SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मा स्वामिने नमः ४३-२ उत्तराध्ययनानि - मूलसूत्रम् -२ सटीकं [ चतुर्थं मूलसूत्रं ] [ मूलम् + भद्रबाहुस्वामि रचितानिर्युक्तिः + शान्त्याचार्य विरचिता टीका: ] अध्ययानि - १७.......... .३६ अध्ययन नं १७ पापश्रमणीयम् वृ. व्याख्यातं षोडशमध्ययनम्, अधुना सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने ब्रह्मचर्यगुप्तय उक्ताः, ताश्च पापस्थानवर्जनादेवासेवितुं शक्यन्ते इति पाप श्रमणस्वरूपाभिधानतस्तदेवात्र काक्वोच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वत्तावद्यावन्नामनिष्पन्ननिक्षेपेऽस्य पाप श्रमणीयमिति नाम, अतः पापस्य श्रमणस्य च निक्षेपमाह निर्युक्तिकृत् नि. [ ३८७ ] नि. [ ३८८ ] नि. [ ३८९ ] वृ. 'पापे' पापविषय: 'छक्कं 'ति षट्कः षट्परिमानो नामस्थापनाद्रव्यक्षेत्रकालभावभेदानिक्षेप इति गम्यते, तत्र च नामस्थापने सुज्ञाने, द्रव्ये विचार्ये आगमतो ज्ञाताऽनुपयुक्तः, नो आगमतस्तु व्यतिरिक्तमाह-'सचित्ताचित्तमीसगंचेव'त्ति, इह च पापमिति योज्यते, प्राकृतत्वाच्चो भयत्र बिन्दुलोपः, तत्र सचित्तद्रव्यपापं यद्विपदचतुष्पदापदेषु मनुष्यपशुवृक्षादिष्वसुन्दरम् अचित्तद्रव्यपापं तदेव जीवविप्रयुक्तं चतुरशीतिपापप्रकृतयो वा वक्ष्यमाणाः, मिश्रद्रव्यपापं तथाविधद्विपदाद्येवाशुभवस्त्रादियुक्तं तत्शरीराणि वा जीववियुक्तैकदेशयुक्तानि, सन्ति हि जीवशरीरेष्वपि जीववियुक्ताः नखकेशादयस्तदेशदेशाः उक्तं हि पावे छकं दव्वे सचित्ताचित्तमीसगं चेव । खित्तंमि निरयमाई कालो अइदुस्समाईओ || भावे पावं इणमो हंस मुसा चोरिअ च अब्बंभं । तत्तो परिग्गहो च्चिअ अगुणा भणिआ य जे सुत्ते ॥ समणे चक्कनिक्खेवओ उ दव्वंमि निह्नगाईआ । नाणी संजमसहिओ नायव्वो भावओ समणो ॥ "तस्सेव देसे चिए तस्सेव देसे अनुवचिए "त्ति, जीवप्रदेशापेक्षमेव हि तत्र चितत्वमनुपचितत्वं वा विवक्षितं, पापप्रकृतियुक्तो वा जन्तुरेव मिश्रद्रव्यपापमुच्यते, 'चेवे 'ति प्राग्वत्, क्षेत्रे विचार्ये 'पाप' नरकादिपापप्रकृत्युदयविषयभूतं यत्र तदुदयोऽस्ति, 'काल' इति कालपापं - दुष्पमादिको यत्र कालानुभावत: प्राय: पापोदय एव जन्तूनां जायते, आदिशब्दादन्यत्र वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy