________________
अध्ययनं-७,[नि. २४९]
२३३ योनिमुपयान्ति, किमित्येवम् ?, अत आह-'कम्मसच्चा हुपाणिणो'त्ति हुशब्दो यस्मादर्थे, यस्मात् सत्यानि-अवन्ध्यफलानि कर्माणि-ज्ञानावरणादीनि येषां ते सत्यकर्माणः प्राणिनः, निरुपक्रमकापेक्षं चैतदिति सूत्रार्थः ।। सम्प्रति लब्धलाभोपनयमाहमू. ( १९९) जेसिं तु विउला सिक्खा, मूलियंते अतिच्छिया।
सीलवंता सविसेसा, अद्दीना जंति देवयं । वृ.'येषां तु' येषां पुनः ‘विपुला' निःशङ्कितत्वादिसम्यक्त्वाचाराणुव्रतमहाव्रतादिविषयत्वेन विस्तीर्णा 'शिक्षा' ग्रहणासेवनात्मिका, अस्तीति गम्यते, मूले भवं मौलिकं-मूलधनमिव मानुपत्वं, त एवंविधाः, विउट्टियत्ति अतिट्टयत्ति अतिच्छियत्ति पाठत्रयेऽपि अतिक्रान्ताःउल्लचितवन्त इत्यर्थः, यद्वाऽतिक्रम्य-उल्लङ्घय, कीदृशाः सन्तः ? शीलं-सदाचारः अविरतसम्यग्दृशां विरतिमतां तु देशसर्वविरमणात्मकं चारित्रं तद्विद्यते येषां ते शीलवन्तः, तथा सह विशेषेण-उत्तरोत्तरगणप्रतिपत्तिलक्षणेन वर्त्तन्त इति सविशेषाः, अत एव 'अदीनाः' कथं वयममुत्र भविष्याम इति वैक्लव्यरहिताः परिषहोपसर्गादिसम्भवे वा न दैन्यभाज इत्यदीनाः ‘यान्ति' प्राप्नुवन्ति, देवभावो देवता सैव दैवतं । ननु तत्त्वतो मुक्तिश्चेदानीं विशिष्टसंहननाभावतोऽभावाद्देवगतेश्च "छेवढेण उगम्मइ चत्तारि उजाव आदिमा कप्पा" इति वचनाच्छेदपरिवर्तिसंहननिनामिदानींतनानामपि सम्भवादेवमुक्तमिति सूत्रार्थः । प्रस्तुतमेवार्थं निगमयन्नुपदेशमाहमू. ( २००) एवं अदीनवं भिक्खुं, अगारिं च विजाणिया।
कहनु जिच्चमेलिक्खं, जिच्चमाणो न संविदे। वृ. 'एवम्' अमुना न्यायेन लाभान्वितं 'अदीणव'न्ति दीक्तवतौ दीनवन्तं न तथाऽदीनवन्तम्-अदीनं, दैन्यरहितमित्यर्थः 'भिक्षु' यतिम् ‘अगारिणं' च गृहस्थं 'विज्ञाय' विशेषण तथाविधशिक्षावशाद्देवमनुजगामित्वलक्षणेन 'ज्ञात्वा' अवगम्य, यतमान इति शेषः, कथम्' ? केन प्रकारेण?, न कथञ्चिदित्यर्थः, 'नुः' वितर्के, 'जिच्चं'ति सूत्रत्वात् जीयेत-हार्येत विवेकी, तत्प्रतिकूलैः, कषायोदयादिभिरिति गम्यते, 'ईदृक्षम्' अन्तरोक्तं देवगत्यात्मकं लाभं जिच्चमाणो'त्ति वाशब्दस्य गम्यमानत्वाज्जीयमानो वा-हार्यमाणः, तैरेव कषायादिभिः 'न संविदे'त्ति सूत्रत्वान्न संवित्ते-न जानीते यथाऽहमेभिर्जीये इति, कथं न्वितीहापि योज्यते, ततोऽयमर्थःकथं नु न संवित्ते?, संवित्त एव, जानीत एव ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया च तन्निरोधं प्रति प्रवर्तत एव, इत्येवं च वदन् काक्वोपदिशति-यत एवं ततो यूयमप्येवं जानाना यथा न देवगतिलक्षणं लाभंजीयेध्वं कषायादिभिस्तथा यतध्वं, कथञ्चिज्जीयमानाश्च सम्यग् विज्ञाय तत्प्रतीकारायैव प्रवर्तध्वमिति, यद्वा-एवमदीनवन्तं भिक्षमगारिणं च विज्ञाय यतमानो 'जिच्चं'ति जीयतेहार्यते अतिरौटैरिन्द्रियादिभिः आत्मा तदिति ज्ञेयं, तच्चेह प्रक्रमान्मनुष्यदेवगतिलक्षणम्, 'एलिक्खं' ति सुब्ब्यत्यया दीदृक्षोऽभिहितार्थाभिज्ञः कथं न जीयमानो न संवित्ते?, अपि तु संवित्त एव, संविदानश्च यथा न जीयेत तथा यतेतेत्यभिप्रायः। अथवा-एवमदीनवन्तं भिक्षमगारिणंचलब्धलाभं विज्ञाय यतमानः कथं नु 'जिच्चंति आर्षत्वाज्जीयते-हार्यते, विषयादिभिरिति गम्यते, ईदृशं देवगतिलक्षणं लाभमिति शेषः, अयमाशयो-यदि लभमाना न विज्ञातास्युर्लाभो वा न तथाविधस्तदा जयनमपि स्यात्, यदा तु लभमानौ भिक्ष्वगारिणौ दृश्येते लाभश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org