________________
११०
उत्तराध्ययन- मूलसूत्रम् - २ - २५ / १००४ तु छत्रचामराद्यलङ्काररूपां किमित्याह- 'अनुचरन्ति' पर्यटन्ति साधव इति प्रक्रमः 'भिक्षायै 'भिक्षार्थं, किमिति ? - श्रमणस्य तुरिति यस्मात् 'मुक्तस्य' निःसङ्गस्य, अकारोऽलाक्षणिकः, भिक्षेत्युषलक्षणत्वाद्भित्राचार्या 'चरणं च ' व्रतादि चरणहेतुत्वेन 'करणं च ' पिण्डविशुद्धादिहेतुत्वेन, ततो विहितानुष्ठानरूपत्वाद्राजर्षिभिरपि सेवितत्वाच्च भिक्षाचर्यायास्तद्विधानार्थमहमिहायातो, भवांस्तु ददातु मा वा भिक्षामिति भावः । 'संजानन्' प्रत्यभिजानानः 'पकामाए'त्ति आर्षत्वात्प्रकामम्-अत्यर्थं ।
'धर्मचरणेन' धर्मानुष्ठानेन भवेति गम्यते । 'सः' इति विजयघोषः सह मनसा चित्तेन वर्त्तत इति समनाः, किमुक्तं भवति ? - भावतो न तु बहिर्वृत्त्यैव तस्य श्रामणस्यान्तिक इति गम्यत इति निर्युक्तिगाथानवकार्थः ।
'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ॥ अध्ययनं - २५- समाप्तम्
मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे पञ्चविंशतितममध्ययनं सनिर्युक्तिः सटीकं समाप्तम्
अध्ययनं - २६ - सामाचारी
नि. [ ४८५ ]
.वृ. व्याख्यातं यज्ञीयाभिधानं पञ्चविंशमध्ययनम्, अधुना षट्विंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने ब्रह्मगुणा उक्ताः, तद्वांश्च यतिरेव भवति, तेन चावश्यं सामाचारी विधेयेति साऽस्मिन्नभिधीयते इत्यभिसम्बन्धागतस्यास्योपक्रमादि प्राग्वत्प्ररूप्यं यावन्नामनिष्पन्ननिक्षेपे सामाचारीति नाम, अतः साम आचार इति च निक्षेप्तव्यमित्यभिप्रायेणाह नियुक्तिकृत्नि. [ ४८४] निक्खेवो सामंमि (य) चउव्विहो दुव्विहो होइ दव्वंमि । आगमनोआगमओ नोआगओ य सो तिविहो । जागरभवितव्वइरित्ते अ सक्कराईसुं । भावंमि दसविहं खलु इच्छामिच्छाइअं होइ ॥ इच्छो मिच्छा तहक्कारो आवस्सिआ अ निसीहिआ । आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा । उवसंपया य काले सामायारी भवे दसविहा उ । एएसि तु पयाणं पत्तेय परूवणं वुच्छं ॥ आयारे निक्खेवो चउक्कओ दुव्वि० ॥ जाणगसरीरभविए तव्वइरित्ते य नामणाईसुं । भावमि दसविहाए सामायारीइ आयरणा ॥
नि. [ ४८६ ]
"
नि. [ ४८७ ]
नि. [ ४८८ ]
नि. [ ४८९ ]
वृ. निक्खेवोइत्यादि गाथाः षट् प्रायः प्रतीतार्थाः, सूत्रव्याख्याने च काश्चिद्व्याख्यास्यन्ते, नवरं 'तद्व्यतिरिक्तं च' ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यसाम शर्करादिषु, आदिशब्दात्क्षीरादिपरिग्रहः, ततश्च शर्कराक्षीरदधिगुडादीनां यत्परस्परमविरोधेन व्यवस्थानं, भावे साम दशविधं ‘खलुः' अवधारणे दशविधमेवेच्छामिथ्यादिकं सामाचारीस्वरूपमिति गम्यते,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International