________________
अध्ययनं - २९, [ नि. ५१३]
सायतया संसाराल्पत्वापादनादिति भावः ।
मू. ( ११५४ ) सब्भावपच्चक्खाणेणं भंते० ?, अनियट्टिं जणयइ, अनियट्टिं पडिवन्ने य अनगारे चत्तारि केवलकमंसे खवेइ, तंजहावेणिज्जं आउयं नामं गोयं, तओ पच्छा सिज्झइ ॥
१६५
वृ. साम्प्रतं सकलप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानमाह - तत्र सद्भावेन - सर्वथा पुनःकरणासंभवात्परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपा शैलेशीतियावत् तेन, न विद्यते निवृत्ति : - मुक्तिप्राप्य निवर्त्तनं यस्मिंस्तद् अनिवृत्ति शुक्लध्यानं चतुर्थभेदरूपं जनयति, पाठान्तरतश्च 'निवृत्ति' द्विसमयस्थितिकस्यापि वैद्यकर्मणो बन्धव्यावृत्तिं जनयति, 'अनियट्टै पडिवन्ने य'त्ति प्रतिपन्नानिवृत्तिः पाठान्तरतः प्रतिपन्नानिवृत्तिश्चानगारः 'चत्वारि' चतु:सङ्ख्यानि केवलिनः 'कम्मंस'त्ति कार्मग्रन्थिकपरिभाषयाऽंशशब्दस्य सत्पर्यायत्वात् सत्कर्माणि केवलिसत्कर्माणि-भवोपग्राहीणि क्षपयति, शेषं स्पष्टम् ।
मू. ( ११५५ ) पडिरूवयाए णं भंते ?, लाघवियं जणेइ, लहुभूए णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसंमत्ते सत्तसमिइसमत्ते सव्वपाणभूयजीवसत्तेसु वीससणिज्जरूवे अप्पडिलेहे जिइंदीए विपुलतवसमिइसमन्नागए आवि भवइ ॥
वृ. एतच्च प्रत्याख्यानं प्राय: प्रतिरूपतायामेव भवतीति तामाह- 'पडिरूवयाए 'त्ति, प्रति:सादृश्ये, ततः प्रतीति-स्थविरकल्पिकादसदृशं रूपं - वेषो यस्य स तथा तद्भावस्तत्ता तयाअधिकोषहरणपरिहाररूपया लाघवमस्यास्तीति लाघवी तद्भावो लाघविता तां द्रव्यतः स्वल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति, लघुभूतश्च जीवः 'अप्रमत्तः ' प्रमादहेतूनां परिहारत इतरेषां चाङ्गीकरणतः, तथा 'प्रकटलिङ्गः' स्थविरादिकल्परूपेण व्रतीति विज्ञायमानत्वात् 'प्रशस्तलिङ्गः' जीवरक्षणहेतुरजोहरणादिधारकत्वाद् 'विशुद्धसम्यक्त्वः' तथाप्रतिपत्त्या सम्यक्त्वविशोधनात्, तथा सत्त्वं च - आपत्स्ववैकल्यकरमध्यवसानकरं च समितयश्चउक्तरूपाः समाप्ताः - परिपूर्णा यस्य स समाप्तसत्त्वसमिति:, सूत्रे निष्ठान्तस्य प्राकृतत्वात्परि-निपातः, तत एव सर्वप्राणभूतजीवसत्त्वेषु विश्वसनीयरूपः, तत्पीडापरिहरित्वात्, 'अपडिलेह 'त्ति अल्पार्थे नञ्, ततोऽप्रत्युपेक्षित इत्यल्पोपकरणत्वादल्पप्रत्युपेक्षः, पठ्यते च- 'अप्पपडिलेहि 'त्ति जितानि - वशीकृतानि यतिरहमितिप्रत्यायत्कथञ्चित्परिणामान्यथात्वेऽपीन्द्रियाणि येन स तथा विपुलेन - अनेक भेदतया विस्तीर्णेन तपसा समितिभिश्च सर्वविषयानुगतत्वेन विपुलाभिरेव समन्वागतो-युक्तो विपुलतपः समितिसमन्वागतश्चापि भवति, पूर्वत्र समितीनां परिपूर्णत्वाभिधानेन सामस्त्यमुक्तम्, इह तु तासां सार्वत्रिकत्वमिति न पौनरुक्त्यम् ।
Jain Education International
-
मू. ( ११५६ ) वेयावच्चेणं भंते ० ?, तित्थयरनामगुत्तं कम्मं निबंधइ ॥
वृ.प्रतिरूपतायामपि वैयावृत्त्यादेव विशिष्टफलावाप्तिरित्येतदनन्तरं वैयावृत्त्यं, तत्र व्यावृतःकुलादिकार्येषु व्यापारवांस्तद्भावो वैयावृत्त्य तेन तीर्थकरनामगोत्रं कर्म निबन्धाति, उक्तं हि तद्धेतकीर्त्तनावसरे- 'वेयावच्चे समाही य'त्ति ।
मू. ( ११५७) सव्वगुणसंपन्नयाए णं भंते० ?, अपुनरावत्तिं, जणेइ, अपुनरावत्तिं पत्तए जं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ॥
वृ. वैयावृत्त्यवांश्च सर्वगुणभाजनं भवतीति सर्वगुणसंपन्नतामाह - सर्वगुणा ज्ञानादयस्तैः
For Private & Personal Use Only
www.jainelibrary.org