________________
अध्ययनं-२६,[ नि. ४९०]
११३ शानादिद्रव्यविशेषेण प्राग्गृहीतेनेति गम्यते, सूचकत्वात्सूत्रस्य, तथा चाह-"पुव्वगहिएण छंदणं'ति, इच्छास्वकीयोऽभिप्रायस्तया करणं-तत्कार्यनिर्वर्तनमिच्छाकारः, 'सारणे' इत्यौचित्यत आत्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने, तत्रात्मसारणे यथेच्छाकारेण युष्मच्चिकीर्षितं कार्यमिदमहं करोमीति, अन्वाह च-"अहगं तुब्भं एयं करेमि कज्जं तु इच्छाकारेणं'ति, अन्यसारणे च मम पात्रलेपनादि सूत्रदानादि वा इच्छाकारेण कुरुतेति, तथा चान्वाह
"जेइ अब्भत्थिज्ज परं कारणजाए करेज्ज से कोइ।
तत्थवि इच्छाकारो न कप्पइ बलाभिओगो उ॥" तथा मिथ्येत्यलीकं मिथ्याकरणं मिथ्याकार:-मिथ्येदमिति प्रतिपत्तिः, सा चात्मनो निन्दा-- जुगुप्सा तस्यां, वितथाचरणे हि धिगिदं मिथ्या मया कृतमिति निन्द्यत एवात्मा विदितजिनवचनैः, तथाकरणं तथाकार:-इदमित्थं चैवेत्युभ्युपगमः, स च किं विषयः इत्याह-प्रतिश्रवणं प्रतिश्रुतंगुरौ वाचनादिकं यच्छत्येवमेतदित्यभ्युपगमस्तस्मिन्, तथा चान्वाह
__ "वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए।
___ अवितहमेयंति तहा अविकप्पेणं तहक्कारो॥" अभीत्याभिमुख्येनोत्थानम्, उद्यमनमभ्युत्थानं तच्च 'गुरुपूय'त्ति सूत्रत्वाद् गुरुपूजायां, सा च गौरवार्हाणाम्-आचार्यग्लानबालादीनां यथोचिताहारभेषजादिसम्पादनम्, इह च सामान्याभिधानेऽप्यभ्युत्थानं निमन्त्रणारूपमेव परिगृह्यते, अत एव नियुक्तिकृतैतत्स्थाने निमन्त्रणैवाभिहिता 'छंदणा य निमंतणे'ति, तथा 'अच्छणे'त्ति आसने प्रक्रमादाचार्यान्तरादिसन्निधौ अवस्थाने उप-सामीप्येन सम्पादनं-गमनं सम्पदादित्वात्क्विपि उपसंपद्-इयन्तं कालं भवदन्तिके मयाऽऽसितव्यमित्येवंरूपा, इयं च ज्ञानार्थतादिभेदेन त्रिधा, तथा चोक्तम्"उवसंपया यतिविहा नाने तहदंसणे चरित्ते य"त्ति एवम्' इत्युक्तप्रकारेण 'दुपंचसंजुत्त'त्ति आर्षत्वात् द्विपञ्चकसंयुक्तां दशसंख्यायुक्तामित्यर्थः, सामाचारी 'प्रवेदयेत्' कथयेत् आर्षत्वाद् गुरुः शिष्यायेति शेषः, अनेन च गुरुणा सदा तदुपदेशपरैणैव भवितव्यमित्यर्थत उक्तं, पठ्यते च-'एसा दसंगा साहूणं, सामायारी पवेइय'त्ति, एतच्च स्पष्टमिति सूत्रत्रयार्थः॥
एतावता दशविधसामाचारीमभिधायौधसामाचारी विवक्षुरिदमाहमू. (१०१४) पुविलंमि चउब्भागे, आइच्चमि समुहिए।
भंडतं पडिलेहित्ता, वंदित्ता य तओ गुरुं। मू. (१०१५) पुच्छिज्जा पंजलिउडो, किं कायव्वं मए इहं? ।
इच्छं निओइउं भंते !, वेयावच्चे व सज्झाए॥ मू.(१०१६) वेयावच्चे निउत्तेणं, कायब्वमगिलायओ।
सज्झाए वा निउत्तेणं, सव्वदुक्खविमुक्खणे॥ वृ. 'पुव्विल्लंमि'त्ति पूर्वस्मिश्चतुर्भागे आदित्ये 'समुत्थिते' समुद्गते, इह च यथा दशाविकलोऽपि पटः पट एवोच्यते, एवं किञ्चदूनोऽपि चतुर्भागश्चतुर्भाग उक्तः, ततोऽयमर्थःबुद्धा नभश्चतुर्धा विभज्यते, तत्र पूर्वदिक्संबुद्धे किञ्चिदूननभश्चतुर्भागे यदादित्यः समुदेति 29/8
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org