________________
१३५
मूलं-९१ शक्यत्वात्, आयुषस्तु परिमितत्वात्, किन्तु?-कतिपयानेव, अनन्तभागमात्रान्, आह च
"पन्नवणिज्जा भावा अनंतभागो तु अनभिलप्पाणं।
पनवणिज्जाणं पुण अनंतभागो सुयनिबद्धो॥" - तत्र केवलज्ञानोपलब्धार्थभिधायक: शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, तस्य भाषापर्याप्त्यदिनामकर्मोदयनिबन्धनत्वात्, श्रुतस्य च क्षायोपशमिकत्वात्, स च वाग्योगो भवति श्रुतं 'शेषम्' अप्रधानं द्रव्यश्रुतमित्यर्थः, श्रोतृणां भाव श्रुतकारणतया द्रव्यश्रुतं व्यवहियते इति भावः, अन्ये त्वेवं पठन्ति-"वइजोग सुयं हवइतेसिं" तस्यायमर्शःतेषां-श्रोतृणां भाव श्रुतकारणत्वात् स वाग्गोगः श्रुतं भवति, श्रुतमिति व्यवहियते इत्यर्थः ।
म.(९२) से तं केवलनाणं, से तं पच्चक्खनाणं॥
वृ. 'सेत्त'मित्यादि निगमनं, तदेतत्केवलज्ञानं, तदेतत्प्रत्यकक्षं । एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्य स्वरूपमनवच्छन्नाह शिष्यः
मू. (९३ )से किं तं परुक्खनाणं ?, परुक्खनाणं दुविहं पन्नत्त, तंजहा-आभिनिबोहिअनाणपरोक्ख च सुअनाणपरोक्ख च, जत्थ आभिनिबोहियनाणं तत्थ सुयनाणं, जत्थ सुअनाणं तत्थाभिनिबोहियनाणं, दोऽवि एयाइं अन्नमन्त्रमनुगयाई, तहवि पुण इत्थ आयरिआ नाण्णत्तं पन्नवयंति-अभिनिबुज्झइत्ति आभिनिबोहिअनाणं सुणेइत्ति सुअं, मइपुव्वंजेण सुअंन मइसुअपुविआ।
वृ. 'से किं तमि'त्यादि, अथ किं तत्परोक्षं ?, सूरिराह-परोक्षं द्विविधं प्रज्ञप्तं, तद्यथाआभिनिबोधिकज्ञानपरोक्षं च श्रुतज्ञानपरोक्षं च, चशब्दौ स्वगतानेकभेदसूचको परस्परसहभावसूचकौ च, परस्परभावमेवानयोर्दर्शयति-'जत्थे' त्यादि, 'यत्र' पुरुषे आभिनिबोधिकं ज्ञानं तत्रैव श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानं तत्रैवाभिनिबोधिकज्ञान।। ___ आह-यत्राभिनिबोधिकज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्राभिनिबोधिकज्ञानमिति गम्यत एव ततः किमनेनोक्तेनेति?, उच्यते, नियमतो न गम्यते, ततो नियमावधारणार्थमेतदुच्यते इत्यदोषः, नियमावधारणमेव स्पष्टयति-द्वे अप्येते-आभिनिबोधिक श्रुते अन्योऽन्यानुगतेपरस्परप्रतिबद्धे, स्यादेतद्-अनयोर्येदि परस्परमनुगमस्तर्हि अभेद एव प्राप्नोति कथं भेदेन व्यवहारः?, तत आह-'तहऽवी'त्यादि, 'तथापि' परस्परमनुगमेऽपि पुनरत्र-आभिनिबोधिकश्रुतयोराचार्याः-पूर्वसूरयो नानात्वं भेदं प्ररूपयन्ति, कथमिति चेदुच्यते-लक्षणभेदात्, दृष्टश्च परस्परमनुगतयोरपिलक्षणभेदाभेदो, यथैकाकाशस्थयोधर्मास्तिकायाधर्मास्तिकाययोः, तथाहि__धर्माधर्मास्तिकायौ परस्परं लोलीभावेनैकस्मिन्नांकाशदेशे व्यवस्थितौ, तथापि यो गतिपरिणामपरिणतयोर्जीवपुद्गयोर्गत्युपष्टम्भहेतुर्जलमिव मत्स्यस्य स खलु धर्मास्तिकायो यः पुनः स्थितिपरिणामपरिणतयोर्जीवपुद्गलयोरेव स्थित्युपष्टम्भहेतुः क्षितिरिव झषस्य स खलु अधर्मास्तिकाय इति लक्षणभेदाभेदो भवति, एवमाभिनिबोधिकश्रुतयोरपिलक्षणभेदाभेदो वेदितव्यः, लक्षणभेदमेवदर्शयति___ 'अभिनिबुज्झई'त्यादि, अभिमुखं-योग्यदेशे व्यवस्थितं नियतमर्थमिन्द्रियमनोद्वारेण बुध्यतेपरिच्छिनत्ति आत्मा येन परिणामविशेषण स परिणामविशेषो ज्ञानापरपर्याय आभिनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org