________________
अध्ययनं - ३६, [ नि. ५५९ ]
सम्प्रत्युपसंहारद्वारेण शास्त्रमाहात्म्यं ख्यापयितुमाहमू. (१७३१)
इति पाउकरे बुद्धे, नायए परिनिव्वुए। छत्तीसं उत्तरज्झाए, भवसिद्धीयसंमए ॥ त्तिबेमि ॥
वृ. 'इति:' उपदर्शने 'इति' इत्यनन्यतरमुपवर्णितान् 'पाठकरे' त्ति सूत्रत्वात् 'प्रादुष्कृत्य' कांश्चिदर्थतः कांश्चन सूत्रतोऽपि प्रकाश्य, कोऽर्थः ? - प्रज्ञाप्य, किमित्याह- 'परिनिर्वृतः 'निर्वाणं गत इति सम्बन्धनीयम्, कीदृशः सन् क इत्याह- 'बुद्धः' केवलज्ञानादवगतसकलवस्तुतत्त्वः ‘ज्ञातको ज्ञातजो वा-ज्ञातकुलसमुद्भवः, स चेह भगवान् वर्द्धमानस्वामी ' षट्त्रिंशद्' इति षट्त्रिंशत्सङ्ख्या उत्तराः - प्रधाना अधीयन्त इत्यध्याया- अध्ययनानि तत उत्तराश्च तेऽध्यायाश्चोत्तराध्यायास्तान्-विनयश्रुतादीन् 'भवसिद्धियसंमए'त्ति भवसिद्धिका भव्यास्तेषां समितिभृशं मता-अभिप्रेता भवसिद्धकसंमतास्तान्, पठन्ति च 'भवसिद्धीयसंवुडे' त्ति भवे - तस्मिन्नेव मनुष्यजन्मनि सिद्धिरस्येति भवसिद्धिकः स चासौ संवृतश्चाश्रवनिरोधेन भवसिद्धिकसंवृतः, ज्ञातविशेणमेतत्, अथवा 'पाउकरे'त्ति 'प्रादुरकार्षीत्' प्रकाशितवान्, शेषं पूर्ववत् नवरं 'परिनिर्वृतः' क्रोधादिदहनोपशमत: समन्तात्स्वस्थीभूतः, एतेन "सत्यानृतत्वसंदेहैः, सर्वमेव वचस्त्रिधा" इति प्रसिद्धेस्त्रैविध्यसम्भवेऽपिवचनरूपत्वेनोत्तराध्ययनानां वक्तृदोषहेतुकत्वादनृतत्वसन्देहयोर्वक्तृदोषाबावख्यापनेनैकान्तसत्यत्वलक्षणं माहात्म्यमाहेति सूत्रार्थः ॥ नयुक्तिकारो ऽप्येतन्माहात्म्यख्यापनायाह
Jain Education International
अध्ययनं - ३६ समाप्तम्
जे किर भवसिद्धीया परित्तसंसारिआ य भविआ य । ते किर पढंति धीरा, छत्तीसं उत्तरज्झयणे ॥
नि. [ ५६० ]
नि. [५६१]
'ये' इत्यनिर्दिष्टनिर्देशे 'किल' इति सम्भावने 'भवसिद्धिकाः ' भव्याः परीतः प्राग्वत् वृ. परिमितः स चासौ संसारश्च तद्वन्तः परीत्तसंसारिका: 'अत इनिठना 'विति मत्वर्थीयष्ठन्, कोऽर्थः ? - तथाभव्यत्वाक्षिप्तप्रत्यासन्नीभूतमुक्तयः 'भव्याः' सम्यग्दर्शनादिगुणयोग्या भिन्नग्रन्थय इति योऽर्थ:, उभयत्र 'च: ' समुच्चये इति, व्यवच्छेदफलत्वाद्वा वाक्यस्य त एव, 'किल' इति परोक्षाप्तसूचकः, 'पठन्ति' अधीयते धीराः प्राग्वत्, कांनि ? इत्याह- 'छत्तीसं 'ति षट्त्रिंशद् 'उत्तराध्ययनानि' विनयश्रुतादीनि भवसिद्धिकादीनामेतत्पाठफलस्य सम्यग्ज्ञानादेः सद्भावेन निश्चयतस्तत्पाठसम्भवः, अन्येषां व्यवहारत एवेत्येवमभिधानम् ॥
उक्तमेवार्थं विनेयानुग्रहाय व्यतिरेकत आह-ये भवन्ति 'अभवसिद्धयः' अभव्याः प्राग्वद्वचनव्यत्ययः, ग्रन्थिः-उक्तरूपस्तद्योगाद्ग्रन्थयस्त एव ग्रन्थिकास्ते च ते सत्त्वाश्च ग्रन्थिकसत्त्वाः, अभिन्नग्रन्थय इत्यर्थः, तथाऽनन्तः - अपर्यवसितः संसार एषामित्यनन्तसंसारा-ये न कदाचिन्मुक्तिसुखमवाप्स्यन्ति अभव्याः " भव्वावि ते अनंते" त्यादिवचनतो भव्या वा ते संक्लिष्टानि - अशुभानि कर्माणि ज्ञानावरणीयादीनि एषामिति संक्लिष्टकर्माण इत्याह,
जे हुंति अभवसिद्धीया गर्थिसत्ता अनंतसंसारा । ते संकिलिकम्मा अभविय उत्तरज्झाए |
-
२९५
For Private & Personal Use Only
-
www.jainelibrary.org