________________
१६०
उत्तराध्ययन-मूलसूत्रम्-१-४/११६ निहतो निरंगणो अटेणेण निक्खित्तसत्थेणं ।।" एवं भणियमेत्ते राइणा एस अट्टणोत्तिकाउंतुटेण पूजितो, दव्वं च से पज्जत्तियं आमरणंतियं दिन्नं, सयणवग्गो य से तं सोउं तस्स सगासमुवगतो, पायवडणमाईहिं पत्तियावेउंदव्वलोभेणं अल्लियावितो, पच्छा सो चितेइ-ममं एते दव्वलोभेण अल्लियावेंति, पुणोऽवि मम परिभविस्संतित्ति, जरापरिगतो अहं न पुणो सुमहल्लेणावि पयत्तेण सक्किस्सं जुवत्तं काउं, तंजावऽज्जवि सचेट्ठो ताव पव्वयामित्ति संपहारेउं पव्वतितो॥ एवं जरोपनीतस्याट्टनस्येवान्यस्यापि न त्राणंबन्धुभिः पालनं जरातो वा रक्षणम्, ‘एव' मित्येवं प्रकारं पाठान्तरतः-एनं वा-अनन्तरोक्तमर्थं 'विजानीहि' विशेषेण विविधं वा अवबुध्यस्व, तथैतच्च वक्ष्यमाणं जानीहि, यथा 'जनाः' लोका: 'प्रमत्ताः' प्रमादपराः, उभयत्र सूत्रत्वादेकवचनं, 'कम्' अर्थं प्रकमात् त्राणं, नु इति वितर्के, विवधम्-अनेकधा हिंस्त्रा-हिंसनशीला:, आर्षत्वद्वा वीति-विश्रब्धान् स्वेषु स्वेपूत्पत्तिस्थानेष्वनाकुलमवस्थितान् जन्तून् हिंसन्तीति विहिंसाः, तथा अयता:-तत्तत्पापस्थानेभ्योऽनुपरताः ‘गहन्ति'त्ति सूत्रत्वाद गमिष्यन्ति, ग्रहीष्यन्ति वा-स्वीकरिष्यन्ति, किमुक्तं भवति?___ एवमेतेप्रमत्तादीविशेषणान्विता जनाः स्वकृतैरीदग्भिः कर्मभिर्नरकादिकमेव यातनास्थानं गमिष्यन्ति ग्रहीष्यन्ति वा, यद्वैवं नीयते-असंस्कृतं जीवितमिति मा प्रमादीरित्यादि (दौ) गुरुणोक्ते कदाचिच्छिष्यो वदेत्-बहुरयं जनः प्रमत्तः, तद्वदहमपि भविष्यामीत्याशङ्कय गुरुराहभद्र ! एवं जानीहि जनः प्रमत्तो विहिंस्त्रोऽयतः 'कन्नु'त्ति कामप्यवक्तव्यां नरकादिगतिमसौ गमिष्यति ग्रहीष्यति वा, अतः किं तव विवेकिन एवंविधजनव्यवहाराश्रयणेन?, सूत्रत्वाच्चैकत्वेऽपि बहुवचनमिति सूत्रार्थः। असंस्कृतं जीवितमीत्युक्तम्, अतस्तद व्याचिख्यासुराह नि.[ १८२] उत्तरकरणेण कयं जं किंची संखयं तु नायव्वं ।
सेसं असंखयं खलु असंखयस्सेस निज्जुत्ती॥ ७. मूलत: स्वहेतुभ्य उत्पन्नस्य पुनरुत्तरकालं विशेषाधानात्मकं करणमुत्तरकरणं तेन कृतंनिर्वर्तितं, 'यत्किञ्चिदि' त्यविवक्षितघटादि, यत्तदोनित्यमभिसम्बन्धात् तत् संस्कृतं, तुः आवधारणे, स चैवं याज्यते-यदुत्तरकरणकृतं तदेव संस्कृतं ज्ञातव्यं, 'शेषम्' अतोऽन्यत्संस्कारानुचितं विदीर्णमुक्ताफलोपममसंस्कृतमेव, खलुशब्दस्यैवकारार्थत्वात्, असंस्कृतमितस्य सूत्रावयवस्य 'एषा' वक्ष्यमाणलक्षणा नियुक्तिः, बहुवक्तव्यतया च प्रतिज्ञानम्, अथवा यथाऽऽचारपञ्चमाध्ययनस्य 'आवन्ती'त्यादानपदेन नाम तथा अस्याप्यसंस्कृतमिति नाम, ततश्चासंस्कृतनाम्नोऽस्यैवाध्ययनस्यैषा नामनिष्पन्ननिक्षेपनियुक्तिस्तत्प्रस्ताव एव व्याख्यातव्येति गाथार्थः ।। सम्प्रति संस्कृतप्रतिषेधादसंस्कृतं विज्ञायत इति संस्कृतशब्दस्य निक्षेपो वाच्यः, तत्र च यद्यपि समित्युपसर्गोऽप्यस्ति तथाऽपि धात्वर्थद्योतकत्वात्तस्य करणस्यैव चात्र धात्वर्थात्तदेव निक्षेप्तुमाह नियुक्तिकृतनि.[ १८३] नामंठवणाकरणं खित्ते काले तहेव भावे य।
___एसो खलु करणंमी निक्खेवो छव्विहो होइ॥ वृ. नाम स्थापना द्रव्यं क्षेत्रं कालः 'तथैवे'ति तेनैव वस्तुरूपतालक्षणेन प्रकारेण 'भावे य'त्ति भावश्च, एष एव-अनन्तरोक्तः, खलुशब्दस्यैवकारार्थत्वात्, 'करणे' करणविषये 'निक्षेपो'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org