SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २५४ उत्तराध्ययन-मूलसूत्रम्-२-३६/१४७५ वक्ष्यमाणेनेति सूत्रार्थः । इदं च सूत्रं षट्पादं गाथेत्युच्यते, तथा च तल्लक्षणं "विषमाक्षरपादं वा पादेरसमं दशधर्मवत्। तन्त्रेऽस्मिन् यदसिद्धं गाथेति तत्पण्डितैर्जयम्॥" इति, अत्र च दश धर्मवदित्यनेन, "दश धर्मं न जानन्ति, धृतराष्ट्र ! निबोधत ।। मत्तः प्रमत्त उन्मत्तः, श्रान्तः क्रुद्धो बुभुक्षितः ।। त्वरमाणश्च भीरुश्च, लुब्धः कामी च ते दश।" इति गृह्यत इति, प्रत्यन्तरेषु त्वन्तपादद्वयं न दृश्यत एव । यथाप्रतिज्ञातमाहमू.(१४७६) संतई पप्प तेऽनाई, अप्पज्जवसिआवि । ठिई पडुच्च साईआ, सप्पज्जवसिआवि अ॥ मू.(१४७७) __ असंखकालमुक्कोसं, इक्कं समयं जहन्नयं। अजीवाण य रूवीणं, ठिई एसा विआहिआ॥ मू.( १४७८) अनंतकालमुक्कोसं, इक्कं समयं जहन्नयं। अजीवाण य रूवीणं, अंतरेयं विआहिअं॥ वृ. 'सन्ततिम्' उक्तरूपां 'प्राप्य' आश्रित्य 'ते' इति स्कन्धाः परमाणवश्च 'अणाइ'त्ति अनादयोऽपर्यवसिता अपि च, न हि ते कदाचित्प्रवाहतो न भूता न वा न भविष्यन्तीति, स्थिति' प्रतिनियतक्षेत्रावस्थानरूपां 'प्रतीत्य' अङ्गीकृत्य सादिकाः सपर्यवसिता अपि च, तदपेक्षया हि प्रथमतस्तथाऽस्थित्वैवावतिष्ठन्ते अवस्थाय च न पुनर्न तिष्ठन्तीत्यभिप्रायः ।। सादिसपर्यवसितत्वेऽपिकियत्कालमेषामवस्थितिः? इत्याह-'असङ्ख्यकालम्' आगमप्रतीतमुत्कृष्टा, समयमेकं जघन्यका, अजीवानां रूपिणां पुद्गलानामिति योऽर्थः, स्थितिरेषा व्याख्याता, जघन्यत एकसमया उत्कृष्टतस्त्वसङ्ख्येयकालम्, असङ्ख्येयकालात्परतोऽवश्यमेव विचटनात्। इत्थं कालद्वारमाश्रित्य स्थितिरूक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह-'अनन्तकालं' समयप्रसिद्धमुत्कृष्टमेकं समयं जघन्यकमजीवानांरूपिणाम् 'अंतरेय'न्ति अन्तरंविवक्षितक्षेत्रावस्थितेः प्रच्युतानां पुनस्तत्प्राप्तेर्व्यवधानमेतद्-उक्तरूपं व्याख्यातं, तेषा हि विवक्षितक्षेत्रावस्थितिप्रच्युतानां कदाचित्समयावलिकादिसङ्ख्यातकालतोऽसंख्यातकालद्वा, पल्योपमादेर्यावदनन्तकालादपि सम्भवतीति सूत्रत्रयार्थः ।। एतानेव भावतो विधातुमाहमू. ( १४७९) वण्णओ गंधओ चेव, रसओ फासओ तहा। संठाणओ य विन्नेओ, परिणामो तेसि पंचहा ।। मू. (१४८०) वण्णओ परिणया जे उ, पंचहा ते पकित्तिया। किण्हा नीला य लोहिया, हालिद्दा सुकिला तहा। मू. (१४८१) गंधओ परिणया जे य, दुविहा ते वियाहिया। सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य॥ मू.(१४८२) रसओ परिणया जे उ, पंचहा ते पकित्तिया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy