SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - १६, [ नि. ३७९ ] इति वा इहाभिधीयन्ते इत्यनेन सम्बन्धनायातस्यास्याध्ययनस्य चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे दशब्रह्मचर्यसमाधिस्थानमिति नाम, ततो दशादिपदानां पञ्चानां निक्षेपः कर्त्तव्यः, तत्र च नैककाद्यभावे दशसम्भव इत्येककनिक्षेपमाह निर्युक्तिकृत्नि. [ ३७९ ] नामंठवणादविएमाउयपयसंगहेक्कए चेव । पज्जव भावे अ तहा सत्तेए इक्कगा हुंति ।। वृ. एतदर्शस्तु चतुरङ्गीयाध्ययन एव कथित इति न प्रतन्यते । एतदनुसारतश्च द्वयादिनिक्षेपः सुकर एवेति तमुपेक्ष्यैव दशनिक्षेपमाह नि. [ ३८० ] दससु अ छक्को दव्वे नायव्वो दसपएसिओ खंधो। ओगाहणाठिईए नायव्वो पज्जवदुगे अ । वृ. दशसु च निक्षेप्तव्येषु पट्को निक्षेप इति गम्यते, स च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, तत्र नामस्थापने क्षुत्रे, 'दव्वे 'त्ति द्रव्यविषयेषु दशसु विचार्यमानेषु 'ज्ञातव्य: ' अवगन्तव्यः दश प्रदेशा: परिमानमस्येति दशप्रदेशिक : स्कन्धो दशोच्यते, दशपरमानुद्रव्यनिष्पन्नत्वात्, तथा ‘ओगाहणाट्टिईए 'त्ति स्कन्ध एवावगाहनायां चिन्त्यमानः प्रक्रमाद्दशप्रदेशावगाढः क्षेत्रदशोच्यते, 'स्थितौ च दशसमयस्थितिकः स एव कालदशोच्यते, उपलक्षणं चैतत्सर्वं, यत आह चूर्णिकृत्-"द्रव्यदश दश सचित्तादीनि द्रव्याणि, क्षेत्रदश दशाकाशप्रदेशाः, कालदश दश समया इति ज्ञातव्याः " 'पज्जव'त्ति पर्याया दशसङ्ख्यत्वेन विवक्षिता भावदश (क्षये) (क्वये) पर्याया इत्याह- 'द्विकेच' जीवाजीवरूपे 'च: ' पूरणे, तत्र जीवपर्याया विवक्षया कषायादयः, अजीवपर्यायाश्च पुद्गलसम्बन्धिनो वर्णादय इति । इदानीं ब्रह्मनिक्षेपमाह-बंभंमि उ चउक्कं ठवणाबंभंमि बंभणुप्पत्ती । दव्वंमि वत्थिनिग्गहु अन्नाणीणं मुणेयव्वो । भावे उ वत्थिनिग्गहु नायव्वो तस्स रक्खणट्ठाए। ठाणाणि तानि वज्जिज्ज जाणि भणियाणि अज्झयणे ॥ नि. [ ३८१ ] नि. [ ३८२ ] वृ. 'बंभंमि उ' त्ति ब्रह्मणि पुनर्विचार्ये 'चउक्कं 'ति चतुष्को नामस्थापनाद्रव्यभावभेदान्निक्षेप इति गम्यते, तत्र नामब्रह्म यस्य ब्रह्मेति नाम, स्थापनाब्रह्मणि ब्राह्मणोत्पत्तिर्वक्तव्या, यथाऽऽचारनाम्नि प्रथमाङ्गे "एका मणूसजाई रज्जुप्पत्तीय दो कया उसभे । तिन्नि य सिप्पवणिए सावगधम्मंमि चत्तारि ॥" ३५९ इत्यादिना निर्युक्तिकृताऽभिहिता, 'द्रव्ये बस्तिनिग्रहः' उपस्थनिरोधमात्रम् 'अज्ञानिनां' मिथ्यादृशां दशब्रह्मचर्यसमाधिस्थानावगमशून्यानां 'मुणितव्यः' प्रतिज्ञातव्यो ब्रह्मेति प्रक्रमः, 'भावे उ'ति भावे पुनर्विचार्ये बस्तिनिग्रहो 'ज्ञातव्यः' अवगन्तव्यः, कस्य सम्बन्धीत्याह‘तस्य' इति ब्रह्मणो ‘रक्षणार्थाय' रक्षणप्रयोजनाय 'स्थानानि' विविक्तशयनासनसेवनादीनि तानि 'वर्जयेत्' परिहरेद्यस्तस्येति प्रक्रमः, स च ज्ञान्येव, तानि कानीत्याह- यानि 'भणितानि ' उक्तानि 'अध्ययने' इहैव प्रक्रान्त इति गाथाद्वयार्थः ॥ चरणनिक्षेपमाहचरणे छक्को दव्वे गईचरणं चेव भक्खणेचरणं । नि. [ ३८३ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy