________________
उत्तराध्ययन- मूलसूत्रम् - २-२४ / ९४७ धूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् विसोधयतेत् उभयत्र शोधनमपनयनं, 'जयं' ति यतमानः ‘यतिः' तपस्वी, व्याख्याद्वयेऽपि च पुनस्तस्या एव क्रियाया अभिधानमतिशयख्यापनार्थमिति सूत्रद्वयार्थः । इदानीमादाननिक्षेपणसमितिमाहओहोवहोवग्गहियं, भंडयं दुविहं मुनी । गिण्हंतो निक्खिवंतो य, पउंजिज्ज इमं विहिं ॥
मू. (९४८ )
मू. (९४९)
चक्खुसा पडिलेहित्ता, पमज्जिज्ज जयं जई । आदिए निक्खिविज्जा वा, दुहओऽवि समिए सया ।।
वृ. 'ओहोवहोवग्गहियं 'ति उपधिशब्दो मध्यनिर्दिष्टत्वात् डमरुकगुणग्रन्थिवदुभयत्र सम्बध्यते, तत ओघोपधिमौपग्रहिकोपधिं च ' भाण्डकम् ' उपकरणं रजोहरणदण्डकादि 'द्विविधम्' उक्तभेदतो द्विभेदं मुनिः 'गृह्णन्' आददानः 'निक्षिपंश्च' क्वचित्स्थापयन् 'प्रयुञ्जीत' व्यापारयेत् ‘इमं’ वक्ष्यमाणं 'विधि' न्यायं ।
९४
तमेवाह- 'चक्षुषा' दृष्ट्या 'पडिलेहित्त'त्ति 'प्रत्युपेक्ष्य' अवलोक्य 'प्रमार्जयेत्' रजोहरणादिना विशोधयेत् यतमानो यतिस्तत: 'आदिए'त्ति 'आददीत' गृह्णीयात् 'निक्षिपेद्वा' स्थापयेत् 'दुहतोऽवि 'त्ति द्वावपि प्रक्रमादौधिकोपग्राहिकोपधी, यदिवा 'द्विधाऽपि' द्रव्यतो भावतश्च 'समित: ' प्रक्रमादादाननिक्षेपणासमितिमान् सन् 'सदा' सर्वकालमिति सूत्रद्वयार्थः ॥ सम्प्रति परिष्ठापनासमितिमाहमू. (९५० )
मू. (१५१)
मू. (९५२)
मू. (९५३)
वृ. 'उच्चारं' पुरीषं 'प्रश्रवणं' मूत्रं 'खेलं' मुखविनिर्गतं श्लेष्माणं 'सिंघाणं' ति नासिकानिष्क्रान्तं तमेव 'दल्लियं 'ति आर्षत्वात् जल्लो-मलस्तम् 'आहारम्' अशनादिकम् 'उपधि' वर्षाकल्पादि 'देहं' शरीरम् 'अन्यद्वा' कारणतो गृहीतं गोमयादि 'अपि : ' पूरणे तथाविधं परिष्ठापनार्हं प्रक्रमात्स्थण्डिले व्युत्सृजेदित्युत्तरेण सम्बन्धः ।
स्थण्डिलं च दशविशेषणपदविशिष्टमिति मनस्याधाय तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणषदयोर्भङ्गरचनामाह-अविद्यमान आपातः - स्वपरोभयपक्षसमीपागमनरूपोऽस्मिन्नित्यनापातं स्थण्डिलमिति गम्यते, 'असंलोए' त्ति सूत्रत्वादिहोत्तरत्र च लिङ्गव्यत्यये न विद्यते संलोको - दूरस्थितस्यापि स्वपक्षादेरालोको यस्मिंस्तत्तथेति प्रथमो भङ्ग १, 'अनापातं चैव भवति संलोकं ' यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः २, 'आपातमसंलोक 'मिति यत्रापातोऽस्ति न च संलोक इति तृतीयो भङ्गः ३, 'आपातं चैव संलोकं' यत्रोभयमपि संभवतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
उच्चारं पासवणं, खेलं सिंघाण जल्लियं । आहारं उवहिं देह, अन्नं वावि तहाविहं ॥ अनावायमसंलोए अनवाए चेव होइ संलोए । आवायमसंलोए आवाए चेव संलोए ॥ अनवायमसंलो, परस्सऽनुवघाइए। समे अज्झसिरे वावि, अचिरकालकयमिय ॥ विच्छिन्ने दूरमोगाढे, नासन्ने बिलवज्जिए । तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥