत्रैको वैद्यो यवमात्रं विषमानीय राज्ञः समपितवान्-देव ! गुहाण विपमिति, राजा च स्तोकुकं विषं दृष्ट्वा चुकोप तस्मै, वेद्यो आनाय्यतां कोऽपि जीर्णो हस्ती, आनायितो राज्ञा हस्ती, ततो वैद्येन तस्य हस्तिनः पुच्छदेशे वालकमेकमुत्पाट्य तदीरयन्धे विषं सञ्चारितं, विषं च प्रसरमाददानं यत्र यत्र प्रसरति तत्तत्सर्वं विपन्नं कुर्वत् दृश्यते, वैद्यश्च राजानमभिधत्ते-देव! सर्वोऽप्येष हस्ती विषमयो जातः, योऽप्येनं भक्षयति सोऽपि विषमयो भवति, एवमेतद्विषं. सहस्रवेधि, ततो राजा हस्तिहानिदूनचेतासं प्रत्युवाच-अस्ति कोऽपि हस्तिनः प्रतिकारविधिः?, सोऽवादीत्-वाढमस्ति, ततस्तस्मिन्नेव वालरन्धेऽगदः प्रदत्तः, तत: सर्वोऽपि झटित्येव प्रशान्तो विषविकारः, प्रगुणीबभूव हस्ती, तुतोष राजा तस्मै वैद्याय। वैद्यस्य वैनयिकी बुद्धिः १०।
'रहिए गणिया य'त्ति स्थूलभद्रकथानके रथिकस्य यत् सहकारफललुम्बित्रोटनं यच्च गणिकायाः सर्षपराशेरुपरि नर्त्तनं ते द्वे अपि वैनयिकीबुद्धिफले ११-१२। . मू.(१०३) सीआ साडी दीहं च तणं अवसव्वयं च कुंचस्स १३ ।
. निव्वोदए अ १४ गोणे घोडगपडणं त रुक्खओ १५ ॥ वृ.'सीये 'त्यादि, क्वचित्पुरे कोऽपि राजा, तत्पुत्राः केनाप्याचार्येण शिक्षयितुमारब्धा, ते च तस्मै आचार्यय प्रभूतं द्रव्यं दत्तवन्तः, राजा च द्रव्यलोभी तं मारयितुमिच्छति, तैश्च पुत्रैः कथञ्चि-देतज्ज्ञात्वा चिन्तितम्-अस्माकमेष विद्यादायी परमार्थपिता, ततः कथमप्येनमापदो निस्तारायामः, ततो यदा भोजनाय समागतः स्नानशाटिकां याचते तदा ते कुमाराः शुष्कमपि शाटी वदन्ति-"अहो सीया साडी" द्वारसम्मुखं च तृणं कृत्वा वदन्ति-अहो दीर्घ तृणं, पूर्वं च क्रौञ्चकेन सदैव प्रदक्षिणीक्रियते, सम्प्रति तु स तस्यापसव्यं भ्रमितः, तत आचार्येण ज्ञातं-सर्वं मम विरक्तं, केवलमेते कुमारा मम भक्तिवशात् ज्ञापयन्ति, ततो यथा न लक्ष्यते तथा पलाययामास, कुमाराणामाचार्यस्य च वैनयिकी बुद्धिः १३। ___ 'निव्वोदएणं 'ति काऽपि वणिग्भार्या चिरंप्रोषिते भर्तरिदास्या निजसद्भावं निवेदयतिआनय कमपि पुरुषमति, ततस्तवा समानीतो, नखप्रक्षालनादिकं च सर्वं तस्य कारितं, रात्रौ च तौ द्वावपिसम्भोगाय द्वितीयभूमिकामारूढौ, मेघश्च वृष्टिं कर्तुमारब्धवान्, ततस्तेन तृषा पीडितेन पुरुषेण नीव्रोदकं पीतं तदपि च त्वग्विषभुजङ्गसंस्पृष्टमिति तत्पानेन पञ्चत्वमुपगतः, ततस्तया वणिग्भार्यया निशापश्चिमयाम एवशून्यदेवकुलिकायां मोचितः, प्रभाते च दृष्टो दाण्डपाशिकैः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org