SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - १०, [ नि. २७९] अध्ययन १० दुमपत्रकं वृ. व्याख्यातं नमिप्रव्रज्याख्यं नवममध्ययनम्, अधुना दशममध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने धर्मचरणं प्रति निष्कम्पत्वमुक्तं तच्चानुशासनादेव प्रायो भवति, न च तदुपमां विना स्पष्टमिति प्रथमत: उपमाद्वारेणानुशासनाभिधायकमिदमध्ययनम्, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वार चतुष्टयमुपदर्श्यते, यावन्नामानिष्पन्ननिक्षेपे द्रुमपत्रकमिति द्विपदं ना, अतो द्रुमस्य पत्रस्य च निक्षेपमाहनिक्खेवो उदुमंमि चउव्विहो ० ॥ जग सरीरमवि० दुमयाउनामगोयं वेयंतो भावओ दुमो होइ । एमेव य पत्तस्सवि निक्खेवो चउव्विहो होइ || नि. [ २८० ] नि. [ २८१ ] नि. [ २८२ ] वृ. 'निक्षेप: ' न्यास: 'तु:' पूरणे 'दुमे' द्रुमविषय: 'चतुर्विध:' नामादिः, द्विविधो भवति द्रव्ये आगतमो नोआगमतश्च, सत्रिविध:- ज्ञशरीरभव्यशरीरद्रुमस्तद्यतिरिक्तश्च, स पुनस्त्रिविध:एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, द्रुमायुर्नामगोत्रं वेदयन् भावतो द्रुमो भवति, एवमेव च पत्रस्यापि चतुर्विधो भवति निक्षेप इति गाथात्रयाक्षरार्थः ॥ भावार्थस्तु पूर्ववत्, अन्वर्थनामतामस्यादर्शयन्नाह नि. [ २८३ ] २६९ दुमपत्तेणोवम्मं अहाठिईए उवक्कमेणं च । इत्थ कयं आइंमी तो तं दुमपत्तमज्झयणं ॥ , वृ. द्रुमो-वृक्षः तस्य पर्णं - पत्रं तेनौपम्यम् - उपमा, प्रक्रमादायुषः, केन पुनर्गुणेनौपम्यमित्याह- 'यथास्थित्वा' स्वकालपरिपाकतः पातरूपया, तथा उपक्रमणं-दीर्घकालभावन्यिाः स्थितेः स्वल्पकालताऽऽपादनमुपक्रमः कोऽर्थः ? - पाकादारत एव वातादिनाऽवस्थितिविनाशनं, तेन चात्राध्ययने 'कृतं' विहितम् ' आदौ' प्रथमं यस्मात् ततः द्रुमपत्रमित्यध्ययनमिदम्, उच्यते इति शेषः । यथा चास्य समुत्थानं तथा दर्शयंस्त्रयोविंशतिसङ्ख्यं गाथाकदम्बकमाहमगहापुरनयराओ वीरेण विसज्जणं तु सीसाणं । सालमहासालाणं पिट्ठीचंपं च आगमनं ॥ नि. [ २८४ ] नि. [ २८५ ] पवज्जा गागिलिस्स य नाणस्स य उप्पया उ तिण्हंपि । आगमनं चंपपुरिं वीरस्स अवंदनं तेसिं ॥ नि. [ २८६ ] नि. [ २८७ ] चंपाइ पुन्नभद्दंमि चेइए नायओ पहिअकित्ती । आमंतेउं समणे कहेइ भयवं महावीरो ॥ अट्ठविहकम्ममहणस्स तस्स पगईविसुद्धलेसस्स । अट्ठावए नगवरे निसीहिए निट्ठिअट्ठस्स ॥ उसभस्स भरहपिउणो तेलुक्कपयासनिग्गयजस्स । जो आरोढुं वंदइ चरिमसरीरो अ सो बाहू ॥ साहुं संवासेइ अ असाहुं न किर संवसावेई । नि. [ २८८ ] नि. [ २८९ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy