________________
अध्ययनं - ३२, [ नि. ५३० ]
मनयोः सूच्यते, ततश्च यदुक्तं युगपदुपयोगवादिना
२१७
"मनपज्जवणाणतो नाणस्स य दंसणस्स य विसेसो । केवलनाणं पुन दंसणन्ति नाणंति य समाणं ॥ त्ति,
तन्निराकृतं भवति, तथा प्रज्ञप्त्यामभिहितम्-"जं समयं जाणंति नो तं समयं पासंति, तथा केवली णं भंते! इम रयणप्पमं पुढवि आगरेहिं हेऊहिं पमाणेहिं संठाणेहिं परिवारेहिं जं समयं जाणइ नो तं समयं पासति ?, हंता गोयमा ! केवली न" मित्यादि, न चात्र केवलिशब्देन छद्मस्थ एव श्रुतकेवल्यादिविवक्षित इति वाच्यं, यत इहाद्यसूत्रे स्नातक एव प्रस्तुतः, स च धातिकर्मक्षयादेव भवतीति न तस्य छद्मस्थता संभवेत्, द्वितीयसूत्रे तु परमाणुदर्शनमेव प्रक्रान्तं, तस्य च केवलं विना परमावधेस्ततो वा किञ्चिन्यूनस्यैव सम्भवस्तत्र च तौ व्यवच्छेदिताविति केवलमेवावशिष्यते, उक्तं च पूज्यै:
"ते दोऽवि विसेसेउं अन्नो छउमत्थकेवली को सो ? । जो पास परमाणुं गहणमिहं जस्स होज्जाहि ।। "
न चैवमप्यस्मिन् विशेषवति सूत्रे परवक्तव्यतैवेयमित्युपगन्तुमुचितम् उक्तं हि" एवं विसेसियंमिवि परमयमेगंतरोवओगोत्ति ।
पुन उभओवओगा परवत्तव्वत्ति का बुद्धी ? ॥"
इत्यादि कृतं प्रसङ्गेन प्रकृतमुच्यते तथा चामोहनः - मोहरहितो भवति, तथा निष्क्रान्तोऽन्तरायो (यात्) निरन्तरायोऽनाश्रवः प्राग्वत्, ध्यानं - शुक्लध्यानं तेन समाधिः - परमस्वाथ्यं तेन युक्तः सहितो ध्यानसमाधियुक्तः आयुष उपलक्षणत्वान्नामगोत्रवेद्यानां च क्षय आयुःक्षयस्तस्मिन् सति मोक्षम् 'उपैति' प्राप्नोति 'शुद्धः ' विगतकर्ममल इति सूत्रार्थः ॥
मू. (१३५६ ) सो तस्स सव्वस्स दुहस्स मुक्खो, जं बाहई सययं जंतुमेयं । दीहामयव्विप्पमुक्को पसत्थो, तो होइ अच्चंतसुही कयत्थो ।
वृ. 'सः' इति मोक्षप्राप्तो जन्तुः 'तस्मात्' इति जातिजरामरणरूपत्वेन प्रतिपादितात् 'सर्वस्मात् ' निरवशेषाद् दुःखात् सर्वत्र सुब्व्यत्ययेन षष्ठी 'मुक्तः ' पृथग्भूतः, यत् कीदृशगित्याह-'यद्' दुःखं 'बाधते' पीडयति 'सततम्' अनवरतं 'जन्तुं' प्राणिनम् 'एनं' प्रत्यक्षमनुभवोपदर्शनमेतत्, दीर्घाणि यानि स्थितितः प्रक्रमात्कर्माणि तान्यामया इव-रोगा इव विविधबाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः अत एव 'प्रशस्तः' प्रशंसार्हः, ततः किमित्याह-'तो' इति 'तत: ' दीर्घामयविप्रमोक्षाद् 'भवति' जायतेऽत्यन्तम्- -अतिक्रान्तपर्यन्तं सुखं शर्म तदस्यास्तीत्यत्यन्तसुखी तत एव च 'कृतार्थः ' कृतसकलकृत्य इति सूत्रार्थः ॥
मू. (१३५७ ) अनाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमुक्खमग्गो । वियाहिओ जं समुविच्च सत्ता, कमेण अच्चतसुही भवंति ॥ त्तिबेमि ॥
वृ. ‘अनादिकालप्रभवस्य' अनादिकालोत्पन्नस्य 'एष: ' अनन्तरोक्तः सर्वस्य दुःखस्य 'प्रमोक्षमार्गः ' प्रमोक्षोपायः, पाठान्तरतश्च संसारचक्रस्य विमोक्षामार्गो, व्याख्यातः, यः कीदृश: ? इत्याह-'यं' दुःखप्रमोक्षमार्गं 'समुपेत्य' सम्यक् प्रतिपद्य 'सत्त्वाः 'प्राणिनः 'क्रमेण' उत्तरोत्तरगुणप्रतिपत्तिरूपेणात्यन्तसुखिनो भवन्तीति सूत्रार्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org