________________
अध्ययनं-२३,[नि.४५८] तेषामिति भावः । इत्थं केशिनोक्ते गौतम आह-'एकस्मिन्' सकलभावशत्रुप्रधाने आत्मनि 'जिते' अभिभूते जिताः पञ्च, कथम् ? एक: स एवान्ये च चत्वारः कषायाः, तथा 'पंच जिए'त्ति सूत्रत्वात्पञ्चसु जितेषु जिता दश, अत्रापि पञ्चोक्ता एवापराणि च पञ्चेन्द्रियाणि, ततः 'दशधा' दशप्रकारानुक्तरूपान् 'तुः पुनरर्थे शत्रून् जित्वा ‘णं'ति प्राग्वत् 'सर्वशत्रन' नोकपायादींस्तदुत्तरोत्तरभेदांश्चानेकसहस्रसङ्ख्यान् ‘जयामि' अभिभवाभ्यहं, तदनने प्रथमतः प्रधानजयो-जयनप्रकार उक्तः, ततश्च सत्तू य इइ'त्ति 'च:' पूरणे इति भिन्नक्रमो जातौ चैकवचनं, ततः शत्रुः क उक्त इति केशिौतममब्रवीत्, ननु यद्यसौ शत्रूनपि न वेत्ति कथं तन्मध्यगतस्त्वं तिष्ठसीत्यादिकमनेन प्रागुक्तम् ?, उच्यते, अज्ञजनप्रतिबोधार्थं सर्वा अपि ज्ञपृच्छा एवैताः, उक्तं हि प्राग् 'ज्ञानत्रयान्वितोऽसाविति कथमस्यैवंविधवस्त्वपरिज्ञानसम्भव' इति, उत्तरार्धं प्राग्वत्।
एक आत्मेति-जीवश्चित्तं वाऽतति-गच्छति तांस्तान् भावान् अर्थान्वेति व्युत्पत्तेः 'अजितः' अवशीकृतः अनेकानर्थावाप्तिहेतुत्वाच्छत्रुरिव शत्रुस्तथोक्तहेतोरेव 'कषायाः' क्रोधादयः 'इन्द्रियाणि' स्पर्शनादीनि, चशब्दान्नोकषायादयः कषायाधुत्तरोत्तरभेदाश्च, अजिताः शत्रव इति वचनविपरिणामेन योज्यते । इह च कषायाणां प्रथमत उपादानमिन्द्रियाणामपि कषायावशत एवानर्थहेतुत्वख्यापनार्थं, सम्प्रत्युपसंहरव्याजेन तज्जये फलमाह-'तान्' उक्तरूपान् शत्रून् 'जित्वा' अभिभूय यथान्यायं यथोक्तनीत्यनतिक्रमेण ततो विहरामि-तन्मध्येऽपि तिष्ठन्नप्रतिबद्धविहारितयेति गम्यते, तेषामेव प्रतिबन्धहेतुत्वेन तद्विबन्धकाभावादिति भावः, 'अह' मित्यात्मनिर्देशः 'मुने' इति केश्यामन्त्रणमिति सूत्रचतुष्टयार्थः ।। एवं गौतमेनाभिहितेमू. (८८५) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो।
___ अन्नोऽवि संसओ मझं, तं मे कहसु गोयमा!॥ वृ. प्राग्वत् ।। सम्प्रति 'पासावगत्तणं'ति चतुर्थद्वारमधिकृत्याहमू.(८८६) दीसंति बहवे लोए, पासंबद्धा सरीरिणो ।
मुक्कपासो लहुन्भूओ, कहं तं विहरसी मुनी!? ॥ मू.(८८७) ते पासे सव्वसो छित्ता, निहतूण उवायओ।
मुक्कपासो लहुब्भूओ, विहरामि अहं मुनी?॥ मू.(८८८) पासा अइह के वुत्ता?, केसी गोयममब्बवी।
केसिं एवं बुवंतं तु, गोयमो इणमब्बवी॥ मू. (८८९) रागद्दोसादओ तिव्वा, नेहपासा भयंकरा।
ते छिंदित्तु जहानायं, विहरामि जहक्कम॥ वृ. सूत्रचतुष्टयं स्पष्टमेव नवरं पाशैर्बद्धा-नियन्त्रिताः पाशबद्धाः 'शरीरिणः' प्राणिनः, 'मुक्तपाशः' त्यक्तपाशोऽत एव लघुभूतो-वायुः, ततो लघुभूत इव लघुभूतः सर्वत्राप्रतिबद्धत्वात्। गौतम आह-'ते' इति तान्-लोकबन्धकान पाशान् 'सद्दशो'त्ति सूत्रत्वात्सर्वान् ‘छित्त्वा' त्रोटयित्वा 'निहत्थ' पुनर्बन्धाभावलक्षणेनातिशयेन विनाश्य, कथम् – 'उपायतः' सद्भूत29/6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org