________________
अध्ययनं- -८, [ नि. २५९ ]
२४१
विपाककटुकात्मकं तद्विषयं दोषमिति गम्यते, न 'लिप्यते' कर्म्मणा नोपदिह्यते, कामदोषज्ञस्य तेषु प्रायः प्रवृत्तेरभावादिति भावः, तायते त्रायते वा रक्षति दुर्गतेरात्मानम् एकेन्द्रियादिप्राणिनो वाऽवश्यमिति तायी त्रायी वेति सूत्रार्थः । इत्थं ग्रन्थत्यागिनो गुणमभिधाय व्यतिरेके दोषमाहमू. (२१३ ) भोगामिसदोसविसन्ने हियनिस्सेयसबुद्धिवोच्चत्थे । बाले य मंदिए मूढे बज्झइ मच्छिया व खेलंमि ॥
वृ. भुज्यन्त इति भोगाः - मनोज्ञाः शब्दादयः ते च ते आमिषं चात्यन्तगृद्धिहेतुतया भोगामिषं तदेव दूषयत्यात्मानं दुःखलक्षणविकारकरणेन भोगामिषदोषस्तस्मिन् विशेषेण सन्नो - निमग्नो भोगामिषदोषविषण्णः, यद्वा-भोगामिषस्य दोषा भोगामिषदोषाः ते च तदासक्तस्य विचित्र-श्लेशा अपत्योत्पत्तौ च तत्पालनोपायपरतया व्याकुलत्वादयस्तैर्विषण्णो-विषादं गतो भोगामिषदोषविषण्णः, आह च-
"जया य कुक्कुडुंबस्सा, कुतत्तीहिं विहम्मइ । हत्थीव बंधणे बद्धो, स पच्छा परितप्पइ ॥ १॥ पुत्तदारपरिक्किन्नो, मोहसंताणसंततो ।
पंकोसनो जहा नागो, स पच्छा परितप्पति ॥ २॥ " त्ति |
'हियनिस्सेसबुद्धिवोच्चत्थे 'त्ति हितः - एकान्तपथ्यो निःश्रेयसो - मोक्षः अनयोः कर्मधारये हितनिः श्रेयसः, --यद्वा हितो-यथाभिलाषितविषयावाप्त्याऽभ्युदयः निःश्रेयसः स एव तयोर्द्वन्द्वः, ततश्च तत्र तयोर्वा 'बुद्धिः' तत्प्राप्त्युपायविषया मतिः तस्यां विपर्ययवान् सा वा विपर्यस्ता यस्य स हितनि:श्रेयबुद्धिविपर्यस्तः विपर्यस्तहितनिः श्रेयसबुद्धिर्वा, विपर्यस्तशब्दस्य तु परनिपातः प्राग्वत्, यद्वा विपर्यस्ता हिते निःशेषा बुद्धिर्यस्य स तथा, बालश्च-अज्ञः 'मंदिए 'त्ति सूत्रत्वान्मन्दो - धर्मकार्यकरणं प्रत्यनुद्यतः 'मूढो' मोहाकुलितमानसः, स एवंविधः किमित्याह'बध्यते' श्लिष्यतेऽर्थाज्ज्ञानावरणादिकर्म्मणा मक्षिकेव 'खेले' श्लेष्मणि, रजसेति गम्यते, इदमुक्तं भवति - यथाऽसौ तत्स्निग्धतागन्धादिभिराकृष्यमाणा तत्र मज्जति, मग्ना च रेण्वादिना बध्यते, एवं जन्तुरपि भोगामिषे मग्नः कर्म्मणेति सूत्रार्थः ॥ ननु यद्येवममी भोगाः कर्म्मबन्धकारणं किं नैतान् सर्वेऽपि जन्तस्त्यजन्तीत्याह
मू. ( २१४ )
दुप्परिच्चया इमे कामा नो सुजहा अधीरपुरिसेहिं । अह संति सुव्वया साहू जे तरंति अतरं वणिया व ॥
वृ. दुःखेन - कृच्छ्रेण परित्यज्यन्ते - परिड्रियन्त इति दुष्परित्यजा: 'इमे' प्रत्यक्षत उपलभ्यमानाः 'कामा:' भोगाः 'नो' नैव 'सुजह' त्ति सूत्रत्वात् सुखेन - अनायासेन हीयन्त इति सुहाना :सुत्यजा:, विषसम्पृक्तस्निग्धमधुरान्नवद्, कै: ? - 'अधीरपुरुषैः' अबुद्धिमद्भिरसत्त्वैर्या नरैः, पुरुषग्रहणं तु ये तावदल्पवेदोदयतया सुखेनैव त्वक्तारः सम्भवन्ति तैरप्यमी न सुखेन त्यज्यन्ते, आस्तामतिदारुणस्त्रीपण्डकवेदोदयाऽऽकुलितैः, स्त्रीनपुंसकैरिति । यच्चेह दुष्परित्यजा इत्युक्त्वा पुनर्न सुहानाः इत्युक्तं तदत्यन्तदुस्त्यजताख्यापकं प्रपञ्चितज्ञविनेयानुग्राहकं वेति अपुनरुक्तमेव, अधीरग्रहणेन तु धीरैः सुत्यजा एवेत्युच्यते, अत एवाह- 'अथ' इत्युपन्यासे
28/16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org