SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३५ अध्ययनं-१९,[नि. ४१७] गृहीतोऽपि मकरजालैरेव मारितश्च सर्वैरपि, विशेषेण दशन्तीति विदंशका:-श्येनादयस्तैर्जालैःतथाविधबन्धनैः 'लेप्पाहिं'ति लेपैर्वज्रलेपादिभिः श्लैषद्रव्यैः 'सउणोविव'त्ति 'शकुन इव' पक्षीव गृहीतो विदंशकैर्जालैश्च लग्नश्च ‘श्लिष्टो' लेपद्रव्यैर्बद्धः, तैर्जालैश्च, मारितश्च सर्वैरपि, 'कुट्टितः' सूक्ष्मखण्डीकृतः पाटितश्छिन्नश्च प्राग्वत्, तक्षितश्च त्वगपनयनतो द्रुम इवेति सर्वत्र योज्यां। ___ 'चवेडमुठ्ठिमाईहिं'ति चपेटामुष्ट्यदिभिः प्रतीतैरेव 'कुमारेः' अयस्कारैः 'अयं पिव'त्ति अय इव धनादिभिरिति गम्यते 'ताडितः' आहतः कुट्टितः' इह छिन्नः 'भिन्नः' खण्डीकृतः 'चूर्णितः' श्लक्ष्णीकृतः प्रक्रमात्परमाधार्मिकै: तप्तताम्रादीनि वैक्रियाणि पृथव्यनुभावभूतानि वा 'कलकलंत'त्ति अतिक्वाथतः कलकलशब्दं कुर्वन्ति ।। तव प्रियाणि मांसानि खण्डरूपाणि 'सोल्लगाणि'त्ति भडित्रीकृतानि स्मारयित्वेति शेषः, स्वमांसानि मच्छरीरादेवोत्कृत्योत्कृत्य ढौकितानि 'अग्निवर्णानि' अतितप्ततयाऽग्निच्छायानि सुरादीनि मद्यविशेषणरूपाणि, इहापि स्मारयित्वेति शेषः, 'पज्जितोमि'त्ति पायितोऽस्मि 'जलंतीओ'त्ति ज्वलन्तिरिव ज्वलन्तीरत्युष्णतया वशा रुधिराणि च, ज्वलन्तीति लिङ्गविपरिणामेन सम्बन्धनीयम्॥ ___'निच्च' मित्यादि, नरकवक्तव्यतोपसंहर्तृ सूत्रत्रयम्, अत्र च 'भीतेन' उत्पन्नासाध्वसेन तथा 'त्रसी उद्वेगे' 'त्रस्तेन' उद्विग्रेनात एव 'दुःखितेन' संजातविविधदुःखेन 'व्यथितेन च' कम्पमानसकलाङ्गोपाङ्गतया चलितेन, दुःखसंबद्धेति वेदनाविशेषणं सुखसम्बन्धिन्या अपि वेदनायाः सम्भवाद्, 'वेदिते'ति चानुभूता, तीव्रा अनुभागतोऽत एव चण्डाः-उत्कटाः प्रगाढा:गुरुस्थितिकास्तत एव 'घोराः' रौद्राः ‘अतिदुस्सहाः' अत्यन्तदुरध्यासास्तत एव च महद्भयं यकाभ्यस्ता महाभयाः, पठ्यते च-महालयाः-महत्यः, 'भीमाः' श्रूयमाणा अपि भयप्रदाः, एकाथिकानि वैतान्यत्यन्तभयोत्पादनायोक्तानि, इह च वेदना इति प्रक्रमः । कथं पुनस्तस्यास्तीवादिरूपत्वमित्याशङ्कय जारिसे' त्यादिना इहत्यवेदनापेक्षया नरकदुःखवेदनाया अनन्तगुणत्वमाह-'वेयण'त्ति प्रक्रमाद् दुःखवेदना ।। न केवलं नरक एव दुःखवेदना मयाऽनुभूता किन्तु सर्वास्यपि गतिष्विति पुनर्निगमनद्वारेणाह-'सव्वे' त्यादिना, इह च 'असाता' दुःखरूपा निमेष:-अक्षिनिमीलनं तस्यान्तरंव्यवधानं यावता कालेनासौ भूत्वा पुनर्भवति तन्मात्रमपि-तत्परिमाणमपि कालमिति शेषः 'यद्' इति यस्मात् 'साता' सुखरूपा नास्ति वेदना, तत्त्वतो वैषयिकसुखमसुखमेव, ईर्ष्याद्यनेकदुःखानुविद्धत्वाद्विपाकदारुणत्वाच्च ।। सर्वस्य चास्य प्रकरणस्यायमाशयः-य एवमहं निमेषान्तरमात्रमपि कालं न सुखं लब्धवान् स कथं तत्त्वतः सुखोचितः सुकुमारो वेति शक्यते वक्तुं?, येन च नरकेष्वत्युष्णशीतादयो महावेदना अनेकशः सोढास्तस्य महाव्रतपालनं क्षुदादिसहनं वा कथमिव बाधाविधायि?, तत्त्वस्तस्य परमानन्दहेतुत्वात्, तत्प्रव्रज्यैव मया प्रतिपत्तव्येत्येकत्रिंशत्सूत्रावयवार्थः । तत्रैवमुक्त्योपरतेमू. (६८९) तं बिंतऽम्मापियरो, छंदेणं पुत्त ! पव्वया। नवरं पुन सामने, दुक्खं निप्पडिकम्मया ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy