________________
अध्ययनं - ३६, [ नि. ५५९ ]
२७९
जघन्येन दश वर्षसहस्राणि यस्यां सा दशवर्षसहस्रिका प्रस्तावादायुः स्थितिर्ने रयिकाणामितीहोत्तरसूत्रेषु च द्रष्टव्यम् ।
त्रीण्येव ' सागरे 'ति सागरोपमाणि 'तुः ' पूरणे उत्कृष्टेन व्याख्याता द्वितीयायां, 'जहन्त्रेणं' ति उत्तरत्र तुशब्दस्य पुनः शब्दार्थस्य भिन्नक्रमत्वेनेह सम्बन्धाज्जघन्येन पुनरेकं सागरोपमम् ।
सप्तैव सागरोपमाणि तूत्कृष्टेन व्याख्याता तृतीयायां, जघन्येन पुनस्त्रीण्येव सागरोपमाणि, दश सागरोपमाणि तूत्कृष्टेन व्याख्याता चतुर्थ्यां जघन्येयन सप्तैव तु सागरोपमाणि । सप्तदश सागरोपमाणि तूष्कृष्टैन व्याख्याता पञ्चम्यां, जघन्येन देश चैव तु सागरोपमाणि द्वाविंशतिः सागरोपमाणि तूत्कृष्टैन व्याख्याता षष्ठ्यां, जघन्येन सप्तदश सागरोपमाणि । त्रयस्त्रिंशत्सागरोपमाणि तूत्कृष्टेन वयख्याता सप्तम्यां नरकपृथिव्यां, जघन्येन द्वाविंसतिः सागरोपमाणि ॥
आयुः स्थितिरुक्ता, कायस्थितिमाह-'या चे 'ति चशब्दो वक्तव्यतान्तरोपन्यासे 'एवे 'ति भिन्नक्रमः ‘चः' पुनरर्थः, ततो यैव च पुराऽऽयुः स्थितिर्नैरयिकाणां व्याख्याता 'सि'त्ति एवकारस्य गम्यमानत्वात्सैव तेषां कायस्थििितर्जघन्योत्कृष्टा भवेत्, इत्थं चैतत्, तत उद्वृत्तानां पुनस्तत्रैवानुपपत्तेः, ते हि तत उद्धृत्य कश्चिज्जीवों गर्भजपर्याप्तकसङ्ख्ययवर्षायुष्ष्वेवोपजायन्ते, यत उक्तम्-“नरगाओ उव्वट्टा गब्भे पज्जत्तसंखजीवीसु । नियनेण होइ वासो" इत्यादि अन्तरविधानाभिधायि सूत्रद्वयं प्राग्वत्, नवरमन्तर्मुहूर्तं जघन्यमन्तरं, यदाऽन्यतरनरकादुद्धृत्य कञ्चिज्जीवो गर्भजपर्याप्तकमत्स्यादिषूत्पद्यते, तत्र चातिसंक्लिष्टाध्यवसायो ऽन्तर्मुहूर्त्तमानायुः प्रतिपाल्य मृत्वाऽन्यतमनरक एवोपजायते तदा लभ्यत इति भावनीयमिति चतुर्दशसूत्रार्थः ॥ इत्थं नैरयिकानभिधाय तिरश्च आह-मू. ( १६३४ )
मू. ( १६३५ )
मू. ( १६३६ )
मू. ( १६३७ )
मू. ( १६३८ )
मू. ( १६३९ )
मू. (१६४० )
मू. ( १६४१ )
Jain Education International
पंचिदियतिरिक्खा उ, दुविहा ते वियाहिया । संमुच्छिमतिरिक्खा उ, गब्भवक्कतिया तहा ॥ दुविहावि ते भवे तिविहा, जलयरा थलयरा तहा। खहयरा य बोद्धव्वा, तेर्सि भेए सुणेह मे ॥ मच्छा य कच्छभा य, गाहा य मगरा तहा। सुंसमारा य बोद्धव्वा, पंचहा जलयराहिया लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया । इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥ संतई पप्पऽणाईया, अपज्जवसियावि य । ठिई पडुच्च साईया, सपज्जवसियावि य ॥ इक्का य पुव्वकोडीओ, उक्को सेन वियाहिया । आउठिई जलयराणं, अंतोमुहुतं जहन्नयं ॥ पुव्वकोडीपुहुत्तं तु, उक्को सेन वियाहिया । काठई जलयराणं, अंतोमुहुत्तं जहन्त्रयं ॥ अनंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए, जलयराणं तु अंतरं ।।
For Private & Personal Use Only
www.jainelibrary.org