________________
३६२
उत्तराध्ययन-मूलसूत्रम्-१-१६/५१२ स्त्र्यादिभिरत्यन्तापहृतचित्ततया विस्मृतसकलप्तोपदेशस्य
"सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः ।
अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः ।।" इत्यादिकुविकल्पान् विकल्पयतो मिथ्यात्वोदयतः कदाचिदेतत्परिहार एव न तीर्थकृद्भिरुक्तो भविष्यति, एतदासेवने वा यो दोष उक्तः स दोष एव न भवीत्येवंरूप: संशय उत्पद्यते, काङ्क्षा वा तत एव हेतोः
"प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरे: ?।।
प्राप्यते येन निर्वाणं, सरागेणापि चेतसा।।" इत्याद्यभिधायकान्यान्यनीलपटादिदर्शनाग्रहरूपा, विचिकित्सा वा-धर्म प्रतिकिमेतावतः कष्टानुष्ठानस्य फलं भविष्यति न वा? तद्वरमेतदासेवनमेवास्त्वित्येवंरूपा, 'भेदं' वा विनाशं चारित्रस्येति गम्यते, 'लभेत, प्राप्नुयात्, 'उन्मादं वा' कामग्रहात्मकं प्राप्नुयात् स्त्रीविषयाभिलाषातिरेकतस्थाविधचित्तविप्लवसंभवात् 'दीर्घकालिकं वा' प्रभूतकालभावि रोगश्चदाहज्वरादिरातङ्कश्च-आशुघाती शूलादि रोगातङ्कं भवेत्' स्यात्, संभवति हि त्याद्यभिलाषातिरेकतोऽरोचकत्वं ततश्च ज्वरादीनि, केवलिप्रज्ञप्तात्, 'धर्मात्' श्रुतचारित्ररूपात् समस्ताद् 'भ्रश्येत्' अधः प्रतिपतेत्, कस्यचिदतिक्लिष्टकर्मोदयात्सर्वथा धर्मपरित्यागसम्भवात्, यत एवं तस्मादित्यादिनिगनवाक्यं प्रकटार्थमेवेति सूत्रार्थः ।। उक्तं प्रथमं समाधिस्थानं द्वितीयमाह
मू. (५१३) नो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमिती चेदायरियाऽऽहनिग्गंथस्स खलु इत्थीणं कहं कहेमानस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दोहकालीयं वा रोगायंकं हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो इत्थीणं कहं कहिज्जा।
वृ. नो स्त्रीणामेकाकिनीनामिति गम्यते, 'कथा' वाक्यप्रबन्धरूपा, यदिवा स्त्रीणां कथा,'कर्णाटी सुरतोपचारचतुरा लाटी विदग्घप्रिया' इत्यादिका, अथवा जातिकुलरूपनेपथ्यभेदाच्चतुर्धा स्त्रीकथा, तत्र जातिर्ब्राह्मण्यादि: कुलम्-उग्रादि रूपं-महाराष्ट्रिकादि संस्थानंतत्तद्देशप्रसिद्धं, तां कथयिता भवति ‘से निग्गंथे'त्ति य एवंविधः स निर्ग्रन्थः ।
शेषं प्रश्नप्रतिवचनाभिधायि पूर्ववदिति सूत्रार्थः ।। तृतीयमाहमू. (५१४) नो इत्थीहिं सद्धिं संनिसिज्जागए विहरित्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाह-निग्गंस्स खलु इत्थीणं सद्धिं संनिसिज्जागयस्स बंभयारिस्स बंभचेरे संका वा कंखावा वितिगिच्छा वा समुप्पज्जिज्जा भेयं वा लभिज्जा उम्मायं वा पाउनिज्जा दीहकालीयं वा रोगायंकं हविज्जा केवलिपन्नताओ वा धम्माओ भंसिज्जा, तम्हा नो निग्गंथे इत्थीहिं सद्धिं संनिसिज्जागए विहरइ॥ । वृ.नो स्त्रीभिः 'सार्द्ध' सह सम्यग् निषीदन्ति-उपविशन्त्यस्यामिति संनिषद्या-पीठाद्यासनं तस्यां गतः-स्थितः संनिषद्यागतः सन् 'विहर्ता' अवस्थाता भवति, कोऽर्थः ? -स्त्रीभिः सहैकासने नोपविशेत्, उत्थितास्वपि हितासु मुहूर्त तत्र नोपवेशव्यमिति सम्प्रादयः, य एवंविधः स निर्ग्रन्थः, न त्वन्य इत्यभिप्रायः, शेषं प्रश्नप्रतिवचनाभिधायि पूर्ववदिति सूत्रार्थः॥ चतुर्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org