________________
मूलं-८१
१०१ कल्पपादसम्पाद्योपभोगसम्पदः प्रकृत्यैव शुभचेतसो विनीताः प्रतनुक्रोधमानमायालोभाः सन्तोषिणो निरौत्सुक्या: कामचारिणोऽनुलोमवायुवेगाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादिक ममत्वकारिणि ममत्वाभिनिवेशरहिताः सर्वथापगतवैरानुबन्धाः परस्परप्रेष्यादिभावविनिर्मुक्ता अत एवाहमिन्द्रा हस्त्यश्वकरभगोमहिष्यादीनां सद्भावेऽपि तत्परिभोगपरांमखाः पादविहारचारिणो रोगवेदनादिवकिला वर्तन्ते चतुर्थाहारमेते गृह्णन्ति चतुःषष्टिश्च पृष्ठकरण्ड-कास्तेषां, षण्मासावशेषायुषश्चामी स्त्रीपुरुषयुगलं प्रसुवते एकोनाशीतदिनानि च तत् परिपाल-यन्ति स्तोकस्नेहकषायतया च ते मृत्वा देवलोकमुपसर्पन्ति, उक्तं च -
"अंतरदीवेसु नरा धनुसयअट्ठसिया सयामुइया। पालंति मिहुणधम्मं पल्लस्स असंखभागाउ। चउसट्ठी पिट्ठिकरंडयाण मणुआण तेसिमाहारो।
भत्तस्स चउत्थस्स य अनुसीति दिनानि पालणया।" इत्यादि, तिर्यञ्चोऽपि च तत्र व्याघ्रसिंहसर्पादयो रौद्रभावरहिततया न परस्परं हिंस्यहिंसकभावे वर्त्तन्ते, तत एव तेऽपि देवलोकगामिनो भवन्ति, तेषु च द्वीपेषु शाल्यादीनि धान्यानि विस्त्रसात एव समुत्पद्यन्ते परं न ते मनुष्यादीनां परिभोगाय जायन्ते, तेषु च द्वीपेषु दंशमशकयुकामत्कुणादयः शरीरोपद्रवकारिणोऽनिष्टसूचकाश्च चन्द्रसूर्योपरागादयो न भवन्ति, भूमिरपि तत्र रेणुपङ्ककण्टकादिरहिता सकलदोषपरित्यक्ता सर्वत्र समतला रमणीया च वर्तत इति।
तथा 'संखेज्जवासाउय'त्ति सङ्ख्येयवर्षायुषः पूर्वकोटयदिजीविनः असङ्ख्येयवर्षायुषःपल्योपमादिजीविनः, तथा 'पज्जत्तग'त्ति पर्याप्तिः-आहारादिपुद्गलग्रहणपरिणामनहेतुरात्मनः शक्तिविशेषः, स च पुद्गलोपचयात्, किमुक्तं भवति ?-उत्पत्तिदेशमागतेन येन गृहीता आहारदिपुद्गलास्तेषां तथा अन्येषां च प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतः तद्रूपतया जातानामुपष्टम्भेन यः शक्तिविशेषो जीवस्याहारादिपुद्गलानां खलरसादिरूपतया परिणमनहेतुर्यर्थोदरान्तर्गतानां पुद्गलविशेषाणामवष्टम्भेनाहारपुदगलखलरसरूपतयापादनहेतुः शक्तिविशेषः सा पर्याप्तिः, सा च षोढा, तद्यथा___ आहारपर्याप्तिः शरीरपर्याप्तिः इन्द्रियपर्याप्तिः प्राणापानपर्याप्तिः भाषापर्याप्ति: मनःपर्याप्तिश्चेति, तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः ?, यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः २, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः ३, यया पुनरुच्छ्वासप्रयोग्यवर्गणादलिंकमादायोच्छासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा उच्छ्वासपर्याप्तिः ४, यया तु भाषाप्रयोग्यवर्गणादलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्ति: ५, यया पुनर्गनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मन:पर्याप्तिः ६,
एताश्च यथाक्रममेकेन्द्रियाणां संज्ञिवर्जानां द्वीन्द्रिवादीनां संज्ञिनां च चतुःपञ्चष्ट्सङ्ख्या भवन्ति, उत्पत्तिप्रथमसमय एव चैता यथायथं सर्वा अपि युगपन्निष्पादयितुमारभ्यन्ते क्रमेण च निष्ठामुपयान्ति, तद्यथा-प्रथममाहारपर्याप्तिः ततः शरीरपर्याप्तिः तत इन्द्रियपर्याप्तिरित्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org