________________
७२
उत्तराध्ययन-मूलसूत्रम्-२-२२/८४४ आकर्ण्य 'संयतायाः' प्रव्रजितायाः सुष्ठु-संवेगजनकत्वेन भाषितम्-उक्तं सुभाषितम् 'अंकुशेन' प्रतीतेन यथा 'नागः' हस्ती पथीति शेषः, एवं 'धर्मे' चारित्रधर्मे संपडिवाइओ'त्ति संप्रतियातितः'संस्थितः, तद्वचसैवेति गम्यते। अत्र च वृद्धसंप्रदाय:-"नेउरपंडियाक्खानययं भणिऊण जाव ततो रुद्वेण राइणा देवी मेंठो हत्थी य तन्निविछिन्ाकडगे चडावियाणि, भणिओ य मेंठो-एत्थं वाहेही हत्थि वाहेहि हत्थि, दोहि य पासेहिं वेणुग्गहा ठविया, जाव एगो पाओ आगासे ठविओ, जणो भणइ-किं एस तिरियो जाणइ ?, एयाणि मारेयव्वाणि, तहावि राया रोसं न मुञ्चति, ततो अतिन्नि पाया आयासे कया, एगेन ठितो, लोगेन अक्कंदो कतो-किमेयं हत्थिरयणं वावाइज्जति?, रन्ना मिठो भणिओ-तरसि नियत्तेउं ?, भणइ-जइ दुयग्गाणवि अभयं देसि, दिन्न, ततो अंकुसेण नियत्तिओ हस्थित्ति।"
इह चायमभिप्राय:-यथाऽयमीगवस्थो द्विषोऽकुशवशतः पथि संस्थित एवमयमप्युत्पन्नविश्रोतसिकस्तद्वचेनन अहितप्रवृत्तिनिर्वत्तकतयाउंकुशप्रायेण धर्म इति, ततश्च श्रामण्यं 'निश्चलं' स्थिरं 'फासे'त्ति अस्माक्षीद्-आसेवितवान्, शेषं स्पष्टमिति सूत्रद्वयार्थः ।।
उभयोरप्युत्तरवक्तव्यतामाहमू.( ८४५) उग्गं तवं चरित्ता णं, जाया दुनिवि केवली।
सव्वं कम्मं खवित्ता णं, सिद्धिं पत्ता अनुत्तरं। वृ.उग्रं कर्मरिपुदारणतया तपः' अनशनादि चरित्ता णं'ति चरित्वा 'जातौ' भूतौ 'द्वावपी'त्ति रथनेमिराजीमत्यौ 'केवली'ति केवलिनौ 'सर्व' निरवशेष 'कर्म' भवोपग्राहि 'खवित्ता णं'त्ति क्षपयित्वा सिद्धि प्राप्तावनुत्तरामिति सूत्रार्थः ।। सम्प्रति नियुक्तिरनुश्रियतेनि.[४४७] सोरियपुरंमि नयरे आसी राया समुद्दविजओत्ति।
तस्सासि अग्गमहिसी सिवत्ति देवी अनुज्जंगी।। नि.[ ४४८] तेसिं पुत्ता चउरो अरिठ्ठनेमि तहेव रहनेमी।
तइओ असच्चनेमी चउत्थओ होइ दढनेमी॥ नि.[ ४४९] जो सो अरिटुनेमी बावीसइमो अहेसि सो अरिहा।
रहनेमि सच्चनेमी एए पत्तेयबुद्धा उ।। नि.[ ४५०] रहनेमिस्स भगवओ गिहत्थए चउर हुंति वाससया।
संवच्छर छउमत्थो पंचसए केवली हुंति ।। नि.[ ४५१] नववाससए वासाहिए उ सव्वाउगस्स नायव्वं ।
एसो उचेव कालो रायमईए उ नायव्वो। वृ.अत्र च प्रथमगाथया रथनेमेरन्वय उक्तः । तेसिं'ति तयोः' समुद्रविजयशिवादेव्योः, 'प्रसङ्गतश्चेह शेषपुत्राभिधानम्, 'अहेसि'त्ति अभूत्, ह च यदरिष्टनेमेरहत्त्वं रथनेमेश्च प्रत्येकबुद्धत्वमुक्तं तदर्हद्भ्रातृत्वेन स्वगुणप्रकर्षेण च रथनेमेर्माहात्म्यख्यापनार्थम् । चतुर्थगाथया पर्यायपरिमाणाभिधानं, तत्र चत्वारि वर्षशतानि गृहस्थपर्यायः वर्ष छद्मस्थपर्याय: वर्षशतकपञ्चकं केवलिपर्याय इति मिलितानि नव वर्षशतानि वर्षाधिकानि सर्वायुरभिहितम्, एष 'चैवत्वि'ति चतुशब्दौ पूरणे, तत एष् एव च वर्षाधिकवर्षशतनवकलक्षणः, शेषं स्पष्टमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org