________________
अध्ययनं-१७,[नि. ३९१] सीयालत्ताए विहरति"त्ति, स च गुरुणाऽन्येन वा हितैषिणाऽध्ययनं प्रति प्रेरितो यद्वक्ति तदाहम. ( ५४०) सिज्जा दढा पाउरणं मि अत्थि, उप्पज्जई भुत्तु तहेव पाउं।
जाणामि जं वट्टइ आउसुत्ति!, किं नाम काहामि? सुएण भंते ! ॥ वृ.'शय्या' वसति: 'दृढा' वातातपजलाधुपद्रवैरनभिभाव्या, तथा 'प्रावरणं' वर्षाकल्पादि 'मे' ममास्ति, किञ्च-'उत्पद्यते' जायते 'भोक्तुं' भोजनाय तथैव पातुं' पानाय यथाक्रममशनं पानं चेति शेषः तथा 'जानामि' अवगच्छामि 'यद्वर्त्तते' यदिदानीमस्ति 'आयुष्मन्नि'ति प्रेरयितुरामन्त्रणमिति, एतस्माद्धेतोः किं नाम?, न किञ्चिदित्यर्थः 'काहामि'त्ति करिष्यामि श्रुतेन' आगमेनाधीतेनेत्यध्याहारः, 'भंते'त्ति पूज्यामन्त्रणम्, इह च प्रक्रमात्क्षेपे, अयं हि किलास्याशयो यथा ये भवन्तो भदन्ता अधीयन्ते तेऽपि नातीन्द्रियं वस्त किञ्चामवबुध्यन्ते, किन्तु?, साम्प्रतमावेक्षिण एव, तच्चैतावदस्मास्वेवमप्यस्ति, तत्कि हृदयगलतालुशोषविधायिनाऽधीतेनेति?, एवमध्यवसितो यः स पापश्रमण इत्युच्यत इतीहापि सिंहावलोकितन्यायेन संबध्यत इति सूत्रद्वयार्थः । किंचमू. (५४१) जे केइ उ पव्वईए, निबासीले पगामसो।
भुच्चा पिच्चा सुहं सुअई, पावसमणित्ति वुच्चई। वृ. यः कश्चित्प्रव्रजितः 'निद्राशीलः' निद्रालुः प्रकामशः' बहुशो 'भुक्त्वा' दध्योदनादि 'पीत्वा' तक्रादि 'सुखं' यथा भवत्येय सकलक्रियानुष्ठाननिरपेक्ष एव 'स्वपिति' शेते, पठ्यते च-'वसइ'त्ति वसति' आस्ते ग्रामादिषु, स इत्थम्भूतः किमित्याह-पापश्रमण इति 'उच्यते' प्रतिपाद्यत इति सूत्रार्थः । इत्थं न केवलमनधीयान एव पापश्रमण उच्यते, किन्तुमू.(५४२) आयरियउवज्झाएहि, सुअंविनयं च गाहिए।
ते चेव खिसई बाले, पावसमणित्ति Qच्चई। वृ. आचार्योपाध्यायैः 'श्रुतम्' आगममर्थतः शब्दतश्च ‘विनयं च' उक्तरूपं 'ग्राहितः' शिक्षितो यैरिति गम्यते 'तानेव' आचार्यादीन् 'खिसति' निन्दति 'बालः' विवेकविकलो गम्यमानत्वाद्यः स पापश्रमण इत्युच्यत इति सूत्रार्थः ॥ इत्थं ज्ञानाचारनिरपेक्षं पापश्रमणमभिधाय दर्शनाचारनिरपेक्षं तमेवाहमू. (५४३) आयरियउवज्झायाणं, सम्मं नो पडितप्पई।
अप्पडिपूअए थद्धे, पावसमणित्ति वुच्चई। वृ.आचार्योपाध्यायानां सम्यग्' अवैपरीत्येन 'न परितप्यते' नतत्तप्ति विधत्ते, दर्शनाचारान्तर्गतवात्सल्यविरहितो न तत्कार्येष्वभियोगं विधत्त इति भावः, अप्रतिपूजकः' प्रस्तावादर्हदादिषु यथोचितप्रतिपत्तिपरांमुखः 'स्तब्धः' गर्वाध्मातः केनचित्प्रेर्यमानोऽपि न तद्वचनतः प्रवर्त्तते यः स पापश्रमण इत्युच्यत इति सूत्रार्थः ॥ सम्प्रति चारित्राचारविकलं तमेवाहमू.(५४४) संमद्दमाणे पाणाणि, बीयाणि हरियाणि य।
असंजए संजय मन्त्रमाणे, पावसमणित्ति वुच्चई। वृ. संमर्दन्' हिंसन् 'प्राणानि ति प्राणयोगात् प्राणिनः-द्वीन्द्रियादीन् 'बीजानि' शाल्यादीनि 'हरितानि च' दूर्वाऽकुरादीनि, सकलैकेन्द्रियोपलक्षणमेतत्, स्पष्टरचैतन्यलिङ्गत्वाचैत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org