________________
उत्तराध्ययन- मूलसूत्रम् - २-२६ / १०४२ पोरिसीए चउब्भाए, वंदित्ता न तओ गुरुं । पडिक्कमित्ता कालस्स, सिज्जं तु पडिलेह ॥ पासवणुच्चारभूमिं च, पडिलेहिज्ज जयं जई ॥
मू. ( १०४४/१)
वृ. पुव्विल्लेत्यादिसूत्राणि सप्तदश सार्द्धानि, तत्र सूत्रद्वयं व्याख्यातप्रायमेव, नवरं 'पूर्वस्मिश्चतुर्भागे' प्रथमपौरुषीलक्षणे प्रक्रमाद् दिनस्य प्रत्युपेक्ष्य 'भाण्डकं' प्राग्वद्वर्षाकल्पादि उपधिमादित्योदयसमय इति शेषः, द्वितीयसूत्रे च पौरुष्याश्चतुर्थभागेऽवशिष्यमाण इति गम्यते, ततोऽयमर्थः-पादोनपौरुष्यां भाजनं प्रतिलेखयेदिति सम्बन्धः, स्वाध्यायदुपरतश्चेत्कालस्य प्रतिक्रम्यैव कृत्यान्तरमारब्धव्यमित्याशङ्कयेतात आह-अप्रतिक्रम्य कालस्य, तत्प्रतिक्रमार्थं कायोत्सर्गविधाय, चतुर्थपौरुषयामपि स्वाध्यायस्य विधास्यमानत्वात् ।
प्रतिलेखनाविधिमेवाह-'मुखवस्त्रिकां' प्रतीतामेव 'प्रतिलेख्य' प्रतिलेखयेत् 'गोच्छकं' पात्रकोपरिवर्त्त्यपकरणं, ततश्च 'गोच्छगलइ अंगुलिउ 'त्ति प्राकृतत्वादंगुलिभिर्लातो-गृहीतो गोच्छको येन सोऽयमंगुलिलातगोच्छकः 'वस्त्राणि' पटलरूपाणि 'प्रतिलेखयेत्' प्रस्तावात्प्रमार्जयेदित्यर्थः ।
इत्थं तथाऽवस्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यत्कुर्यात्तदाह-'ऊर्ध्वं' कायतो वस्त्रतश्च, तत्र कायत उत्कृटुकत्वेन स्थितत्वात्, वस्त्रतश्च तिर्यक्प्रसारितवस्त्रत्वात्, उक्तं हिउक्कुडुतो तिरियं पेहे जा विलित्तो' 'स्थिरं' दृढग्रहणेन 'अत्वरितम्' अद्भुतं स्तिमितं यथाभवत्येवं 'पूर्वं' प्रथमं 'ता' इति तावद् 'वस्त्रं' पडलकरूपं, जातावेकावचनं, पटलकप्रकमेऽपि सामान्यवाचकवस्त्रशब्दाभिधानं वर्षाकल्पादिप्रत्युपेक्षणायामप्ययमेव विधिरिति ख्यापनार्थम्, एवशब्दो भिन्नक्रमस्तत: ‘पडिलेहि’त्ति 'प्रत्युपेक्षेतैव' आरतः परतश्च निरीक्षेतैव न तु प्रस्फोटयेत्, अथवा बिन्दुलोपाद् 'एवम्' अमुना ऊर्ध्वादिप्रकारेण प्रत्युपेक्षेत न त्वन्यथेति भावः, तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र संक्रमयमति, तददर्शने च 'तो' इति 'ततः ' प्रत्युपेक्षणादनन्तरं द्वितीयमिदं कुर्यात् यदुत परिशुद्धं सत् प्रस्फोटयेत् तत्प्रस्फोटनां कुर्यादित्यर्थः, तृतीयं च पुनरिदं कुर्यात् यदुत प्रमृज्यात्, कोऽर्थः ? - प्रत्युपेक्ष्य प्रस्फोटय च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः, कथं पुनः प्रस्फोटयेत्प्रमृज्याद्वेत्याह- 'अनर्तितं' प्रस्फोटनं प्रमार्जनं वा कुर्वतो वस्त्रं वर्पुवा यथा नर्त्तितं न भवति 'अवलितं' यथाऽऽत्मनो वस्स्य च वलितमिति मोटनं न भवति 'अनानुबंधि'न्ति 'अननुबन्धि' अनुबन्धेन-नैरन्तर्यलक्षणेन युक्तमनुबन्धि न तथा, कोऽर्थः?-अलक्ष्यमाणविभागं यथा न भवति, ‘आमोसलि' न्ति सूत्रत्वादामर्शवत्तिर्यगूर्ध्वमधो वा कुड्यदिपरामर्शवद्यथा न भवति, उक्तं हि "तिरिउड्डहघट्टणाऽऽमुसलि" ति, तथा किमित्याह- ' छप्पुरिम' त्ति षट् पूर्वाः पूर्वं क्रियमाणतया तिर्यक्कृतवस्त्रप्रस्फोटनात्मका क्रियाविशेषा येषु ते षट्पूर्वाः, ‘नवखोड' त्ति खोटकाः समयप्रसिद्धाः स्फोटनात्मकाः कर्त्तव्या इति शेषः 'पाणौ' पानितले 'प्राणिनां कुन्थ्वादिसत्त्वानां विशोधनं पाठान्तरतश्च- 'प्रमार्जनं' प्रस्फोटनं त्रिकत्रिकोत्तरकालं त्रिकत्रकसङ्ख्यं पाणिप्राणिविशोधनं पाणीप्राणिप्रमार्जनं वा कर्तव्यं ।
प्रतिलेखनादोषपरिहारार्थमाह-आरभटा विपरीतकरणमुच्यते त्वरितं वाऽन्यान्यवस्त्रग्रहणेनसौ भवि, उक्तं हि-‘“वितहकरणमारभडा तुरियं वा अन्नमन्नगहणेणं' संमर्दनं समर्दा रूढित्वा
११८
मू. (१०४३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org