________________
मूलं-९४ तस्तथाप्रवृत्ते, किन्तु यथाकथञ्चिद, अतस्ते अज्ञाने, तथा ज्ञानफलाभावात, ज्ञानतस्य हि फलं हेयस्य हानिः उपादेयस्य चोपादानं, न च संसारात्परं किञ्चिद्धयमस्ति न च मोक्षात्परं किञ्चिदुपादेयं, ततो भवमोक्षावेकान्तेन हेयोपादेयौ, भवमोक्षयोश्च हान्युपादाने सर्वसङ्गविरतेर्भवतः, ततः साऽवश्यं तत्त्ववेदिना कर्त्तव्या, सैव च परमार्थतो ज्ञानस्य फलं, तथा चाह भगवानुमास्वातिवाचक:-"ज्ञानस्य फलं विरति"रिति, सा च मिथ्यादृष्टर्न विद्यते इति ज्ञानफलाभावादज्ञाने मिथ्याष्टर्मतिश्रुते, तथा चामूनेवाज्ञानत्वे हेतून भाष्यकदपि पठति
"सयसयविसेसणाओ भवहेउजहिच्छिओवलंभाओ।
नाणफलाभावाओ मिच्छद्दिटिस्स अन्नाण।" इह मतिपूर्वं श्रुतमित्युक्तं, ततो मतिज्ञानमेवाधिकृत्य शिष्यः प्रश्नयति
मू. (९५)से किं तं आभिनिबोहिअनाणं?, आभिनिबोहियनाणं दुविहं पन्नत्तं, तंजहासुयनिस्सियं च अस्सुयनिस्सिअंच ॥ किं तं असुअनिस्सिअं?, असुअनिस्सिअं चउव्विहं पन्नत्तं, तंजहा
वृ. 'से किं त'मित्यादि, अथ किं तदाभिनिबोधिकज्ञानं?, सूरिराह-आभिनिबोधिकज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा-श्रुतनिश्रितं च अश्रुतनिश्रितं च, तत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते मतिज्ञानं तत् श्रुतनिश्रितम्-अवग्रहादि, यत्पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षायोपशमभावात एवमेव यथावस्थितवस्तुसंस्पशि मतिज्ञानमुपजायते तत् अश्रुतनिश्रितमौत्पत्तिक्यादि, तथा चाह भाष्यकृत
"पुव्वं सुअपरिकम्मियमइस्स जं संपयं सुयाईयं ।
तनिस्सियमियरं पुण अनिस्सियं मइचउक्कं तं ।।" आह-औत्पत्तिक्यादिकमप्यवग्रहादिरूपमेव तत्कोऽनयोविशेषः?, उच्यते, अवग्रहादिरूपमेव, परं शास्त्रानुसारमन्तरेणोत्पद्यते इति भेदोनोपन्यस्तं।। तत्राल्पतरवक्तव्यत्वात् प्रथममश्रुतनिश्रितमतिज्ञानप्रतिपादनायाह- ‘से किंत'मित्यादि, अथकिंतत् अश्रुतनिश्रितं?, सूरिराहअश्रुतनिश्रितं चतुर्विधं प्रज्ञप्तं, तद्यथा 'उप्पत्तिआ गाहा, मू.(१६) उप्पत्तिआ १ वेणइआ २ कम्मया ३ परिणामिआ४ ।
बुद्धी चउव्विहा वुत्ता, पंचमा नोवलब्भइ । वृ.(९६) उत्पत्तिरेव न शास्त्राभ्यासकर्मपरिशीलनादिकं प्रयोजनं-कारणं यस्याः सा औत्पत्तिकी, 'तदस्य प्रयोजन'मितीकन्, ननु सर्वस्या बुद्धेः कारणं क्षयोपशमः तत्कथमुच्यतेउत्पत्तिरेव प्रयोजनमम्या इति?, उच्यते, क्षयोपमशः सर्वबुद्धिसाधारणः, ततो नासौ भेदेन प्रतिपत्तिनिबन्धनं भवति, अथ च बुद्धन्तराभेदेन प्रतिपत्त्यर्थं व्यपदेशान्तरं कर्तुमारब्धं, तत्र व्यपदेशान्तरनीमित्तमत्र न किमपि विनयादिकं विद्यते, केवलमेवमेव तथोत्पत्तिरिति सैव साक्षानिर्द्विष्टा।
तथा विनयो-गुरुशुश्रूषा सप्रयोजनमस्या इति वैनयिकी। तथा अनाचार्यकं कर्म साचार्यकं शिल्पं, अथवा कादाचित्कं शिल्पं सर्वकालिकं कर्म, कर्मणो जाता कर्मजा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org