________________
अध्ययनं - २०, [ नि. ४२९]
'आचार्याः' इति प्राणाचार्य वैद्या इतियावत्, 'विद्यामन्त्रचिकित्सकाः ' विद्यामन्त्राभ्यास-उक्तरूपाभ्यां व्याधिप्रतिकर्त्तारः, 'अद्वितीया: ' अनन्यसाधारणतया तथाविधद्वितीयाभावात्, 'सत्थकुसल 'त्ति शस्त्रेषु शास्त्रेषु वा कुशलाः शस्त्रकुशला शास्त्रकुशला वा, पठ्यते च 'नानासत्थत्थकुसल'त्ति सुगमं, मन्त्राणि च - उक्तरूपाणि मूलानि च - ओषधयस्तेषु विशारदाः - विज्ञा मन्त्रमूलविशारदाः ।
५१
नैवोपस्थानमात्रेणैव ते स्थिताः किन्तु ते मे चिकित्सां कुर्वन्ति 'चाउप्पयं' ति 'चतुष्पदां ' भिषग्भैषजातुरप्रतिचारकात्मकचतुर्भा (त्मकभा) गचतुष्टात्मिकां 'जहाहियं 'त्ति 'यथाहितं' हितानतिक्रमेण यथाऽधीतं वा-गुरुसम्प्रदायागतवमनविरेचकादिरूपां ततः किमित्याह-न चैवं कुर्वन्तोऽपि 'दुःखद' एवंविधरोगजनितादसाताद् 'विमोचयन्ति' विशेषेण मुत्कलयन्ति, एषा दुःखाविमोचनात्मिका ममानाथता ॥ अन्यच्च - 'सर्वसारमपि ' निःशेषप्रधानं वस्तुरूपं 'दिज्जाहि' त्ति दद्यात् न त्वेवमादरवानपि दुःखात् 'विमोचयंति' त्ति वचनव्यत्ययाद्विमोचयति, एवं सर्वत्र ॥
तथा पुत्रविषयः शोकः पुत्रशोक:, हा ! कथमित्थं दुःखी मत्सुतो जात इत्यादिरूपस्ततो दुःखं तेन ‘अट्टिय'त्ति आती 'अद्दिय'त्ति वा 'अर्दिता' उभयत्र पीडितेत्यर्थः, ततः पुत्रशोकदुःखार्त्ता पुत्रशोकदुःखार्दिता वा ॥ तथा 'सग'त्ति लोकरूढितः सौदर्याः स्वका वा आत्मया वा ॥ तथा 'भईणि 'त्ति भगिन्यः ॥
अपरं च ' भार्या' पत्नी 'अनुरक्ता' अनुरागवती 'अनुव्वय'त्ति अन्विति-कुलानुरूपं व्रतम्आचारोऽस्या अनुव्रता पतिव्रतेति यावत्, वयोऽनुरूपा वा, पठ्यते च- 'अनुत्तरमनुव्वय'त्ति, इह च मकारोऽलाक्षणिकः, अनुत्तरा - अतिप्रधाना 'उर'न्ति 'उर:' वक्षः 'परिषिञ्चति' समन्तास्प्लावयति ।। स्नात्यनेनेति स्नानं गन्धोदकादि मया ज्ञातमज्ञातं वेत्यनेन सद्भावसारतामाह, पठ्यते च-‘तारिसं' रोगमावन्ने 'त्ति 'तादृशम्' उक्तरूपं 'रोगम्' अक्षिरोगादिकम् 'आपन्ने' प्राप्ते मयीति गम्यते, सेति- भार्या बालेव बाला-अभिनवयौवना 'नोपभुंक्ते' नासेवते ॥
-
‘पासाओऽवि न फिट्टइ’त्ति, अपिः चशब्दार्थः, मत्पर्वाच्च नापयाति, सदा सन्निहितैवास्ते, अनेन तस्या अतिवत्सलत्वमाह ॥ 'ततः' इति रोगाप्रतिकार्यतानन्तरमहम् 'एवं' वक्ष्यमाणप्रकारेण ‘आहंसु’'त्ति उक्तवान्, यथा 'दुक्खमा हुत्ति, हु एवकारार्थ, ततो दुःक्षमैव - दुःसहेव पुनः पुनः 'वेदना' उक्तस्वरूपा रोगव्यथा 'अनुभवितुं' वेदयितुं जे इति निपातः पूरणे ॥ यतश्चैवमतः 'सयं च'त्ति चशब्दोऽपिशब्दार्थस्ततः सकृदपि - एकदाऽपि यदि मुच्येऽहमिति गम्यते, कुत: ? - 'वेयण 'त्ति वेदनायाः 'विउल' त्ति विपुलाया:- विस्तीर्णाया: 'इत:' इत्यनुभूयमानायाः, ततः किमित्याह-'क्षान्तः' क्षमावान् 'दान्तः' इन्द्रियनोइन्द्रियदमेन 'पव्वइए अनगारिय'त्ति, 'प्रव्रजेवं' गृहान्निष्क्रामेयं ततश्च 'अनगारतां' भावभिक्षुतामङ्गीकृर्यामिति शेषः, यद्वा 'प्रव्रजेयं' प्रतिपद्येयमनगारितां येन संसारोच्छित्ततो मूलत एव न वेदनासम्भवः स्यादिति ।
Jain Education International
'एवं च चिंतइत्ता णं'ति न केवलमुक्त्वा चिन्तयित्वा चैवं' पासुत्तोमि' त्ति प्रसुप्तोऽस्मि ‘परियट्टंतिय’त्ति परिवर्त्तमानायाम् - अतिक्रामत्यां 'ततः ' वेदनोपामानन्तरं 'कल्लु'त्ति कल्यो नीरोग: सन् 'प्रभाते' प्रातः, यद्वा 'कल्ल' इति चिन्तादिनापेक्षया द्वितीयदिने प्रकर्षेण व्रजितो
For Private & Personal Use Only
www.jainelibrary.org