________________
अध्ययनं-२१,[नि. ४४२]
६३ येनासौ छिन्नश्रोता: अत एवाममोऽकिञ्चनः, इह च संयमविशेषणामानन्त्यात्तदभिधायिपदानां पुनः पुनर्वचनेऽपि न पौनरुक्तयं, तथा 'विवक्तलयनानि' स्त्र्यादिविरहितोपाश्रयरूपाणि विविक्तत्वादेव च 'निरोवलेवाई'ति निरुपलेपानि-अभिष्वङ्गरूपोलेपवजितानि भावतो द्रव्यतस्तु तदर्थं नोपलिप्तानि 'असंसृतानि' बीजादिभिरव्याप्तानि, अत एव च निर्दोषतया 'ऋषिभिः' मुनिभिः 'चीर्णानि' आसेवितानि, चीर्णशब्दस्य तु 'सुचीर्णं प्रोषितव्रत' मितिवत्साधुता, 'फासेज्ज'त्ति अस्पृशत्, सोढवानित्यर्थः, पुनः पुनः परीषहस्पर्शनाभिधानमतिशयख्यापनार्थं, ततः स कीदृगभूदित्याह
'सः' इति समुद्रपालनामा मुनिनिमिह श्रुतज्ञानं तेन ज्ञानम् -अवगमः प्रक्रमाद् यथावक्रियाकलापस् तेनोपगतो-युक्तो ज्ञानज्ञानोपगतः, पाठान्तरतः-सन्ति-शोभनानि 'नाणे' त्यनेकरूपाणि ज्ञानानि-सङ्गत्यागपर्यायधर्माभिरुचितत्त्वाद्यवबोधात्मकानि तैरुपगतः सन्नानाज्ञानोपगतः 'धर्मसञ्चयं क्षात्यादियतिधर्मसमुदयम् 'अनुत्तरेनानधरे'त्ति एकारस्यालाक्षणिकत्वादनुत्तरज्ञानं-केवलाख्यं तद्धारयत्यनुत्तरज्ञानधरः, पठ्यतेच-'गुणोत्तरं नानधरे'त्ति, च गुणोत्तरो-गुणप्रधानो, ज्ञानं प्रस्तावात्केवलज्ञानं तद्धरः, एकारस्यालाक्षणिकत्वाद् गुणोत्तरं यद् ज्ञानं तद्धरो वाऽत एव यशस्वी 'ओभासइ यत्ति अवभासते प्रकाशते सूर्यवदन्तरिक्षे, यथा नभसि सूर्योऽवभासते तथाऽसावप्युत्पन्नकेवलज्ञान इति त्रयोदशसूत्रार्थः॥
सम्प्रत्यध्ययनार्थमुपसंहरंस्तस्यैव फलमाहमू. (७९६) दुविहं खवेऊण य पुत्रपावं, निरंजने सव्वओ विप्पमुक्के।
तरित्ता समुदं व महाभवोह, समुद्दपाले अपुनागमं गए। तिबेमि। वृ.'द्विविधं' द्विभेदंघातिकर्मभवोपग्राहिभेदेन 'पुण्यपापं' शुभाशुभप्रकृतिरूपं 'निरञ्जनः' कर्मसङ्गरहितः, पठ्यते च-'निरंगने'त्ति अङ्गेर्गत्यर्थत्वात् निरङ्गनः-प्रस्तावात्संयमं प्रति निश्चलः शैलेश्यवस्थाप्राप्त इतियावत्, अत एव 'सर्वतः' इति बाह्यादान्तराच्च प्रक्रमादभिष्वङ्गहेतोः 'ती|' उल्लङ्घय 'समुद्रमिव' अतिदुस्तरतया महांश्चासौ भवौघश्च-देवादिभवसमूहस्तं, शेषं स्पष्टमिति सूत्रार्थः ॥ अमुमेवार्थं स्पष्टयितुमाह नियुक्तिकृत्नि.[४४३] काऊण तवच्चरणं बहूनि वासाणि सो धुयकिलेसो।
तं ठाणं संपत्तो जं संपत्ता न सोयंति ।। वृ. सुगमैव । 'इति' परिसमाप्तौ, ब्रवीमिति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वत्॥
अध्ययनं - २१ समाप्तम मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे एकविंशतितमध्ययनं सनियुक्तिः सटीकं परिसमाप्तम्
(अध्ययनं-२२-रथनेमीयं ) वृ.व्याख्यातं समुद्रपालीयं नामैकविंशमध्ययनम्, अधुना द्वाविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने विविक्तचर्योक्ता, सा च चरणसहितेन धृतिमता चरण एव शक्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org