SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३६५ अध्ययनं-१६,[ नि. ३८५ ] निग्गंथस्स खलु सदरूवरसगंधफासाणुवाइयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वालभिज्जा उम्मायं वा पाउनिज्जा दीहकालीयंवा रोगायंकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे सद्दरूवरसगंधफासाणुवाई हवइ से निग्गंथे, दसमे बंभचेरसमाहिठाणे हवइ॥ . वृ. 'नो' नैव शब्दो-मन्मनभाषितादि रूपं-कटाक्षनिरीक्षणादि चित्रादिगतं वा स्त्र्यादिसम्बन्धि रसो-मधुरादिरभिबृहणीयो गन्धः-सुरभिः स्पर्शः-स्पर्शनानुकूल: कोमलमृणालादेरेतानभिष्वङ्गहेतून् अनुपतति-अनुयातीत्येवंशीलः शब्दरूपरसगन्धस्पर्शानुपाति भवति यः स निर्ग्रन्थः । तत्कथमिति चेदित्यादि सुगम, दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनम् । इह च प्रत्येकं स्त्र्यादिसंसक्तशयनादेः शङ्कादिदोषदर्शनं तदत्यन्तदुष्टतादर्शकं प्रत्येकमपायहेतुतां प्रति तुल्यबलत्वख्यापकं चेति सूत्रार्थः ।। [भवन्ति य इत्थ सिलोगा, तंजहा-] 'भवन्ति' विद्यन्ते 'अत्रे'ति उक्त एवार्थे, किमुक्तं भवति?-उक्तार्थाभिधायिनः श्लोकाः' पद्यरूपाः, 'तद्यथा' इत्युपप्रदर्शने । मू.(५२२) जंविवित्तमणाइन्न, रहियं थीजनेन य। बंभचेरस्स रक्खट्ठा, आलयं तु निसेवए। वृ. जमित्यादिसूत्राणि दश। यः 'विविक्तः' रहस्यभूतस्तत्रैव वास्तव्यस्त्र्याद्यभावाद् 'अनाकीर्णः' असंकुलस्तत्तत्प्रयोजनागतस्त्र्याधनाकुलत्वात्, 'रहितः' परित्यक्तोऽकालचारिणा वन्दन श्रवणादिनिमित्तागतेन स्त्रीजनेन, चशब्दात्पण्डकैः षिड्गादिपुरुषैश्चः प्रक्रमापेक्षया चैवं व्याख्या, अन्यत्रापि चैवं प्रक्रमाद्यपेक्षत्वं भावनीयम्, उक्तं हि-"अर्थात् प्रकरणाल्लिङ्गादौचित्याद्देशकालतः । शब्दार्थाः प्रविभज्यन्ते, नशब्दादेव केवलात्॥ ब्रह्मचर्यस्य' उक्तरूपस्य 'रक्षार्थ' पालननिमित्तम् 'आलयः' आश्रयः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, यत्तदोनित्यसम्बन्धात्तं 'तुः' पूरणे 'निषेवते' भजते॥ मू.(५२३) मनपल्हायजननी, कामरागविवड्डणी। बंभचेररओ भिक्खू, थीकहंतु विवज्जए । वृ.मनः-चित्तं तस्य प्रल्हाद: अहो! अभिरूपाएता इत्यादिविकल्पज आनन्दस्तंजनयतीति मनःप्रह्लादजनी ताम्, अत एव कामरागो-विषयाभिष्वङ्गस्तस्य विवर्द्धनी-विशेषेण वृद्धिहेतुः कामरागविवर्द्धनी तां, शेषं स्पष्टं, नवरं, 'स्त्रीकथां' "तद्वकं यदि मुद्रिता शशिकथा" इत्यादिरूपां॥ मू. (५२४) समं च संथवं थीहिं, संकहं च अभिक्खणं। बंभचेररओ भिक्खू, निच्चओ परिवज्जए॥ वृ. 'समंच' सह संस्तवं' परिचयं स्त्रीभिर्निषद्या प्रक्रमादेकासनभोगेनेति गम्यते, संकथां च' ताभिरेव समं सन्ततभाषणोत्मिकाम् 'अभीक्ष्णं' पुनः पुन 'निच्चसो'त्ति नित्यमन्यत्स्पष्टम्।। मू.(५२५) अंगपच्चंगसंगणं, चारुल्लवियपेहियं । बंभचेररओ थीणं, सोअगिज्झं विवज्जए॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy