________________
२३५
अध्ययनं-७,[नि. २४९] मू.( २०३) इह कामानियट्टस्स, अत्तढे अवरज्झति।
सुच्चा नेयाउअंमग्गं, जं भुज्जो परिभस्सति ।। वृ. 'इह' इति मनुष्यत्वे जिनशासने वा, प्राप्त इति शेषः, कामेभ्योऽनिवृत्तः-अनुपरतः कामानिवृत्तः तस्यात्मनोऽर्थ आत्मार्थः-अर्थ्यमानतया स्वर्गादि: 'अपराध्यति' अनेकार्थत्वाद्धातूनां नश्यति, यद्वा-आत्ममैवार्थ आत्मार्थः स एवापराध्यति, नान्यः कश्चिदात्मव्यतिरिक्तोऽर्थः सापराधो भवति, उभयत्र दुर्गतिगमनेनेति भावः । आह-विषयवाञ्छाविरोधिनि जिनागमे सति कथं कामानिवृत्तिसम्भवः?, उच्यते, श्रुत्वा' आकर्ण्य 'नैयायिकं' न्यायोपपन्न 'मार्ग' सम्यग्दर्शनादिकं मुक्तिपशं यद् 'भूयः' पुनरपि परिभ्रश्यति, कामानिवृत्तित इति शेषः, । कोऽभिप्रायः?-जिनागमश्रवणात् कामनिवृत्तिं प्रतिपन्नोऽपि गुरुकर्मत्वात् प्रतिपतति, ये तु श्रुत्वापि तदप्रतिपन्नाः श्रवणं च येषां नास्ति ते कामानिवृत्ति एवेतिभावः।
यद्वा-यदसौ कामानिवृत्तः सन् श्रुत्वा नैयायिकं मार्गं भूयः परिभ्रश्यति-मिथ्यात्वं गच्छति तदस्यात्मार्थ एव गुरुकर्मापराध्यति, अनेन मा भूत्कस्यचिन्मूढस्य सिद्धान्तमधीत्याप्युत्पथप्रस्थितान् विलोक्य सिद्धान्त एव दोष् इति तदनपराधित्वमुक्तं, पठ्यते च-'पत्तो नेयाउयंति स्पष्टमिति सूत्रार्थः ॥ यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाहमू.(२०४) इह कामा नियट्टस्स, अत्तद्वे नावरज्झति।
पूतिदेहनिरोहेणं, भवे देवेत्ति मे सुयं॥ वृ. इह कामेभ्यो निवृत्तः कामनिवृत्तिः तस्यात्मार्थ:-स्वर्गादि: 'नापराध्यति' न भ्रश्यति, आत्मलक्षणो वाऽर्थो न सापराधो भवति, किं पुनरेवं?, यतः-पूतिः कुथितो देहः-अर्थादौदारिकं शरीरं तस्य निरोधः-अभावः पूतिदेहनिरोधः तेन 'भवेत्' स्यात्, प्रकृतत्वात् कामनिवृत्तो 'देव:' सौधर्मादिनिवासी सुरः, उपलक्षणत्वात् सिद्धो वा, 'इती'त्येतत् मया श्रुतम्' आकर्णितं, परमगुरुभ्य इति गम्यते, अनेन स्वर्गाद्यवाप्तिः आत्मार्थानपराधे निमित्तमुक्तमिति सूत्रार्थः । मू. ( २०५) इड्डी जुती जसो वन्नो, आउंसुहमनुत्तरे।
भुज्जो जत्थ मनुस्सेसुं, तत्थ से उववज्जति॥ व.'ऋद्धिः' कनकादिसमुदायः 'द्युतिः' शरीरकान्तिः 'यशः' पराक्रमकृता प्रसिद्धिः 'वर्णः' गाम्भीर्यादिगुणैः श्लाघा गौरादिर्वा 'आयुः' जीवितं 'सुखं' यथेप्सितं विषया वाप्तावाल्हादः, न विद्यते उत्तरं-प्रधानमस्यादित्यनुत्तरम्, इदं च सर्वत्र योज्यते, भूयः' पुन:, देवभवापेक्षमेतत, तत्रापि ह्यनुत्तराण्येवैतान्यस्य सम्भवन्ति 'यत्र' येषु 'मनुष्येषु' मनुजेषु 'तत्र' तेषु 'से' त्ति सोऽथशब्दार्थो वा, ततोऽनन्तरम् ‘उत्पद्यते' जायत इति सूत्रार्थः एवं कामानिवृत्त्या यस्यात्मार्थोऽपराध्यति स बालः इतरस्तु पण्डित इत्यर्थादुक्तम् ।। मू. ( २०६) बालस्स पस्स बालतं, अहम्मं पडिवजिआ।
चिच्चा धम्मं अहम्मिटे, नरएसूववज्जइ॥ वृ. 'बालस्य' अज्ञस्य ‘पश्य' अवधारय 'बालत्वम्' अज्ञत्वं, किं तदित्याह-'अधर्म धर्मविपक्षं विषयासक्तिरूपं 'प्रतिपद्य' अभ्युपगम्य, पठ्यते च-'पडिवज्जिणो'त्ति प्रतिपादिनोऽवश्यंप्रतिपद्यमानस्य 'त्यक्त्वा' अपहाय'धर्म' विषयनिवृत्तिरूपं सदाचारं 'अहमिट्टे'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org