SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २१ अध्ययनं-१,[नि. २९] भिक्षणशीलस्य, सम्यग्-अविपरीतो योगः-समाधिः संयोगः, ततो विविधैः परीषहासहनगुरुनियोगासहिष्णुत्वालस्यादिभिः प्रकारैः प्रकर्षेण मुक्तो विप्रमुक्तः तस्य, शेषं प्राग्वत्। एवं चाविनयप्रतिपादनस्यापि प्रतिज्ञातत्वात् सर्वं सुस्थम् । अपरस्त्वाह-प्रतिज्ञातमपि विनयमभिधित्सोरप्रस्तुतम्, इदमपि बालप्रजल्पितं, यतः शास्त्रारम्भेऽभिधेयाद्यवश्यमभिधेयम्, अन्यथा प्रेक्षावत्प्रवृत्त्यसम्भवात्, तत्प्रदर्शनात्मकं चैतत् प्रतिज्ञानं, तथाहि-विनयं प्रादुष्करिघ्यामीत्युक्ते विनयोऽस्याध्ययनस्याभिधेयः, तत्प्रादुष्करणं फलं, तथा चेदमुपेयम्, उपायश्चास्यप्रस्तुताध्ययनम्, इत्यनयोरुपायोपेयभावलक्षणः सम्बन्ध इति च दर्शितं भवति, ततो नाप्रस्तुतत्वं प्रतिज्ञानस्येति स्थितम् । सम्प्रति सूत्राऽऽलापकनिप्पन्ननिक्षेपस्य सूत्रस्पशिकनिर्युक्तेश्च प्रस्ताव इति मन्यमानः संयोग इत्याद्यं पदं स्पृशनिक्षेप्तुमाह नियुक्तिकृत्नि.[३०] संजोगे निक्खेवो छक्को दुविहो उ दव्वसंजोगे। संजत्तगसंजोगो नायव्वियरेयरो चेव।। वृ.'संयोग' इति संयोगविषयः 'निक्षेपः' न्यासः, षट् परिमाणमस्येति पटकः प्राग्वत्कन्, एतद्देदाश्च नामस्थापनाद्रव्यक्षेत्रकालभावाः प्रसिद्धत्वादुत्तरत्र व्याख्यानत उन्नीयमानत्वाच्च नोक्ताः , अत्र च "संहितादिर्यतो व्याख्याविधिः सर्वत्र दृश्यते । नामादिविधिनाऽऽरब्धं. न व्याख्या युज्यते ततः ॥१॥ इत्याहुरविभाव्यैव, स्याद्वादं वादिनोऽपरे । यत्तदत्र निराकार्यमाचक्षाणेन तद्विधिम्॥२॥ स्यादस्तीत्यादिको वादः, स्याद्वाद इति गीयते । नयौ न च विमुच्यायं, द्रव्यपर्यायवादिनौ ॥३॥ अतश्चैतद्वयोपेतं, स्वं मतं समुदाहतम्। सञ्जाततत्त्वसंविद्भिः, स्याद्वादः परमेश्वरैः ।।४।। ते हि तीर्थविधौ सर्वे, मातृकाख्यं पदत्रयम् । उत्पत्तिविगमध्रौव्यख्यापकं सम्प्रचक्षते ।।५।। उत्पत्तिविगमावत्र, मतं पर्यायवादिनः । द्रव्यार्थिकस्य तु ध्रौव्यं, मातृकाख्यपदत्रये ॥६॥ ततश्च-द्रव्यत्वमन्वयित्वेन, मृदो यद्वद् घटादिषु। तद्वदेवान्वयित्वेन, नामस्थापनयोरपि ।।७।। अन्वयित्वं तु सर्वत्र, सङ्केतानाम्न उच्यते । स्थापनायाश्च तद्रुपक्रियातो बुद्धितोऽपि वा ।।८।। तन्नामस्थापनाद्रव्यनिक्षेपैरनुवर्तितः। द्रव्यार्थिकनयो भावनिक्षेपादितरः पुनः ।।९।। तथा च महामति:-"तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी। दव्वट्ठिओवि पज्जवणओ य सेसा वियप्पा सिं ॥१०॥" For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy