________________
उत्तराध्ययन-मूलसूत्रम्-१-५/१५६ भेदं, क इत्याह-'भिक्खाए वा गिहत्थे व'त्ति प्राकृतत्वाद्वचनव्यत्ययेन भिक्षाको वा गृहस्थो वा भावतो यतय एवेतियावत्, अत एवाह-'जे' इति ते शान्त्या-उपशमेन परिनिर्वताः-शीतीभूता विध्यातकषायानलाः शान्तिपरिनिर्वृताः, यद्वा-ये केचन 'सन्ति' विद्यन्ते परिनिर्वृताः, अत्र च देवो वा स्यादित्येकवचनप्रक्रमेऽपि यद्ववचनाभिधानं तद्याप्त्यार्थं, ततो न य एक एवेश्वराद्यनुगृहीतः स एव सम्यग्दर्शनादिमानपि दिवंक्रामति किन्तु सर्वोऽपि इत्युक्तं भवतीति सूत्रार्थः ॥ एतच्चाकर्ण्य मरणेऽपि यथाभूता महात्मानो भवन्ति तथाऽऽहमू.(१५७) तेसिं सुच्चा सपुज्जाणं, संजयाणं वुसीमओ।
न संतसंति मरणंते, सीलवंता बहुस्सुआ। वृ. तेषाम्' अनन्तराभिहितस्वरूपाणां भावभिक्षूणां श्रुत्वा' आकर्योक्तरूपस्थानावाप्तिमिति शेषः, कीदृशाम् ? - 'सत्पूज्यानां' सतां पूजार्हाणां, सती वा पूजा येषां ते सत्पूजास्तेषां 'संयतानां' संयमवतां वुसीमओ'त्ति प्राग्वत्, 'न संत्रस्यन्ति' नोद्विजन्ते, कदा?-मरणे मरणेन वाऽन्तो मरणान्तरस्तस्मिन् आवीचिमरणोपेक्षया वाऽन्त्यमरणे, प्राकृतत्वाच्च परनिपातः, समुपस्थित इति शेषः, शीलवन्तः' चारित्रिणो बहुश्रुता' विविधागमश्रवणावदातीकृतमतयः, इदमुक्तं भवति-य एवाविदितधार्मिकगतयोऽनुपार्जितधर्माणश्च त एव मरणादुद्विजन्ते, यथाक्वास्माभिर्मृत्वा गन्तव्यमिति, उपार्जितधर्माणस्तु धर्मफलमवगच्छन्तो न कुतोऽप्युद्विजन्ते, यथा-क्वास्माभिर्मृत्वा गन्तव्यं यदुक्तम्
* "चरितो निरुपक्लिष्टो धर्मो हि मयेति निर्वृतः स्वस्थः।
मरणादपि नोद्विजते कृतकृत्योऽस्मीति धर्मात्मा।" इति सूत्रार्थः ।। इत्थं सकामाकाममरणस्वरूपमभिधाय शिष्योपदेशमाहमू. (१५८) तुलिया विसेसमायाय, दयाधम्मस्स खंतिए।
विप्पसीइज्ज मेधावी, तहाभूएण अप्पणा ॥ वृ. 'तोलयित्वा' परीक्ष्यात्मानं धृतिदाढर्यादिगुणान्वितमिति गम्यते, 'विशेष' प्रक्रमाद्भक्तपरिज्ञादिकं मरणभेदम् ‘आदाय' बुद्धा गृहीत्वाऽभ्युपगम्येतियावत्, दयाप्रधानो धर्मो दयाधर्मो-दशविधयतिधर्मरूप: तस्य सम्बन्धिनी या क्षान्तिस्तया, उपलक्षत्वात् मार्दवादिभिश्च, 'विप्रसीदेत्' विशेषेण प्रसन्नो भवेत्, न तु मरणादुद्विजेतेति भावः, 'मेधावी' मर्यादावर्ती 'तथाभूतेन' उपशान्तमोहोदयेन, यदिवा-यथैव मरणकालात्प्रागनाकुलचेता अभूत् मरणकालेऽपि तथैवावस्थितेन तथाभूतेनात्मना स्वयमयमपरकल्पोऽपि विप्रसीदेत्-कषायपङ्कापगमतः स्वच्छतां भजेत् न तु कृतद्वादशवर्षसंलेखनतथाविधतपस्विवन्निजांलीभङ्गादिना कषायितामवलम्बेत मेधावी, किं कृत्वा?-तोलयित्वा बालमरणपण्डितमरणे, ततश्च 'विशेष' बालमरणात् पण्डितमरणस्य विशिष्टत्वलक्षणमादायगृहीत्वा तथा दयाधर्मस्येति, चशब्दस्य गम्यमानत्वात्, दयाधर्मस्य च-यतिधर्मस्य विशेष-शेषधर्मातिशायित्वल क्षणमादायेति सम्बन्धः, कया विप्रसीदेत् ? क्षात्या, तथाभूतेनेति निष्कषायेणात्मनोपलक्षित इति सूत्रार्थः॥ मू. (१५९) तओ काले अभिप्पेए, सड्डी तालीसमंतिए।
विनएज्ज लोमहरिसं, भेयं देहस्स कंखए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org