SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १९४ उत्तराध्ययन-मूलसूत्रम्-२-३१/१२४१ तथा रूपम्-एकस्तेनाधिकाः प्रक्रमात्सूत्रकृताध्ययनेभ्यो रूपाधिकाश्चतुर्विंशतिरित्यर्थस्तेषु, केषु? इत्याह-सुरेषु, पठन्ति च-देवेषु, तत्र चदीव्यन्ति-क्रीडन्तीति देवा-भवनपत्यादयस्तेषु, यदिवा दीव्यन्ते, स्तूयन्ते जगत्रयेणापीति देवाः- अर्हन्तस्तेषु ऋषभादितीर्थकरेषु, उक्तं हि “भवणवणजोइवेमाणिया य दस अट्ठ पंच एगविहा। इति चउवीसं देवा केई पुन वेंति अरहता।" यो भिक्षुर्यतते यथावत्प्ररूपणादिना । मू.(१२४२) पणवीसा भावनाहिं च, उद्देसेसु दसाइणं । जे भिक्खु जयई निच्चं, से न अच्छइ मंडले ।। ७. पणवीस'त्ति 'पञ्चविंशतौ" पञ्चविंशतिसङ्ख्यासु भावणाहिं'ति भाव्यन्त इति भावनाः, ताश्चेह महाव्रतविषया ईर्यासमितियत्नादयः परिगृह्यन्ते, सुब्ब्यत्ययात्तासु, उक्तं हि-"पणवीसं भावनाओ पन्नत्ताओ, तं०-इरियासमिति १ मनगुत्ती २ वयगुत्ती ३ आलोइऊण पानभोयणं ४ आयाणभंडनिक्खेवणासमिई ५, अनुवीइभासणया १ कोहविवेगे २ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ५, उग्गहमणुन्नवणया १ उग्गहसीमं जाननया २ सयमेव उग्गहं अनुनविय परिभुंजणया ४ साहारणभत्तपाणं अनुन्नविय परिभुंजणया ५, इत्थिपसुपंडयसंसत्तसयणासणवज्जणया १ इत्थिकहविवज्जणया २ इत्थीणं इंदियाणि आलोयणवज्जणया ३ पुव्वरयपुव्वकीलियाणं विसयाणं असरणया ४ पणीयाहारविवज्जणया ५, सोइंदियरागोवरई, एवं पंचवि इंदिया।" 'उद्देशेष्वि'त्युपलक्षणत्वादुद्देशनकालेषु दशादीनांदशाश्रुतस्कन्धकल्पव्यवहाराणां ष्ड्विंशतिसङ्घयेष्विति शेषः, उक्तं हि "दस उद्देसणकाला दसाण कप्पस्स होंति छच्चेव। दस चेव य ववहारस्स हुंति सव्वेऽपि छव्वीसं ॥" यो भिक्षुर्यततो सर्वदा परिभावना-प्ररूपणाकालग्रहणादिभिः। मू.(१२४३) अनगारगुणेहिं च, पगप्पंमि तहेव य। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ.अनगारः प्राग्वत्तस्य गुणा:-व्रतष्ट्केन्द्रियनिग्रहादयः सप्तविंशति-सुब्ब्यत्ययात्तेषु च, "वयछक्क ६ मिंदियाणं च निग्गहो ११ भाव १२ करणसच्चं च १३ । खमया १४ विरागयाविय १५ मणमाईणं निरोहो य १८ ॥१॥ कायाण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियासणया २६ । तह मारणंतियहियासणया २७ एएऽनगारगुणा ॥२॥" प्रकृष्टः कल्पो-यतिव्यवहारो यस्मिन्नसौ प्रकल्पः स चेहाचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन्, उक्तं च "सत्थपरिन्ना १ लोगविजओ २ सीओसनिज्ज ३ सम्मत्तं ४ । आवंति ५ धुव ६ विमोहा ७ उवहाणसुयं ८ महपरिना ९ ।।१।। पिंडसेण १० सेज्जि ११ रिय १२ । भासा १३ वत्थेसणा य १४ पाएसा १५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy