SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ नन्दी-चूलिकासूत्रं इति, तत एवमुक्ते राजा सव्रीडंमनाक्तूष्णीमतिष्ठान्, ततः क्षणानन्तरंपृष्टवान् कथय रेकतिभिरहं जात इति ? स प्राह-देव! पञ्चभिः, राजा भूयोऽपि पृष्टवान्-केन केनेति?, रोहक आह-देव! एकेन तावद्वैश्रवणेन, वैश्रवणस्येव भवतो दानशक्तिदर्शनात्, द्वितीयेन चाण्डालने, वैरिसमूहं प्रति चाण्डालस्येव कोपदर्नात्, तृतीयेन रजकेन, यतो रजक इव वस्त्र परं निष्पीड्य तस्य सर्वस्वमुपहरन् दृश्यते, चतुर्थेन वृश्चिकेन, यन्मामपि बालकं निद्राभरसुप्तं लीलाकम्बिकाग्रेण वृश्चिक इव निर्दयं तुदसि, पञ्चमेन निजपित्रा, येन यथावस्थितं न्यायं सम्यक् परिपालयसि, एवमुक्ते राजा तूष्णीमास्थाय प्राभातिकं कृत्यमकार्षीत्, जननी च नमस्कृत्यैकान्ते पृष्टवान्कथय मातः! कतिभिरहं जान इति, सा प्राह-वत्स! किमेतत् प्रष्टव्यं?, निजपित्रा त्वं जातः, ततो राजा रोहकोक्तं कथितवान्, वदति च-मातः ! स रोहकः प्रायोऽलीकबुद्धिर्न भवति ततः कथय सम्यक् तत्त्वमिति, तत एवमतिनिर्बन्धे कृते सति सा कथयामास-यदा त्वद्गर्भाधानमासीत् तदाऽहं बहिरुधाने वैश्रवणपूजनाय गतवती, वैश्रवणं च यक्षमतिशायिरूपं दृष्टवा हस्तसंस्पर्शेन सञ्जातमन्मथोन्मादा भोगाय तं स्पृहितवती, अपान्तराले च समागच्छन्ती चण्डालयुवानमेकमतिरूपमपश्यं, ततस्तमपि भोगाय स्पृहयामिस्म, ततोऽक्तिने भागे समागच्छन्ती तथैव च रजकंदृष्टवाऽभिलषितवती, ततो गृहमागता सती तथाविधोत्सववशाद्वश्चिकं कणिक्कामयं भक्षणाय हस्ते न्यस्तवती, ततस्तत्संस्पर्शतो जातकाभोद्रेका तमपि भोगायासंशितवती, तत एवं यदि स्पृहामात्रेण तेऽपि पितरः सम्भवन्ति तन्न जाने, परमार्थतः पुनरेक एव ते पिता सकलजगत्प्रसिद्ध इति, तत एवमुक्ते राजा जननीं प्रणम्य रोहकबुद्धिविस्मितचेता, स्वावासप्रासादमगमत्, रोहकं च सर्वेषां मन्त्रिणां मूर्द्धाभिषिकं मन्त्रिणमकार्षित् ।। मू.(९८) भरहसिल पणिय रुक्खे खुड्डा पड सरड काय उच्चारे गय घयण गोल खंभे खड़ग मग्गित्थि पइ पत्ते॥ .. वृ. तदेवं 'भरहसिलेति' व्याख्यातं । सम्प्रति पणियंति व्याख्यायते-द्वौ पुरुषौ-एको ग्रामेयकोऽपरो नागरिकः, तत्र ग्रामयेकः, तत्र ग्रामयेक: स्वग्रामाच्चिटिका आनयन् प्रतोलीद्वारे वर्त्तते, तं प्रति नागरिकः प्राह-यद्येताः सर्वा अपि तव चिर्भटिका भक्षयामि ततः किं मे प्रयच्छसीति ?, ग्रामेयकः प्राह-योऽनेन प्रतोलीद्वारेण मोदको न याति तं प्रयच्छामि, ततो बद्धं द्वाभ्यमपणि पणितं, कृताः साक्षिणो जनाः, ततो नागरिकेणं ताः सर्वा अपि चिर्भटिका मनाक् २ भक्षयित्वा मुक्ताः, उक्तं च ग्रामेयकं प्रति-भक्षिताः सर्वा अपि त्वदीयाश्चिर्भटिकाः, ततः प्रयच्छ मे यथाप्रतिज्ञातं मोदकमिति, ग्रामेयक आह-न मे चिर्भटिका भक्षिताः, ततः कथं ते प्रयच्छामि मोदकमिति ?, नागरिक: प्राह-भक्षिता मया सर्वा अपि तव चिर्भटिकाः, यदि न प्रत्येषि तर्हि प्रत्ययमुत्पादयामि ते, तेनोक्तम्,-उत्पादय प्रत्ययं, ततो द्वाभ्यामपि विपणिवीथ्यां विस्तारिता विक्रयाय चिर्भटिकाः, समागतो लोकः क्रयाय, ताश्च चिर्भटिका निरीक्ष्य लोको वक्ति-ननु भक्षितास्त्वदियाः सर्वा अपी चिटिकास्तकथं वयं गृह्णीमः ?, एवं च लोकेनोक्ते साक्षिणां ग्रामेयकस्य च प्रतीतिरुदपादि, क्षुभितो ग्रामेयक:-हा कथं न नाम मया तावत्प्रमाणो मोदको दातव्य ?, ततः स भयेन कम्पमनो विनयनम्रो रूपकमेकं प्रयच्छति, नागरिको नेच्छति, ततो द्वे रूपके दातुं प्रवृत्तः तथापि नेच्छति, एवं यावत् शतमपि रूपकाणां Jain Education International For Private & Personal Use Only For Pri www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy