SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २९२ उत्तराध्ययन-मूलसूत्रम्-१-११/३४० विना न यतस्ततश्चेष्टते, प्रस्तुतमुपसंहरन्नाह-'सुविनित:' सुविनितशब्दवाच्यः 'इति' इत्येवंविधगुणान्वितः उच्यते, इति सूत्राष्टकार्थः ।। यश्चैवं विनीतः स कीहक् स्यादित्याह'मू.( ३४१) वसे गुरुकुले निच्चं, जोगवं उवहाणवं। पियंकरे पियंवाई, से सिक्खं लद्धमरिहति॥ वृ. वसेत् आसीत क्व?-गुरूणाम्, आचार्यादीनां कुलम्-अन्वयो गच्छ इत्यर्थः गुरुकुलं तत्र, तदाज्ञोपलक्षणं च कुलग्रहणं, 'नित्यं' सदा, किमुक्तं भवति?-यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेत्, उक्तं हि-"नाणस्स होइ भागी" इत्यादि, योजनं योगो-व्यापारः, स चेह प्रक्रमाद्धर्मगत एव तद्वान्, अतिशायने मतुप्, यद्वा योगः-समाधि: सोऽस्यास्तीति योगवान्, प्रशंसायां मतुप, उपधानतम्-अङ्गानाध्ययनादौ यथायोगमाचाम्लादितपोविशेषस्तद्वान्, यद्यस्योपधानमुक्तं न तत् कृत्छ्भीरुतयोत्सृज्यान्यथा वाऽधीते शृणोति वा, प्रियम्-अनुकूलं करोतीति प्रियङ्करः, कथञ्चित् केनचिदकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रियमेव चेष्टते, अत एव च 'प्रियमेव'त्ति केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी, यद्वा-'प्रियङ्करः' आचार्यादेरभिमताहारादिभिरनुकूलकारी, एवं 'प्रियवाद्यपि' आचार्याभिप्रामयानुवर्तितयैव वक्ता, तथा चास्य को गुण इत्याह-'स' एवंगुणविशिष्टः 'शिक्षा' शास्त्रार्थग्रहणादिरूपां लब्धुम्' अवाप्तुम् 'अर्हति' योग्यो भवतीति, अनेनैव अविनीतस्त्वेतद्विपरीतः शिक्षा लब्धुं नाहतीत्यर्थादुक्तं भवति, तथा च यः शिक्षां लभते स बहुश्रुतः इतर स्त्वबहुश्रुत इति भाव इति सूत्रार्थः ।। एवं च सविपक्षं बहुश्रुतं प्रपञ्चतोऽभिधाय प्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारं तस्यैव स्तवद्वारेणाहमू. (३४२) जहा संखंमि पयं निहियं, दुहओवि विरायइ। एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ।। वृ. 'यथा' इति दृष्टान्तोपन्यासे 'शो' जलजे ‘पयो' दुग्धं निहितं' न्यस्तं' दुहओवि'त्ति द्वाभ्यां प्रकाराभ्यां द्विधा, न शुद्धतादिना स्वसम्बन्धिगुणलक्षणैनैकेनैव प्रकारेण, किन्तु स्वसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्वयेनापीत्यपिशब्दार्थः, विराजते' शोभते, तत्र हि न तत् कलुषीभवति, न चाम्लतां भजते, नापि च परिस्त्रवति, एवम्' अनेन प्रकारेण बहुश्रुते 'भिक्खु'त्ति आर्षत्वाद् भिक्षौ-तपस्विनि, 'धर्मः' यतिधर्मः 'कीर्तिः' श्लाघा 'तथा' इति धर्मकीर्तिवत् 'श्रुतम्' आगमो, विराजत इति सम्बन्ध:, किमुक्तं भवति?-यद्यपि धर्मकीतिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभाभाज्जि तथापि मिथ्यात्वादिकालुष्यविगमतो निर्मलतादिगुणेन शङ्ख इव पयो बहुश्रुते स्थितान्याश्रयगुणेन विशेषतः शोभन्ते, तान्यपि हि न तत्र मालिन्यम् अन्यथाभावं हानि वा कदाचन प्रतिपद्यन्ते, अन्यत्र त्वन्यथाभूतभाजनस्थपयोवदन्यथाऽपि स्युः, वृद्धास्तु व्याचक्षते_ 'यथे' त्यौपम्ये, 'संखंमि' संखभायणे ‘पयं' खीरं 'निहितं' ठवितं न्यस्तमित्यर्थः, 'दुहतो' उभयतो संखो खीरंच, अहवा ठवंतओखीरंच, संखेन परिस्सवति न य अंबीभवति, 'विरायति' सोभति, ‘एव'मुपसंहारो अनुमाने वा 'बहुसुओ' सुत्तत्थविसारतो, जानक इत्यर्थः, 'तस्स' एवं भिक्खुभायणे दितस्स धम्मो भवति कित्ती जसो तथा सुयमाराधियं भवति, अपत्ते दितस्स ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy