SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ - - - अध्ययनं-३६,[ नि.५५९] २५७ पाषाणादिवत् मृदवः हंसरूतादिवत् गुरवः हीरकादिवत् लघवः अर्कतूलादिवत् शीताः मृणालादिवत् उष्णाः वल्यादिवत् स्निग्धाः घृतादिवत् रूक्षाः भूत्यादिवत्, उपसंहारमाह-'इती' त्यमुना प्रकारेण स्पर्शपरिणताः एते' स्कन्धादयः पूरणगलनधर्माणः पुदगला: ‘समुदाहृताः' सम्यक्प्रतिपादितास्तीकृदादिभिः। संतिष्ठन्त एभिः स्कन्धादय इति संस्थानानि तद्रूपेण परिणताः परिमण्डलादयः प्राग्वद्द्यावर्णितस्वरूपा एव ७।.. सम्प्रत्येपामेव परस्परसंवेधमाह-वर्णतः 'यः' स्कन्धादिर्भवेत्कृष्णः 'भइए'त्ति भाज्य: 'से उत्ति स पुनः ‘गन्धतः' गन्धमाश्रित्य सुरभिगन्धी दुर्गन्धो वा स्यात् न तु नियतगन्ध एवेति भावः,एवं रसतः स्पर्शतश्चैव भाज्य: संस्थानतोऽपिच, अन्यतररसादियोग्य एवासौ भवेदिति हृदयम्, अत्र च गन्धौ द्वौ रसाः पञ्च स्पर्शा अष्टौ संस्थानानि पञ्च, एते च मीलिता विंशतिरित्येक एव कृष्णवर्ण एतावतो भङ्गान् लभते २०, एवं नीलोऽपि २०, लोहितोऽपि २०, पीतक इतिहारिद्रः सोऽपि २०, 'सुक्किल'त्ति शुक्लोऽप्येतावत एव भङ्गान् लभत इति २०, एवं पञ्चभिरपि वर्णैर्लब्दं शतम् १००। गन्धतो यः स्कन्धादिर्भवेत् 'सुब्भि'त्ति सुरभि ज्यः स तु वर्णतोऽन्यतरकृष्णादिवर्णवान् स्यादितिभावः, एवं रसतः स्पर्शतश्चैव भाज्य: संस्थानतोऽपि च, इह च रसादयोऽष्टादश ते च पञ्चभिर्वर्णैर्मीलितैस्त्रयोविंशतिर्भवन्ति २३, एवं च दुर्गन्धविषय अप्येतावन्त एव २३, ततश्च गन्धद्वयेन लब्धा भङ्गानां षट्चत्वारिंशत् ४६ । १४ । रसतस्तिक्तको यस्तु स्कन्धादिर्भाज्य: स तुवर्णतो गन्धतः स्पर्शतश्चैव भाज्य: संस्थानतोऽपि च, इह चोक्तन्यायतो विंशतिर्भङ्गास्तिक्तेनावाप्यन्ते २०, एवं कटुकेन २० कषायेण २० आम्लेन २० मधुरेण २० चैतावन्त एवावाप्यन्ते, एवं च रसपञ्चकसंयोगे लब्धं शतम् १००। स्पर्शतः कर्कशो यस्तु स्कन्धादिर्भाज्य: सतुवर्णतो गन्धतो रसतश्चैव भाज्य: संस्थानतोऽपि च, इह चोक्तन्यायतो वर्णादयः सप्तदशेति तद्योगतस्तावत एव भङ्गानवाप्नोति १७ । एवं मृदुः १७गुरुः १७ लघुः १७ स्निग्धः १७ रूक्षः १७ शीत १७ उष्णश्च १७ एतावत एव भङ्गानवाप्नोति, एवन्मीलने च जातं षट्त्रिंशं शतम् १३६ । १७ । .. परिमण्डलसंस्थाने यो वर्त्तत इति शेषः, भाज्यः स तु सामान्यप्रक्रमेऽपि स्कन्धः, परमाणूनां संस्थानासम्भवात्, वर्णतो गन्धतो रसतश्चैव भाज्य: स्पर्शतोऽपि च, अत्रच वर्णादय उक्तनीत्या विंशतिस्ततस्तद्योगात्परिमण्डलेन विंशतिरेव भङ्गा लभ्यन्ते २०, एवं वृत्तेन २० व्यस्रेण २० चतुरस्त्रेण २० आयतेन च २० प्रत्येकमेतावन्त एव भङ्गा प्राप्यन्त इति संस्थानपञ्चककभङ्गसंयोगे लब्धं शत्म १००, एवं वर्णरसगन्धस्पर्शसंस्थानानां सकलभङ्गसङ्कलनातो जातानि द्यशीत्यधिकानि चत्वारि शतानि, अङ्कतोऽपि ४८२, सर्वत्र च जातोवेकवचनं । ३२ । - परिस्थूरन्यायतश्चैतदुच्यते, अन्यथा प्रत्येकमप्येषां तारतम्यतोऽनन्तत्वादनन्ता एव भङ्गा संभवन्ति, इत्थं चैतत्परिणामवैचित्र्यं केवलागमप्रमाणावसेयमेवेति न स्वमतिकल्पितहेतुभिश्चित्तमाकुलकर्त्तव्यमिति द्वात्रिंशत्सूत्रावयवार्थः।। मू. (१५११) एसा अजीवविभत्ती, समासेन वियाहिया। 29/17 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy