________________
२७८ .
-
उत्तराध्ययन-मूलसूत्रम्-१-१०/२९१
अप्पाहेइ पडतं पंडुरवत्तं किसलयाणं ।। नि.[३०९] नवि अत्थि नवि अ होही उल्लावो किसलपंडुपत्नाणं ।
उवमा खलु एस कया भवियजनविबोहणट्ठाए।। वृ. परिवर्तितं-कालपरिणत्याऽन्यथाकृतं लावण्यम्-अभिरामगुणात्मस्येति परिवर्तितलावण्यं, यतो न तस्य प्रागिव सौकुमार्यादि विद्यते, तथा चलन्तः-शिथिलीभवन्तः सन्धयोयस्मिंस्तत्तथा, अत एव 'मुयंत-वेंटागं'ति मुञ्चत्-त्यजत् सामर्थ्याद् वृक्षं वृन्तकं-पत्रबन्धनं यस्य तत् मुञ्चद्वन्तकं, वृन्तस्य वृक्षमोचने पत्रस्य पतनमेव भवतीति पतदित्युक्तं भवति, 'पत्रं'(च) पर्णं, व्यसनम्-आपदं प्राप्तं व्यसनप्राप्तं तथा काल:-प्रक्रमात् पतनप्रस्तावस्तं प्राप्तंगतं कालप्राप्तं 'भणति' अभिधत्ते, गीयत इति गाथा तां-छन्दोविशेषरूपां।। तामेवाह___ 'यथा' इति सादृश्यते, ततो यथा यूयं सम्प्रति किशलयभावमनुभवथ स्निग्धादिगुणैर्गर्वमुद्धहथ अस्मानुपहसथ, तथा वयमप्यतीतदशायां, तथा यूयमपि च भविष्यथ यथा वयमिति, जीर्णभावे हि यथावयमिदानीं विवर्णविच्छायतयोपहास्यानि, एवं यूयमपि भावीनीति, ‘अप्पाहेइ'त्ति उक्तन्यायेनोपदिशति पितेवपुत्रस्य 'पतत्' भ्रश्यत् 'पाण्डुरपत्रं' जीर्णपत्रं 'किसलयानाम्' अभिनवपत्राणां । ननु किमेवं पत्रकिसलयानामुल्लापः सम्भवति? येनेदमुच्यते,
'नेवास्ति' नैव विद्यते, नैव भविष्यति उपलक्षणत्वात् नैत्र भूतः, कोऽसौ ? - ‘उल्लापः' वचनं केषां? -'किशलयपाण्डुपत्राणाम्' उक्तरूपाणां, आर्षत्वाच्च यलोपः, तदिह किमेवमुक्तमित्याह-'उपमा' उपमितिः, खलु एवकारार्थत्वात्, ततः उपमैव, 'एषा' अनन्तरकोक्ता 'कृता' विहिता ‘भवियजनविबोहणट्ठाए'त्ति प्रतीतमेव। यथेह किशलयानि पाण्डुपत्रेणानुशिष्यन्ते तथाऽन्योऽपि यौवनगर्वितोऽनुशासनीयः, तथा चैतदनुवादिना वाचकेनावाचि
"परिभवसि किमिति लोकं जरसा परिजर्जरीकृतशरीरम् ।
अचिरात् त्वमपि भविष्यसि यौवनगर्वं किमुद्वहसि? ॥" तदेवं जीवितयौवनयोरनित्यत्वमवगम्य न प्रमादो विधेय इति गाथात्रयार्थयुक्तसूत्रगमार्थः ।। पुनरायुषोऽनित्यत्वं ख्यापयितुमाहमू. ( २९२) कुसग्गे जह ओसबिंदुए, थोवं चिट्ठति लंबमानए।
एवं मनुयाण जीवियं, समयं० ।। वृ. कुशो-दर्भसदृशस्तृणविशेषः, तनुतरत्वाच्च तस्योपादानं, तस्याग्रं-प्रान्तस्तस्मिन्, 'यथा' इत्युपमाप्रदर्शकः, अवश्यायः-शरत्कालभावी श्लक्ष्णवर्षस्तस्य बिन्दुरेव बिन्दुक: अवश्यायबिन्दुकः, 'स्तोकम्' अल्पालामिति गम्यते, तिष्ठति', आस्ते, लम्बमानकः' मनाग् निपतद्, बद्धास्पदो हि कदाचित् कालान्तरमपि क्षमतेत्येवं विशेष्यते, एवम्' इत्युक्तसदृशं मनुजानां' मनुष्याणां, मनुजग्रहणं च प्राग्वत्, 'जीवियं'ति जीवितं, यत एवं ततः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ।। अमुमेवार्थमुपसंहरनुपदेशमाहमू. ( २९३) इइइत्तरियमि आउए, जीवितए बहुपच्चवायए।
विहुणाहि रयं पुराकडं, समयं० ॥ वृ. 'इति' इत्युक्तयायेन 'इत्वरे' अयनशीले, कोऽर्थः ? -स्वल्पकालभाविनि, एति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org