SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २९४ उत्तराध्ययन- मूलसूत्रम् - १-११ / ३४६ वृ. यथा स तीक्ष्णे-निशिताग्रे शृङ्गे - विषाणे यस्य स तथा जात:- अत्यन्तोपचितीभूतः स्कन्धः-प्रतीत एवास्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचितत्वोपलक्षणं चैतत्, तदुपचये हि शेषाङ्गान्युपचितान्येवास्य भवन्ति, 'विराजते' विशेषेण राजते-शोभते 'वृषभ:' प्रतीतो, यूथस्य- गवां समूहस्याधिपतिः - स्वामी यूथाधिपतिः सन्, एवं भवति बहुश्रुतः, सोऽपि हि परपक्षभेत्तृतया तीक्ष्णाभ्यां स्वशास्त्रपरशास्त्राभ्यां शृङ्गाभ्यामिवलोपलक्षितः गच्छगुरुकार्यधुराधरणधौरेयतया च जातस्कन्ध इव जातस्कन्धः, अत धव च यूथस्य-साध्वादिसमूहस्याधिपतिः-आचार्यपदवीं गतः सन् विराजते इति सूत्रार्थः ॥ अन्यच्च मू. (३४७) जहा से तिक्खदाढे, ओदग्गे दुप्पहंसए । सीहे मियाण पवरे, एवं भवइ बहुस्सुए । वृ. यथा स तीक्ष्णा: - निशिता दंष्ट्राः - प्रतीता एव यस्य स तीक्ष्णदंष्ट्रः, 'उदग्र: ' उत्कट उदग्रवयः स्थितत्वेन वा उदग्र:, अत एव 'दुप्पहंसए' त्ति दुष्प्रधर्ष एव दुष्प्रधर्षकः - अन्यैर्दुरभिभवः ‘सिंह:' केशरी ‘मृगाणाम्' आरण्यप्राणिनां 'प्रवरः ' प्रधानो भवति, एवं भवति बहुश्रुतः, अयमपि हि परपक्षमेत्तृतया तीक्ष्णदंष्ट्राभिरिव नैगमादिनयैः प्रतिभादिगुणोदग्रतया च दुरभिभवः इत्यन्यतीर्थानां मृगस्थानीयानां प्रवर एवेति सूत्रार्थः ॥ अपरं च मू. ( ३४८ ) जहा से वासुदेवे, संखचक्कगदाधरे । अप्पsिहयबले जोहे, एवं भवइ बहुस्सुए ॥ वृ. यथा स 'वासुदेव:' विष्णुः, शङ्खश्च पाञ्चजन्यः चक्रं च - सुदर्शनं गदा च - कौमोदकी शङ्खचक्रगदास्ताधारयति - वहतीति शङ्खचक्रगदाधरः, अप्रतिहतम् - अन्यैः स्खलयितुमशक्यं बलं-सामर्थ्यमस्येत्यप्रतिहतबलः, किमुक्तं भवति ? - एकं सहजसामर्थ्यवानन्यच्च तथाविधायोधान्वित इति, युध्यतीति योध:- सुभटो भवति, एवं भवति बहुश्रुतः, सोऽपि ह्येकं स्वाभाविकप्रतिभाप्रागल्भ्यवान् अपरं शङ्खचक्रगदाभिरिव सम्यग्दर्शनज्ञानचारित्रैरुपैत इति, योध इव योधः कर्मवैरिपराभवं प्रतीति सूत्रार्थः ॥ अपरं - मू. (३४९ ) जहा से चाउरंते, चक्कवटी महिड्डिए । चोद्दसरयणाहिवई, एवं हवइ बहुस्सुए ॥ वृ. यथा स चतसृष्वपि दिवन्तः - पर्यन्त एकत्र हिमवानन्यत्र च दिक्त्रये समुद्रः स्वसम्बन्धितयाऽस्येति चतुरन्तः, चतुर्भिर्वा हयगजरथनरात्मकैरन्तः शत्रुविनाशात्मको यस्य स तथा, 'चक्रवर्ती' षट्खण्डभरताधितः, महती ऋद्धिः - समृद्धिरस्येति महर्द्धिकः - दिव्यानुकारिलक्ष्मीकः, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि तानि चामूनि “सेनावइ गाहावइ पुरोहिय गय तुरंग वड्ढइग इत्थी । चक्कं छत्तं चम्मं मणि कागिणी खग्ग दंडो य ॥" तेषामधिपति: चतुर्दशरत्नाधिपतिः, 'एवं भवति बहुश्रुत: ' सोऽपि ह्यासमुद्रमहीमण्डलख्यातकीर्ति: तिसृषु दिक्ष्वन्यत्र च बन्दीभूतविद्याधरवृन्द इति दिक्चतुष्टव्यापिकीर्तितया चतुरन्त उच्यते, चतुर्भिर्वा दानादिधर्मैरन्त:कर्मवैरिविनाशोऽस्येति चतुरन्तः, ऋद्धयश्चामर्षौषध्यादयश्चक्रवर्तिनमपि योधयेदित्येवंविधपुलाकलब्ध्यादयश्च महत्य एवास्य भवन्ति, सन्ति चास्यापि चतुर्दशरत्नो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy