SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ मूलं-८१ मिच्छादिट्ठी अन्नाणी सव्वाहिं पज्जत्तीहिं अपज्जत्तगा अंतमुहुत्ताउया चेव कालं करेंति" । तथा गर्भे व्युत्क्रान्ति:-उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, अथवा गर्भाद् व्युत्क्रान्तिःव्यत्क्रमणं निष्क्रमणं येपां ते गर्भव्यत्क्रान्तिकाः, उभयत्रापि गर्भजा इत्यर्थः, भगवानाह-नो सम्मच्छिममनुष्याणामुत्पद्यते, तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात्, किन्तु गर्भव्यत्क्रान्तिकमनुष्याणां, एवं सर्वेपामपि प्रश्ननिर्वचनसूत्राणां भावार्थो भावनीयः, नवरं कृषिवाणिज्यतप:संयमानुष्ठानादिकर्मप्रधाना भर्मयः कर्मभूमयो- भरतपञ्चकैरवतपञ्चकमहाविदेहपञ्चकलक्षणा: पञ्चदश तासु जाता: कर्मभूमिजाः, कृष्यादिकमरहिताः कल्पपादफलोपभोगप्रधाना भूमयो हैमत्तपञ्चकहरिवर्पपञ्चकदेवकुरुपञ्चकोत्तरकुरुपञ्चकरम्यक-- पञ्चकरण्यवतपञ्चकरूपास्त्रिंशदकर्मभूमयः तासु जाता अकर्मभूमिजाः, तथा अन्तरे-लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपा:-एकोरुकादयः षट्पञ्चाशत् तेषु जाताः अन्तरद्वीपजाः। अथ लवणसमुद्रस्य मध्ये षट्पञ्चाशदन्तरद्वीपा वर्तन्ते किंप्रमाणा वा ते किंस्वरूपा वा तत्र मनुष्या इति?, उच्यते, इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिमग्नपञ्चविंशतियोजनो योजनशतोच्छ्रायप्रमाणो भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्चीनपट्टवों नानावर्णाविशिष्टद्युतिमणिनिकरपरिमण्डितपार्श्वः सर्वत्र तुल्यविस्तरो गगनमण्डलोल्लिखितरत्नमयैकादशकूटोपशोभितः तपनीयमयतलविविधमणिकनकमण्डिततटदशयोजनावगाढपूर्वपश्चिमयोजनसहस्रायामदक्षिणोत्तरयोजनापञ्चशतविस्तृतपद्महूदोपशोभितशिरोमध्यभागः कल्पपादपश्रेणिरमणीयः पूर्वापरपर्यन्ताभ्यां लवणार्णवजलसंस्पर्शी हिमवन्नामा पर्वतः तस्य लवणार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चिमायां च दिशि प्रत्येकं द्वे द्वे गजदन्ताकारे दंष्ट्र विनिर्गते, तत्र ऐशान्यां दिशि या विनिर्गता दंष्ट्रा तस्यां हिमवतः पर्यन्तादारभ्य त्रीणि योजनशतानि लवलसमुद्रवगाह्य अत्रान्तरे योजनशतत्रयायामविष्कम्भः किञ्चिन्यूनैकोनपञ्चाशदधिकनवयोजनशतपरिरय एकोरुकनामा द्वीपो वर्त्तते, अयं च पञ्चधनुःशतप्रमाणविष्कम्भया गव्यूतद्वयोच्छ्रितया पद्मवरवेदिकवा वनखण्डेन च सर्वतः परिमण्डितः, एवं तस्यैव हिमवतः पर्वतस्य पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लवणसमुद्रमवगाह्यं द्वितीयदंष्ट्रायामुपरि एकोरुकद्वीपप्रमाण आभासिकनामा द्वीपो वर्त्तते, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणपश्चिमायां, नैर्ऋतकोणानुसारेण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रे दंष्ट्रामतिक्रमयात्रान्तरे यथोक्त प्रमाणो वैषाणिकनामा द्वीपो वर्त्तते, तथा तस्यैव हिमवतः पश्चिमायामेव दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि, वायव्यकोणानुसारेण इत्यर्थः, त्रीणि शतानि योजनानां लवणसमुद्रमध्ये चतुर्थीदंष्ट्रामतिक्रम्यात्रान्तरे पूर्वोक्तप्रमाणो नङ्गोलिकनामा द्वीपो वर्त्तते, एवमेते चत्वारो द्वीपा हिमवतः चतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते, उक्तं च "चुल्लहिमवंतपुवावरेण विदिसासु सागरं तिसए। गंतूनंतरदीवा तिनि सए होंति विच्छिन्ना ।। अउणापन्ननवसए किंचूने परिहि एसिमे नामा। एगोरुअ आभासिय वेसाणी चेव नंगृली ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy