________________
१२०
उत्तराध्ययन-मूलसूत्रम्-२-२६/१०४४ ददाति वा प्रत्याख्यानमन्यस्मै, वाचयति-अपरं पाठयति, स्वयं प्रतीच्छति वा आलापादिकं गृह्णाति, य इति गम्यते, स किमित्याह-'पुढवी'ति स्पष्टं, नवरं 'पुढवीआउक्काय'त्ति पृथिव्यकाययो: 'प्रतिलेखनाप्रमत्तो' मिथ: कथादिना तत्रानवहितः सन् षनामपि, आस्तामेवैकादीनामित्यपिशब्दार्थः, विराधकश्चैवं-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि पलोढयेत्, ततस्तज्जलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, प्लावनातश्च विराध्यन्ते, यत्र चाग्निस्तत्रावश्यं वायुरिति वनामपि द्रव्यतो विराधकत्वं, भावतस्तु प्रमत्ततयाऽन्यथाऽपि विराधकत्वमेव, उक्तं हि
"इय दव्वओ उ छण्हं विराहतो भावतो इहरहावि।
उवउत्तो पुन साहू संपत्तीए वऽवहओ उ॥" तदनेन जीवरक्षार्थत्वाप्रतिलेखनायास्तत्काले च प्रमादजनकत्वेन हिंसाहेतुत्वान्मिथः कथादीनां परिहार्यत्वमुक्तम्। ___ इत्थं प्रथमपौरुषीकृत्यमुक्तं, तदनन्तरं द्वितीयपौरुषीकृत्याभिधानावसरः, तच्च "बीए झाणं झियायई" इति वचनेन ध्यानमुक्तम्, उभयं चैतदशवश्यकर्त्तव्यमतस्तृतीयापौरुषीकृत्यमप्येवमुत कारण एवोत्पन्ने? इत्याशङ्कयाह-'तइए'इत्यादि सुगम, नवरमौत्सर्गिकमेतत्, अन्यथा हि स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणं, तथा चाह-'सइकाले चरेभिक्खू'त्ति, पन्नां कारणानाम् 'अन्नयरायमि'त्ति अन्यतरस्मिन् कारणे 'समुत्थिते' संजाते, न तुकारणोत्पत्ति विनेति भावः, भोजनोपलक्षणं चेह भक्तपानगवेषणं, गुरग्लानाद्यर्थमन्यथाऽपि तस्य सम्भवात्, तथा चान्यत्र भोजन एवैतानि कारणान्युक्तानि, तान्येव षट् कारणान्याह___ 'वेयण वेयावच्चे'त्ति, सुब्व्यत्ययाद् वेदनाशब्दस्य चोपलक्षणत्वात्क्षुत्पिपासाजनितवेदनोपशमनाय, तथा क्षुप्तिपासाभ्यां(परिगतो)न गुर्वादिवैयावृत्त्यकरणक्षम इति वैयावृत्त्याय, तथा 'ईर्ये'त्ति ईर्यासमितिः सैव निर्जरार्थिभिरर्थ्यमानतयाऽर्थस्तस्मै, 'च:' समुच्चये, कथं नामासौ भवत्विति ?, इतरथा हि क्षुत्पिपसाभ्यां पीडितस्य चक्षुामपश्यतः कथमिवासौ स्यादिति?, तथा संयमार्थाय कथं नामासौ पालयितुं शक्यतामिति?, आकुलितस्य हि ताभ्यां सचित्ताहारे तद्विघात एव स्यात्, तथा 'पानवत्तियाए'त्ति प्राणप्रत्ययं जीवितनिमित्तम, अविधिना ह्यात्मत्तोऽपि प्राणोपक्रमणे हिंसा स्याद्, अत एवोक्तम्
'भावियजिनवयनानं ममत्तरहियाण नत्थि हु विसेसो।
अप्पाणंमि परंमि य तो वज्जे पीडमुभओऽवि॥" षष्ठं पुनरिदं कारणम्-यदुत धर्मचिन्तायै च, भक्तपानं गवेषयेदिति सर्वत्रानुवर्त्तते, अत्र च धर्मचिन्ता-धर्मध्यानचिन्ता श्रुतधर्मचिन्ता वा, इयं ह्यभयरूपाऽपि तदाकुलितचेतसो न स्यात्, आर्त्तध्यानसम्भवात्, इह च यद्यपि वेदनोपशमनादीनां शाब्द्या वृत्त्या तदुपलक्षितभोजनफलत्वेन प्रतीतिस्तथाऽपि तैविना तन्निषेधसूचनादा• वृत्त्या कारणत्वमेवैषामुपदर्शितं भवति, अत एव षष्ठमित्यत्र कारणमेव सम्बन्धितम्, आह-एतत्कारणोत्पतौ किमवश्यं भक्तपानगवेषणं कर्त्तव्यमुतान्यथेत्याह-'निर्ग्रन्थः' यतिः धृतिमान् धर्मचरणं प्रति 'निर्ग्रन्था' तपस्विनी साऽपि न कुर्याद्भक्तपानगवेषणमिति प्रक्रमः, ष्ड्भिश्चैव स्थानैः 'तुः' पुनरर्थे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org