SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - १६, [ नि. ३८५ ] सर्वकालं, मू. (५३०) कदाचित्कारणतोऽतिमात्रस्याप्याहारस्यादुष्टत्वात् ॥ विभूसं परिवज्जिज्जा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए । वृ. 'विभूषाम्' उपकरणगता भुत्कृष्टवस्त्राद्यात्मिकां 'परिवर्जयेत्' परिहरेत् 'शरीरपरिमण्डनं' केशश्मश्रुसमारचनादि ब्रह्मचर्यरतो भिक्षुः 'शृङ्गारार्थे' विलासार्थं 'न धारयेत्' न स्थापयेत् न कुर्यादितियावत् ॥ मू. (५३१ ) सद्दे रूवे य गंधे य, रसे फाले तहेव य । पंचविहे कामगुणे, निच्चसो परिवज्जए ॥ वृ. 'सदे' सूत्रं स्पष्टमेव, नवरं कामः - इच्छामदनरूपस्तस्य द्विविधस्यापि गुणाः - साधनभूता उपकारका इतियावत्, उक्तं हि - 'गुणः साधनमुपकारकं' कामगुणास्तानेवंविधान् शब्दादीनिति सूत्रदशकार्थः ॥ सम्प्रति यत्प्राक् प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तदृष्टान्ततः स्पष्टयितुमाहमू. (५३२ ) आलओ थीजणाइन्नो, थीकहा य मनोरमा । संथवो चेव नारीणं, तासि इंदियदरिसणं ॥ कुइयं रुइयं गीयं, हसियं भुत्तासियाणि य । पनीयं भत्तपानं च, अइमायं पानभोयणं । गत भूसणमिट्टं च, कामभोगा य दुज्जया । नरस्सऽ तगवेसिस्सा, विसं तालउडं जहा ॥ मू. (५३३ ) मू. ( ५३४ ) वृ. नवरं 'संस्तव:' परिचयः, स चेहाप्येकासनभोगेनेति प्रक्रमः, कूजितादीनि हसितपर्यन्तानि कुड्यन्तराद्यवस्थितिनिषेधोपलक्षणानि, भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि - भोगरूपाणि आसितानि - स्त्र्यादिभिरेव सहावस्थितानि, हास्याद्युपलक्षणं चैतत्, गात्रभूषणमिष्टं चेति, चशब्दोऽपिशब्दार्थः, तत इष्टमप्यास्तां विहितं, तथा काम्यन्त इति कामाः भुज्यन्त इति भोगाः विशेषणसमासस्ते चेष्टाः शब्दादयः, नरस्योपलक्षणत्वात्स्त्र्यादेश्च आत्मगवेषिणः ‘विषं' गरल: ‘तालपुटं' सद्योघाति यत्रौष्ठपुटयन्तर्वर्त्तिनि तालमात्रकालविलम्बतो मृत्युरुपजायते, 'यथे' त्यौषभ्ये, ततोऽयमर्थः - यथैतद्विपाकदारुणं तथा स्त्रीजनाकीर्णालयाद्यपि, शङ्कादिकरणत: संयमात्मकभावजीवितस्येतरस्य च नाशहेतुत्वादिति सूत्रत्रयार्थः ॥ सम्प्रति निगमयितुमाहमू. (५३५) ३६७ दुज्जए कामभोगे य, निच्चसो परिवज्जए । संकाठाणाणि सव्वाणि, वज्जिज्जा पणिहाणवं ॥ Jain Education International वृ. दुःखेन जीयन्त इति दुर्जयास्तान्, 'कामभोगान्' उक्तरूपान् 'निच्चसो' त्ति नित्यं 'परिवर्जयेत्' सर्वप्रकारं त्यजेत् 'शङ्कास्थानानि च' अनन्तरोक्तानि पूर्वत्र चस्य भिन्नक्रमत्वात् 'सर्वाणि' दशापि वर्जयेद्, अन्यथा आज्ञाऽनवस्थामिथ्यात्वविराधनादोषसम्भवः 'प्रणिधानवान्' एकाग्रमनाः। एतद्वर्जकश्च किं कुर्यादित्याह मू. (५३६ ) धम्मारामे चरे भिक्खू, धिइमं धम्मसारही । For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy