________________
७७
अध्ययनं-२,[ नि. ८६] डीपि स्त्री सैव तद्गतरागहेतुगतिविभ्रमेङ्गिताकारविलोकनेऽपि
त्वगुरुधिरमांसभेदस्त्रय्वस्थिराव्रणैः सुदुर्गन्धम् ।
- कुचनयनजघनवदनोरुमूच्छितो मन्यते रूपम् ॥१॥ (तथा) निष्ठिवितं जुगुपसत्यधरस्थं पिबति मोहितः प्रसभम्।
कुचजघनपरिश्रावं नेच्छति तन्मोहितो भजने ।।२।। इत्यादि भावनातोऽपिभिधास्यमाननीतितश्च परिषह्यमाणत्वात्परीषहः स्त्रीपरीषह: ८, चरणं चर्या-ग्रामानुग्रामं विहरणात्मिका सैव परीषहः चर्यापरीषह: ९, निषेधनं निषेधः पापकर्मणां गमनादिक्रियायाश्च स प्रयोजनमस्या नैषेधिको-स्मशानादिका स्वाध्यायादिभूमिः निषेधेतियावत् सैव परीषहो नैषेधिकीपरीषह: १०, तथा शेरतेऽस्यमिति शय्या-उपाश्रयः सैव परीषह: शय्यापरीषहः ११, आक्रोशनमाक्रोशः-असत्यभाषात्मकः स एव परीषहः आक्रोशपरीषहः १२, हननं वधः-ताडनं स एव परीषहो वधपरीषहः १३, याचनं याज्वा प्रार्थनेत्यर्थः, सैव परीषह: याञ्चापरीषहो १४, लभनं लाभो न लाभोऽलाभ:-अभिलषितविषयाप्राप्तिः स एव परीषह: अलाभपरीषहः १५, रोग:-कुष्ठादिरूपः स परीषहो रोगपरीषहः १६, तरन्तीति तृणानि, औणादिको नक् इस्वत्वं च, तेषां स्पर्शः तृणस्पर्शः स एव परीषहस्तृणस्पर्शपरीषह: १७, जल्ल इति मलः स एव परीषहो जल्लपरीषहः १८, - सत्कारोवस्त्रादिभिः पूजनं पुरस्कार:-अभ्युत्थानासनादिसम्पादनं, यद्वा सकलैवाभ्युत्थानाभिवादनदानादिरूपा प्रतिपत्तिरिहसत्कारस्तेन पुरस्करणं सत्कारपुरस्कारः ततास्तावेव स एव वा परीषहः सत्कारपुरस्कारपरीषहः १९, प्रज्ञापरीषह: अज्ञानपरीषहश्च प्राग्भाविताौँ , नवरं प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा-स्वयंविमर्शपूर्वको वस्तुपरिच्छेदः तथा ज्ञायते वस्तुतत्त्वमनेनेति ज्ञानं-सामान्येन मत्यादितदभावोऽज्ञानं २०-२१, दर्शनं-सम्यग्दर्शनं तदेव क्रियादिवादिना विचित्रतमश्रवणेऽपि सम्यक् परीषह्यमाणं-निश्चलचित्ततया धार्यमाणं परीषहो दर्शनपरीषहः, यद्वा दर्शनशब्देन दर्शनव्यामोहहेतुरैहिकामुष्मिकफलानुपलम्भादिरिह गृह्यते, ततः स एव परीषहो दर्शनपरीषहः २२ ॥ इत्थं नामतः परीषहानभिधाय तानेव स्वरूपतोऽवक्ष्यतेमू. (५०) परीसहाणं पविभत्ती, कासवेण पवेइया।
तंभे उदाहरिस्स्मि, आनुपुचि सुणेह मे। वृ.'परीषहाणाम्' अनन्तरोक्तनाम्नां 'प्रविभक्तिः' प्रकर्षण-स्वरूपसम्मोहाभावलक्षणेन विभाग:-पृथक्ता काश्यपेन' काश्यपगोत्रेण महावीरेणेतियावत्, ‘प्रवेदिता' प्ररूपिता 'ता'मिति काश्यपप्ररूपितां परीषहप्रविभक्तिं 'भे' इति भवताम् 'उदाहरिष्यामि' प्रतिपादयिष्वामि' 'आनुपूर्व्या क्रमेण शृणुत 'मे' मम प्रक्रमादुदाहरतः, शिष्यादरख्यापनार्थंच काश्यपेन प्रवेदितेति वचनमिति सूत्रार्थ : ॥ इह चाशेषपरीषहाणां क्षुत्परीषह एव दुःसह इत्यादितस्तमाहमू. (५१) दिगिछपरियावेण, तवस्सी भिक्खु थामवं।
न छिदे न छिंदावए, न पए न पयावए। वृ.दिगिञ्छा-उक्तरूपा तया परिताप:-सर्वाङ्गीणसन्तापो दिगिञ्छापरितापस्तेन, छिदादिक्रियापेक्षा हेतौ तृतीया, पाठान्तरं 'दिगिछापरिगते' बुभुक्षाव्याप्ते 'देहे' शरीर सति, तपोऽस्या
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org