________________
मूलं - ९३
१३७
जन्तुः, तथाऽदर्शनात्, यच्च यदुत्कर्षापकर्षवशादुत्कर्षापकर्षभाक् तत्तस्य कारणं, यथा घटस्य मृत्पिण्डः, मत्युत्कर्षापकर्षवशाच्च श्रुतस्योत्कर्षापकर्षो, ततः कारणं मतिः श्रुतज्ञानास्य, तथा पाल्यते-अवस्थितिं प्राप्यते मत्या श्रुतं श्रुतस्य हि दलं मतिर्यथा घटस्य मृत्, तथाहिश्रुतेष्वपि बहुषु ग्रन्थेषु यद्विषयं स्मरणमीहापोहादि वा अधिकतरं प्रवर्त्तते स ग्रन्थः स्फुटतरः प्रतिभाति, न शेषाः, एतच्च प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धं, ततो यथोत्पन्नोऽपि घटो मृदभावे न भवति तथास्वभावायां च मृदि तिष्ठन्त्यामवतिष्ठते इति सा तस्य कारणम्, एवं श्रुतस्यापि मति : कारणं, ततो युक्तमुक्त मतिपूर्वं श्रुतमिति, मतिपूर्वकता च श्रुतस्योपयोगापेक्षया दृष्टव्या न तु लध्यपेक्षया, लब्धेः समकालतया भवनात्, एतच्च प्रागेवोक्तं, न मतिः श्रुतपूर्विका, तथानुभवाभावात्, ततो महान् मतिश्रुतयोर्भेदः ।
इतश्च भेदो भेदभेदात्, तथाहि चतुर्द्धा व्यञ्जनावग्रहः, षोढाऽर्थावग्रहः अवग्रहेहापायधारणाभेदादष्टाविंशतिविधमाभिनिबोधिकज्ञानम् अङ्गानङ्गप्रविष्टादिभेदभिन्नं च श्रुतज्ञानमिति । तथा इन्द्रियविभागतश्च भेदः, तत्प्रतिपादिका चेयं पूर्वान्तर्गता गाथा “सोइंदियओवलद्धी होइ सुयं सेसयं तु मइनाणं ।
मोत्तू दव्वसुयं अक्खरलंभो य सेसेसुं ॥"
अस्या व्याख्या -- श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपलब्धिर्भवति श्रुतं, 'सर्वं वाक्यं सावधारण-मिष्टितश्चावधारणविधिः ' तत एवमिहावधारणं द्रष्टव्यं श्रुतं श्रोत्रेन्द्रियेणोपलब्धिरेव, न तु श्रोत्रे - न्द्रियेणोपलब्धिः श्रुतमेव, कस्मादिति चेत्, उच्यते, इह श्रोत्रेन्द्रियोपलब्धिरपि या श्रुतग्रन्थानु - सारिणी सैव श्रुतमुच्यते, या पुनरवग्रहेहापायरूप सा मतिः, ततो यदि श्रोत्रेन्द्रियेणोपलब्धिः श्रुतमेवेत्युच्यते तर्हि मतेरपि श्रुतत्वमापद्यते तच्चायुक्तमतः श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमित्यव - धारणीयं, आह च भाष्यकृत्
"सोइंदियावलद्धी चेव सुयं न उतई सुयं चेव । सोइंदिआवलद्धीऽवि काइ जम्हा मईनाणं ।। "
तथा 'सेयं तु मइनाणमिति' शेषं यत् चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तत् मतिज्ञानं भवतीति सम्बध्यते, तुशब्दोऽनुक्तसमुच्चयार्थः, तत आस्तां शेषं विज्ञानं श्रोत्रेन्द्रियेणोपलब्धिरपि काचिदवग्रहेहापायरूपा मतिज्ञानमिति समुच्चिनोति, उक्तं च
"तु समुच्चयवयणाओ काई सोइंदिओवलद्धीऽवि ।
मइ एवं सइ सोउग्गहादयो होंति मइभेया ।। "
तदेवं सर्वस्याः शेषेन्द्रियोपलब्धेरुत्सर्गेण मतिज्ञानत्वे प्राप्ते सत्यपवादमाह--'मोत्तूणं दव्वसुर्य' मुक्त्वा द्रव्यश्रुतं किमुक्तं भवति - मुक्त्वा पुस्तकपत्रकादिन्यस्ताक्षररूपद्रव्यश्रुतविषयां शब्दार्थ पर्यालोचनात्मिकां शेषेन्द्रियोपलब्धि, तस्याः श्रुतज्ञानरूपत्वात्, यच्च द्रव्यश्रुतव्यतिरेकेणान्योऽपि शेषेन्द्रियेष्वक्षरलाभः - शब्दार्थपर्यालोचनात्मकः सोऽपि श्रुतं, न तु केवलोऽक्षरलाभः केवलो ह्यक्षरलाभो मतावपीहादिरूपायां भवति, न च सा श्रुतज्ञानं, अत्राहननु यदि शेषेन्द्रियेष्वक्षरलाभः श्रुतं तर्हि यदधावरणमुक्तं - श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमिति तद्विघटते, शेषेन्द्रियोपलब्धेरपि सम्प्रति श्रुतत्वेन प्रतिपन्नत्वात्, नैष दोष:, यतः शेषेन्द्रियाक्षर
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International