________________
२६४
उत्तराध्ययन-मूलसूत्रम्-२-३६/१५१८ सिद्धानभिधाय सम्प्रति प्रत्युत्पन्नभावप्रज्ञापनीयनयापेक्षया तेषामेव प्रतिधातादिप्रतिपादनायाहमू.(१५१९) कहिं पडिहया सिद्धा?, कर्हि सिद्धा पइट्ठिया?/ .
___ कहिं बुदि चइत्ता णं, कत्थ गंतूण सिज्झई? || मू.(१५२०) अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया।
इहं बुदि चइत्ता णं, तत्थ गंतूण सिज्झई। वृ. 'क्वे'ति कस्मिन् 'प्रतिहताः' स्खलिताः, कोऽर्थः ? -निरुद्धगतयः, सिद्धाः, तथा 'क्व' कस्मिन् सिद्धाः 'प्रतिष्ठिताः' साद्यपर्यवसितं कालं स्थिताः, अन्यच्च-क्व'बंदि' शरीरं त्यक्त्वा कुत्र गत्वा 'सिज्झइ'त्ति वचनव्यत्ययात् 'सिद्धन्ति' निष्ठितार्था भवन्ति । एतत्प्रतिवचनमाह-'अलोके' केवलाकाशलक्षणे 'प्रतिहताः' स्खलितास्तत्र धर्मास्तिकायस्याभावेन तेषां गतेरसम्भवात्, उक्तं च. "ततोऽप्यूर्ध्वं गतिस्तेषां, कस्मान्नीस्तीति चेन्मतिः।
धर्मास्तिकायस्याभावात्, स हि हेतुर्गतेः परः ।।" तथा 'लोकाग्रे च' लोकस्योपरिविभागे 'प्रतिष्ठिताः' सदाऽवस्थिताः, आह-ऊर्वंगमनाभावेऽप्यधस्तिर्यग्वा गमनसम्भवेन कथं तेषां तत्र प्रतिस्थानम्?, उच्यते, क्षीणकर्मत्वात्तेषां, कर्माधीनत्वाच्चाधस्तिर्यग्गमनयोः, तदुक्तम्
"अधस्तिर्यगथोक् च, जीवानां कर्मजा गतिः। . .
ऊक्मेव तु ताद्धाद्, भवति क्षीणकर्मणाम् ॥" 'इहे' त्यनन्तरप्ररूपिते तिर्गगूलोकादौ 'बुन्दि' शरीरं त्यक्त्वा 'तत्र' इति लोकाग्रे गत्वा 'सिज्झति'त्ति सिध्यति, गत्वेति च मुखं व्यादाय स्वपितीत्यादिवत्क्त्वाप्रत्ययः, पूर्वापरकालविभागस्येहासम्भवात्; यत्रैव हि समये भवक्षयस्तस्मिन्नेव मोक्षस्तत्र गतिश्चेति, आहच वाचक:
"द्रव्यस्य कर्मणो यद्वदुत्पत्त्यारम्भवीतयः ।
समं तथैव सिद्धस्य, गतिमोक्षभवक्षयाः॥" इति सूत्रद्वयार्थः । लोकाग्रे गत्वा सिद्धन्तीत्युक्तं, लोकाग्रं चेषत्प्राग्भाराया उपरीति यावति प्रेदेशेऽसौ यत्संस्थाना यत्प्रमाणा यद्वर्णा च तदभिधानायाहमू.(१५२१) बारसहि जोयणेहिं, सब्वट्ठस्सुवरिं भवे ।
ईसीपन्भारनामा उ, पुढवी छत्तसंठिया ।। मू.(१५२२) पणयाल सयसहस्सा, जोअनाणं तु आयया।
तावइयं चेव विच्छिन्ना, तिगुणो साहिय (तस्सेव) परिरओ।। मू.(१५२३) अट्ठजोयणबाहल्ला, सा मज्झमि वियाहिया।
परिहायंती चरिमंते, मच्छीपत्ताउ तनययरी॥ मू.(१५२४) . अज्जुनसुवामगई, सा पुढवी निम्मला सहावेणं।
- उत्ताणयछत्तयसंठिया य भणिया जिनवरेहि। मू.(१५२५/१) संखंककुंदसंकासा, पंडरा निम्मला सुभा। वृ. द्वादशभिर्योजनैः प्रकृत्यादित्वात्तृतीया 'सर्वार्थस्य' सर्वार्थनाम्नो विमानस्य 'उपरि' For Private & Personal Use Only
www.jainelibrary.org
Jain Education International