________________
४२
उत्तराध्ययन-मूलसूत्रम्-१-१/१ संयुक्तसंयोगस्तु प्रायो निष्पन्नद्रव्यविषयः, निष्पन्नं हि मूलादिरूपेण वृक्षादिद्रव्यं कन्दादिना युज्यते, इत्यस्त्यनयोविशेष इति गाथार्थः ॥ इत्थं सम्बन्धसंयोगः स्वरूपत उक्तः, सम्प्रति तस्यैव फलतः प्ररूपणापूर्वकं विप्रमुक्तस्येति प्रकृतसूत्रपदं व्याख्यानयन् यथा ततो विप्रमुक्ता भवन्ति यच्च तेषां फलं तदाहनि.[६२] संबंधनसंजोगो संसारओ अनुत्तरणवासो।
तं छित्तु विप्पमुक्का माइपिइसुआइ य हवंति ॥ वृ. 'सम्बन्धसंयोगः' उक्तरूपः, संसरन्त्यस्मिन् कर्मवशवर्तिजन्तवइति संसारस्तस्मात्, न विद्यते उत्तरणं-पारगमनमस्मिन् सतीत्यनुत्तरणः,सचासौ वासश्च-अवस्थानमनुत्तरणवासः, अनुत्तरणवासहेतुत्वादायुघृतमित्यादिवदनुत्तरणवासः, अथवा 'अनुत्तरणवासो'त्ति आत्मनः पारतन्त्रयहेतुतया पाशवत् पाशः, ततोऽनुत्तरणश्चासौ पाशश्च अनुत्तरणपाशः, उभयत्र च सापेक्षत्वेऽपिगमकत्वात् समासः, अनेन संसारावस्थिति: पारवश्यं वा सम्बन्धसंयोगस्यार्थतः फलमुक्तं, 'तम्' एवंविधं सम्बन्धसंयोगम्, अर्थादौदयिकभावविषयं मात्रादिविषयं च 'छित्त्वा' द्विधा विधाय निर्णश्येतियावत्, किमित्याह-विप्रमुक्ताः, श्रुतत्वादनन्तोक्तसम्बन्धनसंयोगादेव, के ते?,-'साधवः' अनगाराः, येनैवं तेन किमित्याह-मुक्ताः 'ततः' संसारात्, तद्धेतकत्वात्तस्य, 'तेन' हेतुना, अनेन च गाथापश्चार्धन सम्बन्धच्छेदनलक्षणेन प्रकारेण विप्रमुक्ता भवन्ति, तेषां च फलं मुक्तिरित्यर्थत उक्तं भवति । यच्च विप्रमुक्तस्येत्येकत्वप्रक्रमेऽपि विप्रमुक्ता इतीह बहुवचनं तदेवंविधभिक्षोः पूज्यत्वख्यापनार्थमिति गाथार्थः॥ ___ एवं संजोगे निक्खेवो' इत्यादिमूलगाथोपक्षिप्तसंयुक्तकसंयोगेतरेतरसंयोगभेदतो द्विविधं द्रव्यसंयोगं निरूप्यं तत्र संयुक्तकसंयोगं सचित्तादिभेदतस्त्रिविधम् इतरेतरसंयोगंतं परमाणुप्रदेशाभिप्रेतानाभिप्रेताभिलापसम्बन्धनविधानतः षड्विधमभिधाय सम्बन्धसंयोग एव च साक्षात् कर्मसम्बनिबन्धनतया संसारहेतुरिति तत्त्याज्यतां च सम्प्रति तत्प्रतिपादनत एवान्यदुक्तप्रायमिति मन्वानः क्षेत्रादिनिक्षेपमविशिष्टमतिदेष्टमाहनि.[६३] संबंधणसंजोगे खित्ताईणं विभास जा भणिया।
खित्ताइसु संजोगो सो चेव विभासियव्वो अ(उ)॥ वृ. सम्बन्धसंयोगे क्षेत्रादीनाम्, आदिशब्दात् कालभावपरिग्रहः, विविध-आदेशानामदेशादिभेदादनेकभेदा भाषा विभाषा, या इति प्रस्तुतपरामर्शः, भणिता' अभिहिता, क्षेत्रादिषु' क्षेत्रादिविषयः संयोगः प्रथमद्वारगाथासूचितः, स चैव विभाषितव्यः, 'तुः पूरणे, संयोगत्वं चात्र विभाषाया वचनरूपत्वाद्वचनपर्यायाणां कथञ्चिद्वाच्यादभेदख्यापनार्थमुक्तं, ततोऽयमर्थ:सम्बन्धनसंयोगविषयक्षेत्रादिविभाषायां यत्संयोगस्वरूपमुक्तम्, इहापि तदेव वक्तव्यं, चकारस्यानुक्तसमुच्चयार्थत्वात्, संयुक्तसंयोगः सम्भवन्त इतरेतरसंयोगशेषभेदाश्च वाच्याः, तत्र क्षेत्रस्य संयुक्तकसंयोगो यथा-जम्बूद्वीपः स्वप्रदेशसंयुक्तक एव लवणसमुद्रेण युज्यते, इतरेतरसंयोगः क्षेत्रप्रदेशानामेव परस्परं धर्मास्तिकायादिप्रदेशैर्वा संयोगः, एवं कालभावयोरपि नेयमिति गाथार्थः।। इह चोक्तनीत्या सम्बन्धसंयोग एव साक्षादुपयोगी, इतरेषां तु तदुपकारितया तेषामपि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org