________________
३०२
उत्तराध्ययन- मूलसूत्रम् - १-१२ / ३६५ कव्यपदेशवत्, विकृततया वा दुर्दर्शमिति दीप्तमिव दीप्तमुच्यते, कालो वर्णतो विकरालो दन्तुरतादिना भयानकः पिशाचवत् स एव विकरालकः 'फोक्क' त्ति देशीपदं, ततश्च फोक्का - अग्रे स्थूलोन्नता च नासाऽस्येति फोक्कनासः अवमानि - असाराणि लघुत्वजीर्णत्वादिना चेलानिवस्त्राण्यस्येत्यवमचेलकः, पांशुना - रजसा पिशाचवद्भूदतो- जातः पांशुपिशाचभूतः गमकत्वात्समासः, पिशाचो हि लौकिकानां दीर्घश्मश्रुनस्वरोमा पुनश्च पांशुभिः समविध्वस्त इष्टः, ततः सोऽपि निष्परिकर्म्मतया रजोदिग्धदेहतया चैवमुच्यते, 'संकरे'ति सङ्करः, स चेह प्रस्तावात्तृणभस्मगोयमाङ्गारादिमीलक उक्कुरुडिकेतियावत् तत्र दुष्यं वस्त्र सङ्करदुष्यं, तत्र हि यदत्यन्तनिष्कटं निरुपयोगी तल्लोकैरुत्सृज्यते, ततस्तत्प्रायमन्यदपि तथोक्तं, यद्वा उज्झितधर्म्मकमेवासौ गृह्णातीत्येवमभिधानं, 'परिहरिय'त्ति परिवृत्त्य, निक्षिप्येत्यर्थः क्व ? -'कण्ठे' गले, स ह्यनिक्षिप्तोपकरण इति स्वमुपधिमुपादायैव भ्राम्यति, अत्र कण्ठैकपार्श्वः कण्ठशब्द इति कण्ठे परिवृत्त्येत्युच्यत इति सूत्रद्वयार्थः ॥
इत्थं दूरादागच्छन्नुक्तः, सन्निकृष्टं चैनं किमूचुरित्याह
मू. (३६६ ) कयरे तुम इय अदंसणिज्जे ?, काए व आसा इहमागओऽसि ? । ओमचेलगा पंसुपिसायभूया, गच्छ क्खलाहि किमिहं ठिओऽसि ॥
वृ. कतरस्त्वं, पाठान्तरश्च-को रे त्वम्, अधिक्षेपे रेशब्दः 'इती' त्येवमदर्शनीयो-द्रष्टुमनर्हः, 'कया वा' किंरूपयावा ?, 'आसा इहमागओऽसि 'त्ति 'अचां' सन्धिलोपौ बहुल' मितिवचनादेकारलेपो, मकारश्चागमिक:, तत आशया - वाञ्छया 'इह' अस्मिन्यज्ञपट्टके आगतः - प्राप्तोऽसि भवसि, अबमचेलक: पांसुपिशाचभूत इति च प्राग्वत्, पुनरनयोरुपादानमत्यन्ताधिक्षेपदर्शनार्थं, गच्छ - प्रव्रज, प्रमादितो यज्ञवाटकात्, 'खलाहि' त्ति देशीपदमपसरेत्यस्यार्थे वर्त्तते, ततोऽयमर्थः - अस्मदृष्टिपथादपसर, तथा किमिह स्थितोऽसि त्वं ?, नैवेह त्वया स्थातव्यमिति भाव इति सूत्रार्थः । एवमधिक्षिप्तेऽपि तस्मिन् मुनौ प्रशमपरतया किञ्चिदप्यजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यदचेष्टत तदाह
मू. (३६७ ) जक्खो तहिं तिंदुयरुक्खवासी, अनुकंपओ तस्स महामुनिस्स । पच्छायइत्ता नियंगं सरीरं, इमाई वयणाइं उदाहरित्था ॥
तथा च
वृ. यक्षो - व्यन्तरविशेष:, तस्मिन् अवसर इति गम्यते, तिन्दुको नाम वृक्षस्तद्वासी, सम्प्रदायः-तस्स तिंदुगवणस्स मज्झे महंतो तिंदुगरुक्खो, तहिं सो वसति, तस्सेव हेट्ठा चेइयं, जत्थ सो साहू चिट्ठति । 'अनुकंपउ'त्ति अनुशब्दोऽनुरूपार्थे ततश्चानुरूपं कम्पते- चेष्टत इत्यनुकम्पकः-अनुरूपक्रियाप्रवृत्तिः, कस्येत्याह- 'तस्य' हरिकेशबलस्य 'महामुनेः ' प्रशस्यतपस्विनः ‘प्रच्छाद्य' प्रकर्षेणावृत्य निजकम् - आत्मीयं शरीरं, कोऽभिप्रायः ? - तपस्वीशरीर एवाशिष्य स्वयमनुपलक्ष्यः सन्निमानि - वक्ष्यमानानि 'वचनानि' वचांसि 'उदाहरित्थ' त्ति उदाहार्षीदुदाहृतवानित्यर्थ:, इति सूत्रार्थः । कानि पुनस्तानि ?, इत्याह
मू. ( ३६८ ) समणो अहं संजय बंभयारी, विरओ धनपयणपरिग्गहाओ । परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इहभागओमि ॥
वृ. श्रमणो-मुनिः ‘अह’ मित्यात्मनिर्देशः, किमभिधानत एवेत्याशङ्कयाह-सम्यग् यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org