SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१०,[नि.३०५] २७१ मगधासु प्रधानपुरत्वादविद्यमानकरत्वाच्च, तथा 'नायओ पहियकित्ति'त्ति नायकः-सकलजगत्स्वामी ज्ञात एव वा ज्ञातक-उदारक्षत्रियः, न्यायतो वा प्रथिमा-सकलजगत्प्रत्याख्याता कीर्तिर्यस्य स तथा, प्रकृत्या-स्वभावेन विशुद्धा-अत्यन्तनिर्मला लेश्या शुक्ललेश्या यस्य स तथा, 'निसीहिय'त्ति निषिध्यन्ते-निराक्रियन्ते अस्यां कर्माणीति नैषेधिकी-निर्वाणभूमिः, 'कृत्यल्युटोऽन्यत्रापि' इत्यपरिग्रहणबलात् ल्युट्, निष्ठितार्थस्य-समाप्तसकलकृतस्य यद्वा निषेधे-सकलकर्मनिराकरणलक्षणे भवा नैषेधिकी-मुक्तिगतिस्तया निष्ठितार्थो यस्तस्य ऋषभस्य-ऋषभनाम्नः, स चान्योऽपि सम्भवति अत आह-भरतपितरिति, 'वन्दते' स्तौति प्रक्रमान्नषेधिकी प्रतिमां वा, तथा साधु 'स'मिति भृशं वासयति संतासयति, कोऽर्थः ?रात्रिं दिवं चावस्थापयति, नोऽसाधुसंहरणादिनाऽऽनीतमपि 'किल' इति परोक्षाप्तवादसूचक:, 'अथ' इत्युपन्यासे सिद्धोपलक्षितः पर्वतः सिद्धपर्वतः 'तास्थ्यात्तद्वयपदेश' इति तदधिष्ठायकदेवताविशेष एवोक्तः, यद्वा तत्तीर्थानुभाव एवायं यदसाधोस्तत्रावस्थानमेव न सम्पद्यते, तथा च 'चरमशरीर: साधुः आरोहती'त्यत्र पदप्रचारेणेति गम्यते, 'उदाहरणं' कथनं 'कासीअ'त्ति अकार्षीद्, अनेन चैवंविधदेवप्रवादोत्थानकारणमुक्तं घेत्तूण पुंडरीयम्' इत्यादिना च प्रसङ्गागतं वैरस्वामिजन्मोक्तं, तथा 'तं पासिऊण इड्डि'न्ति तामिति-प्रतीतामेव भगवति जङ्घाचारणरूपलब्धिरूपां, तथा 'तिवग्गावि'त्ति त्रयो वर्गा येषां ते त्रिवर्गाः, तेऽपि प्रक्रमाद्दिनकोण्डिन्यशैवलिनस्त्रयोऽपि, नैको द्वौ वेत्यपिशब्दार्थः, 'अणगार'त्ति अविद्यमानगृहाः, ते च तापसादयोऽपि स्युरत आह-प्रकर्षेण वजिता-मिथ्यात्वादिभ्यो विनिर्गताः प्रव्रजिताः, तथा 'एगस्स खीरभोयणहेउ'त्ति क्षीरान्नभोजनमेव विशुद्धाध्यवसायविशेषोत्पत्तिनिबन्धनतया हेतुःकारणं क्षीरभोजनहेतुः, मयूरव्यंसकादित्वात् समासः, तमाश्रित्येति शेषः, 'नानुप्पय'त्ति ज्ञानस्योत्पादनमुत्पत् 'सम्पादादित्वात् क्विप्' ज्ञानोत्पात्, तथा 'चिरसंसट्ठन्ति चिरंप्रभूतकालं संसृष्ठः-स्वस्वाम्यादिसम्बन्धेन सम्बन्धो यस्तं, 'चिरपरिचित:' सहवासनादिना स पूर्वो यस्तम्, उभयत्र विस्पष्टं पटुर्विस्पष्टपटुरितिवत् सह सुपेत्यत्र सुपेति योगविभागात् समासः, चिरमनुगतमभिप्रायानुवर्तिनमात्मानमति शेषः, 'ममे'त्यात्मनिर्देशः, ततः प्रभूतमोहनीयाच्छादिततया न ते ज्ञानोत्पत्तिरित्यभिप्रायः 'देहस्य तु' शरीरस्य 'भेदे' विनाशे द्वावप्यावां 'तुल्यौ' मुक्तिपदप्राप्त्या समौ भविष्यावः' इति मा त्वमधृति कृथा इति भावः, 'यथा' येन प्रकारेण यथा 'मन्ने'त्ति आर्षत्वात् पुरुषव्यत्ययः, ततो मन्यसे त्वम् एनं ज्ञानावाप्तिलक्षणम् 'अर्थ' वस्तु 'वयं' जानीमः अवबुध्यामहे, किंविशष्टाः सन्तः?, इत्याहक्षीणः पनर्भवाभावतः संसारो येषां ते क्षीणसंसाराः, तेन प्रकारेण तथा, व्यवच्छेदफलत्वात् तथैव, किमित्याह-'मन्ने'त्ति प्राग्वत्, मन्यसे 'एनमर्थम्' अनन्तरोक्तं 'विमानवासिनोऽपि' देवा जानन्ति' अवबुध्यन्ते, एवं च यथा क्षीणसंसारा जानन्ति तथा विमानवासिनोऽपि जानन्तीत्याशयवतः क्षीणसंसारिणां च परिज्ञानं प्रति साम्यमभिमतमित्यहो तव विवेकतेत्युपालब्धः। तथा 'जाणगपुच्छंति ज्ञायकपृच्छया पृच्छति, न हि तस्य भगवतः समस्तज्ञेयविषयविज्ञानचक्षुषः क्वचिदविज्ञानमस्ति, किन्तु गौतमं प्रतिबोधयन्नित्थमुपालभते, तथा यथा किम्?दीव्यन्ति-क्रीडन्ति देवाः तेषां वचनं वचो 'गिज्झं'ति ग्राह्यमुपादेयम्, 'आतो' त्ति आर्षत्वादाहो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy