SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ उत्तराध्ययन-मूलसूत्रम्-१-३/९६ तेसु उट्टितेसु विंझो अनुभासति, अदमे कम्मप्पवाए पव्वे कम्मं पन्नविज्जति, जीवस्सय कम्मस्स य कहं बंधो?, तत्थ ते भणंति-बद्धं पुढे निकाईयं, बद्धं जहा सुइकलावो, पुढे जहा घननिरंतरातो कयाओ, निकाईयं जहा तावेऊण पिट्टिया, एवं कम्मं रागदोसेहिं जीवो पडमं बंधइ, पच्छा तं परिणामं अमुंचंतो पुढे करेति, तेणेव संकिलिट्ठपरिणामेण तं अमुंचंतो किंचि निकाएति, निकाईयं निरुवक्कम, उदएण नवरि वेइज्जइ, अन्नहा तं न वेइज्जति, ताहे सो गोट्ठामाहिलो वारेति, एत्तियं न भवति, अन्नयावि अम्हेहिं सुयं-जइ एत्तियं कम्मं बद्धं पुढे निकाचियं एवं भो मोक्खो न भविस्सति, तो खाइ किह बज्झइ?, भणइ-सुणेहनि.[१७६] पुट्ठो जहा अबद्धो कंचुइणं कंचुओ समन्नेइ। एवं पुट्ठमबद्धं जीवं कम्मं समन्नेइ ।। वृ. जहा सो कंचुकिणं पुरिसं फुसति, न उण सो कंचुओ सरीरेण समं बद्धो, एवं चेव कम्मंपि, पुटुं, न उण बद्धं जीवपएसेहिं समं, जस्स बद्धं तस्स कम्मसंसारच्छित्ती न भविस्सति, ताहे सो भणति-एत्तियं आयरिएहिं अम्हं भणियं, एसो न याणति, ताहे सो संकितो समाणो पुच्छतो गतो, मा मए अन्नहा गहियं हवेज्जा, ताहे पुच्छिया आयरिया, तैरुक्तम्-यथा तस्यायमाशयः यतो यद्भत्स्यते तेन, स्पृष्टमात्रं तदिष्यताम्। कञ्चुको कञ्चकनैव कर्म भेत्स्यति चात्मनः ।। प्रयोगः-यद्येन भविष्यत्पृथग्भावं तत्तेन स्पष्टमात्र, यथा कञ्चुकः कञ्चुकिना, भविष्यत्पृथग्भावं च कर्म जीवेन, अत्र प्रष्टव्योऽयम्-कञ्चुकवत्स्पृष्टमात्रता कर्मणः किमेकैकजीवप्रदेशपरिवेष्टनेन सकलजीवप्रदेशप्रचयपरिवेष्टनेन वा?, यद्येकैकजीवप्रदेशपरिवेष्टनेन तत्किमिदं परिवेष्टनं मुख्यमौपचारिकं वा?, यदि मुख्यं सिद्धान्तविरोधः, मुख्यं हि परिक्षेपणमेव परिवेष्टनम्, एवं च भिन्नदेशस्य कर्मणो ग्रहणं, सिद्धान्ते तु यत्राकाशदेशे य आत्मप्रदेशोऽवगाढः तेन तत्रैवावगाढं कर्म गृह्यते इत्युक्तम्, अत एवाह शिवशर्माचार्य: "एगपएसोगाढं सव्वपएसेहि कम्मुनो जोगं । गेण्हइ जहुत्तहेऊ साईयमणाइयं वावि॥" अथौपचारिकं यथा हि कञ्चुकी कञ्चुकेनेवावष्टब्धश्चावृतश्च, एवं जीवप्रदेशा अपि कर्मप्रदेशैरिति मुख्यपरिवेष्टनाभावेऽपि तेषां तत्परिवेष्टनमुच्यते, तर्हि स्फुटैवास्मदिष्टबन्धसिद्धिः, अस्माकमप्यनन्तकर्माणुवर्गणाभिरात्मप्रदेशानामुक्तरूपपरिवेष्टनस्यैव बन्धत्वेनेष्टत्वात्, आगमश्चात्र-“एगमेगे आयपएसे अनंतानंताहिं कम्मवग्गूहिं आवेढियपरिवेढियत्ति" ततश्च विपर्ययसाधनाद्विरुद्धो हेतुः, सकलजीवप्रदेशप्रचयपरिवेष्टनेनेत्यस्मिन्नपि पक्षे भिन्नदेशकर्मग्रहणेन तथैव सिद्धान्तविरोधः, तथा तत्र वहिः प्रदेशबन्ध एव कर्मणः सम्भवति, ततश्च मलस्येव न तस्य भवान्तरानुवृत्तिः, एवं च पुनर्भवाभावः, सिद्धानां वा पुनर्भवाऽऽपत्तिः, न च मलस्य शरीरेण स्पृष्टतया दृष्टान्तवैषम्यं, शरीरात्मप्रदेशानामन्योऽन्यमविभागेनावस्थानाद्, अन्यथा हि मृणालस्पर्शाद्यनुभावप्रसङ्गः, किञ्च-इयं देहान्तः सातादिवेदना सनिबन्धना निर्निबन्धना वा?, निर्निबन्धना चेत्कि न सिद्धानामपि?, सनिबन्धनत्वे च किं पयःपानादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy