SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २९२ उत्तराध्ययन-मूलसूत्रम्-२.३६/१७२५ भिरालोचनादातृणामुत्पादयन्ति, चशब्दो भिन्नक्रमस्ततः 'गुणग्गाहिय'त्ति गुणग्राहिणश्च उपबुंहणार्थं परेषां सम्यग्दर्शनादिगुणग्रहणशीला: 'एएण कारणेण'न्ति एतैः' अनन्तरमेव विशेषणतयोपात्तैर्बह्वागमविज्ञानत्वादिभिः 'कारणैः' हेतुभिः 'अर्हाः' योग्या भवन्त्याचार्यादय इति गम्यते 'आलोचनां' विकटनामर्थात्परैर्दीयमानां श्रोतुम्' आकर्णयितुम्, एते ह्यालोचनाश्रवणफलं परेषां विशुद्धिलक्षणं सम्पादयितुमीशते, व्यत्ययश्च सर्वत्र प्राग्वदिति सूत्रार्थः ।। इत्थमनशनस्थितेन यत्कृत्यं तत्सप्रसङ्गमुपदर्य सम्प्रति कन्दर्पादिभावनानां यत्परिहार्यत्वमुक्तं तत्र यत्कुर्वता ता भवन्ति तत्परिहारेणैव तासां परिहारो न चाज्ञातस्यायमिति ज्ञापनार्थमाहमू. (१७२६) कंदप्पकोक्कुईया तह सीलसहावहासविगहाहिं। विम्हाविंतो य परं कंदप्पं भावनं करइ । मू.(१७२७) मंताजोगं काउं भूईकम्मं च जे पउंजंति। · सायरसइड्डिहेउंअभिओगं भावनं कुणइ॥ मू.(१७२८) नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं। माई अवनवाई किब्बिसियं भावनं कुणइ ।। मू. (१७२९) अनुबद्धरोसपसरो तह य निमित्तमि होइ पडिसेवी। एएहिं कारणेहिं आसरियं भावनं कुणइ॥ मू. (१७३०) सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो य। अनयारभंडसेवी जम्मणमरणाणि बंधति ।। वृ. 'कंदप्पकोकुईया' इति, कन्दर्पः-अट्टहासहसनम् अनुभृतालापाश्च गुदिनाऽपि सह । · निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाश्च कन्दर्पो, यत उक्तम् "कहकहकहस्स हसणं कंदप्पो अनिहुया य संलावा। ... कंदप्पकहाकहणं कंदप्पुवएससंसा य॥" कौक्रुच्चद्विधा-कायकौक्रुच्यं वाक्कक्रुिच्यं च, तत्र कायकौक्रुच्यं यत्स्वयमहसन्नेव भ्रूनयनवदनादि तथा करोति यथाऽन्यो हसति, उक्तश्च "भुमनयनदसनच्छएहिं करचरणकन्नमाईहिं। तं तं करेइ तह तह हसइ परो अत्तणा अहसं।" यत्तु तज्जल्पति येनान्यो हसति तथा नानाविधजीवविरुतानि मुखातोद्यवादितां च विधत्ते तद्वाक्कक्रुिच्यम्, उक्तं हि "वायाए कुक्कुइओ तं जंपइ जेन हस्सए अन्नो । . नाणाविहजीवरुए कुव्वइ मुहतूरए चेव॥" . ततः कन्दर्पश्च कौक्रुच्यं च कन्दर्पकौक्रुच्ये कुर्वन्निति शेषः 'तह'त्ति येन प्रकारेण परस्य विस्मय उपजायते तथा यच्छीलं च-फलनिरपेक्षा वृत्तिः स्वभावश्च-परविस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं हसनंच-अट्टहासादि विकथाश्च-परविस्मापकविविधोल्लापरूपाः शीलस्वभावहसनविकथास्ताभिः 'विस्मापयन्' सविस्मयं कुर्वन् 'परम्' अन्यं 'कंदप्पंति कन्दर्पयोगात्कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामियमुक्तानीत्या तेषूत्पत्तिनिमित्ततया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy